72042: लिङ्सिचोरात्मनेपदेषु¶
Padacheda: लिङ्सिचोः | S | 7 | 2 |
आत्मनेपदेषु | S | 7 | 3 |
Sutrartha¶
Vasu English Summary¶
The इट् is optionally added to endings of the आत्मनेपद Benedictive and s-Aorist, after वृ and ॠ ending roots.
Vasu English Translation¶
The इट् is optionally added to endings of the आत्मनेपद Benedictive and s-Aorist, after वृ and ॠ ending roots. As वृषीष्ट or वरिषीष्ट, प्रावृषीष्ट ((1.2.12) no guna) प्रावरिषीष्ट, आस्तरिषीष्ट, आस्तीर्षीष्ट ॥ सिचिखस्वपि, अवृत, अवरिष्ट, अवरीष्ट, प्रावृत, प्रावरिष्ट, प्रावरीष्ट, आस्तीर्ष्ट, आस्तरिष्ट, आस्तरीष्ट ॥ आत्मनेपदेष्विति किम् ? प्रावारिष्टाम्, प्रावारिषुः ॥ लिङः प्रत्युदाहरणं न दर्शितमसंभवादिटोऽवलादित्वादिति ॥
Why in the Atmanepada? Observe प्रावारिष्टाम्, प्रावारिषुः ॥ No counterexamples of Benedictive Parasmaipadi are given, as the affixes not being वलादि, the इट् can never be added to them.
Kashika¶
वृतो लिङि सिचि चात्मनेपदपरे वेडागमो भवति। वृषीष्ट, वरिषीष्ट। प्रवृषीष्ट, प्रावरिषीष्ट। आस्तरिषीष्ट, आस्तीर्षीष्ट। सिचि खल्वपि — अवृत, अवरिष्ट, अवरीष्ट। प्रावृत, प्रावरिष्ट, प्रावरीष्ट। आस्तीर्ष्ट, आस्तरिष्ट, आस्तरीष्ट। आत्मनेपदेष्विति किम्? प्रावारिष्टाम्, प्रावारिषुः। लिङः प्रत्युदाहरणं न दर्शितम्, असंभवाद् यासुटोऽवलादित्वादिति॥
Siddhanta Kaumudi¶
वृङ्वृञ्भ्यामॄदन्ताच्च परयोर्लिङ्सिचोरिड्वा स्यात्तङि ॥
Laghu Siddhanta Kaumudi¶
वृङ्वृञ्भ्यामॄदन्ताच्च परयोर्लिङ्सिचोरिड् वा स्यात्तङि॥
Balamanorama¶
लिङ्सिचोरात्मनेपदेषु - ॒इट् सनि वा॑ इत्यत इड्वेत्यनुवर्तते ।वृतो वे॑त्यतो ‘वृत’ इति । तदाह — वृङ्वृञ्भ्यामित्यादिना ।
Tattvabodhini¶
लिङ्सिचोरात्मनेपदेषु - लिङ्सिचोः ।वृत इत्यनुवर्तते । आत्मनेपदेषु किम् । अवारीत् । अवारिष्टाम् । अवारिषुः ।सिचि च परस्मैपदेषु॑ इति निषेधादिहवृतो वे॑ति न दीर्घः ।
Padamanjari¶
आत्मनेपदे परे इति । सिच एवैतद्विशेषणम्, न लिङ्ः, असम्भवात् । न चैवं तस्य परस्मैपदेऽपि प्रसङ्गः वलादेः इत्यधिकारात् । प्रावृषीष्टेत्यादौ उश्चेति कित्वम् ॥
Nyaas¶
वृत उदात्तत्वादिटि प्राप्ते विकल्पार्थ आरम्भः। आत्मनेपदेषु इति परसपतमीयम्। सिचश्चैतद्वि शेषणम्। यद्येवम्, लिङ्? विशेषितो न स्यात्, ततश्च लिङ्? परस्मैपदेष्वपि प्रसज्येत? नैतदस्ति; वलादेः (7.2.35) इत्यधिकारात्, लिङ्श्च परस्मैपदेषु यासुडादित्वाभावात्। आत्मनेपदपरे इति। आत्मनेपदं परं यस्मात्? स तथोक्तः। एतच्च सिजित्यनेनैव सम्बध्यते, न लिङित्यनेम; सिचमेव प्रत्यात्मनेपदग्रहणस्य विशेषणभावात्। वृषीष्ट इति। उश्च (1.2.12) इति कित्त्वाद्गुणाभावः। आस्तीर्षीष्ट`इति। पूर्ववत्? कित्त्वदीर्घत्वादिः। `अवृत इति। ह्रस्वादङ्गात् (8.2.27) इति सिचो लोपः॥
Prakriyasarvasvam¶
वृङ्वृञ्भ्यामृदन्ताच्च परयोलिङ्सिचोस्तङि इड्वा स्यात् । इडभावे ‘उश्च’ इति कित्त्वाद् गुणाभावाद् ‘उदोष्ठ्यपूर्वस्य’ इत्युत् । ‘हलि च’ इति दीर्घः । (इट्पक्षे) इटा ‘वृ तो वा’ इति दीर्घः । इट्प्रकरणोक्तस्यैवेटी दीर्घ इति चिण्वदिटो दीर्घो न । तेन चतुर्धा । अपारिषाताम्, अपरिषाताम्, अपरीषाताम्, अपूर्षाताम् । अपूर्षत । अपूर्ष्ठाः । ‘धित्व’ । ‘इणः षीध्वम्’ । अपूर्ध्वम् । इट्पक्षे त्रिष्वपि विभाषेटः’ इति षोढोह्वम् । अपूर्षि । अपूर्ष्वहि । लिटि-
Sutra Prayogas¶
संवरिषीष्ठास्त्वं (भट्टिकाव्यम्): आशिषि लिङ् - सिचोरात्मनेपदेषु इति वृञो विभाषेट् ।