72041: इट् सनि वा

Padacheda: इट् | S | 1 | 1 |

सनि | S | 7 | 1 |

वा | S | 0 | 0 |

Sutrartha


Vasu English Summary

The Desiderative स् may optionally take इट् (which is optionally lengthened also) after the said after वृ and ॠ ending roots.

Vasu English Translation

The Desiderative स् may optionally take इट् (which is optionally lengthened also) after the said after वृ and ॠ ending roots. As वुवूर्षति । विवरिषते । विवरीषते । प्रावुवूर्षति । प्राविवरिषति । प्राविवरीषति । ॠकारान्तेभ्यः । तितीर्षति । तितरिषति । तितरीषति । आसिस्तीर्षति । This Parasmaipada form is not valid, according to Padamanjari. आतिस्तरिषति । आतिस्तरीषति । सनि ग्रहगुहश्चेत इट्प्रतिषेधे प्राप्ते पक्षे इडागमो विधीयते । इटश्च वॄतो वेति पक्षेदीर्घः । चिकीर्षति जिहीर्षति इत्यत्रोपदेशोधिकाराल्लाक्षणिकत्वाच्च इडागमो न भवति ॥

The इट् was prohibited by (7.2.12), in case of the Desideratives, hence this sutra : when इट् is added, it may be lengthened by (7.2.38). The augment इट् however is not added in चिकीर्षति and जिहीर्षति, as they are formed from कृ ‘to do’ and हृ ‘to lose’, which do not take इट् at all. Because here, though the short ऋ is lengthened before सम्, by (6.4.16), yet such lengthening will not make the roots long ॠ ending roots. Because the anuvritti of the word upadesa is understood here from (7.2.10), so that the rule applies to those roots only which in upadesa’ or Dhatupatha end in long ॠ and not those whose ॠ is lengthened by some Grammatical rule. Moreover, the long ॠ in कृ and हृ is temporary only, as it is replaced by long ई ॥ (See (6.4.16), for lengthening). The Desiderative of कॄ - चिकरिषति, however, does not lengthen its vowel (7.2.75).

Kashika

वृतः सनो वेडागमो भवति। वुवूर्षते, विवरिषते, विवरीषते। प्रावुवूर्षति, प्राविवरिषति, प्राविवरीषति। ॠकारान्तेभ्यः — तितीर्षति, तितरिषति, तितरीषति। आतिस्तीर्षते, आतिस्तरिषते, आतिस्तरीषते। सनि ग्रहगुहोश्च (७.२.१२) इतीट्प्रतिषेधे प्राप्ते पक्ष इडागमो विधीयते। इटश्च वृतो वा (७.२.३८) इति पक्षे दीर्घः। चिकीर्षति, जिहीर्षति इत्यत्रोपदेशाधिकाराद् लाक्षणिकत्वात् चेडागमो न भवति॥

Siddhanta Kaumudi

वृङ्वृञ्भ्यामॄदन्ताच्च सन इड्वा स्यात् । तितरिषति । तितरीषति । तितीर्षति । विवरिषति । विवरीषति । वुवूर्षति । वृङ् । वुवूर्षते । विवरिषते । दुध्वूर्षति ॥

Balamanorama

इट् सनि वा - इट् सनि वा ।वतो वे॑त्यतो ‘वृत’ इत्यनुवर्तते इति मत्वाह — वृङ्वृञ्भ्यामित्यादि ।सनि ग्रहगुहोश्चे॑त्यस्यापवादः । चिकीर्षतीत्यादौअज्झने॑ति दीर्घ कृते सनि नेदं प्रवर्तते, ‘एकाच उपदेशे’ इत्यत उपदेशे इत्यनुवर्त्त्य उपदेशे ऋकारान्तादिति व्याख्यानात् । तितरिषति — तितरीषतीति । तृधातोः सनि लटिवृतो वे॑ति दीर्घः । इडभावे त्वाह- तितीर्षतीति ।इको झ॑लिति कित्त्वाद्गुणाऽभावेतृ इत्यस्य ऋकारस्य इत्त्वे रपरत्वेहलि चे॑ति दीर्घ इति भावः । विवरिषतीति । वृञ्धातोः सनि इटिवृतो वे॑ति दीर्गविकल्पः । इडभावे त्वाह — वुवूर्पतीति । उदोष्ठए॑त्युत्वे रपरत्वेहलि चे॑ति दीर्घः । वुवूर्षते इति । ङित्त्वादात्मनेपदेम् । दुर्ध्वूर्षतीति ।द्वृ कौटिल्ये॒॑अज्झने॑ति दीर्घः ।उदोष्ठए त्युत्वे,हलि चे॑ति दीर्घ इति भावः ।

Tattvabodhini

इट् सनि वा - इट्सनि वा । चिकीर्षतीत्यादौअज्झनगमा॑मिति दीर्घे कृते नेदं प्रवर्तते,एकाच उपदेशे॑ इत्यत उपदेश इत्यनुवर्त्त्य , उपदेशे ऋकारान्तादिति व्याख्यानात् । अत एवेटं विनैवोदाहरति — दुध्वूर्षतीति ।ध्वृ कौटिल्यै॑ ।अज्झने॑ति दीर्घः ।#उदोष्ठपूर्वस्ये॑त्युत्वं । रपरत्वं ।हलि चे॑ति दीर्घः ।

Padamanjari

अत्रातिस्तीर्षतीति परस्मैदपाठो न युक्तः ॥

Nyaas

वुवूर्षते इति। इको झल् (1.2.9) इति सनः कित्त्वम्, अज्झनगमां सनि (6.4.16) इति दीर्घः, उदोष्ठपूर्वस्य (7.1.102) इत्युत्वम्, रपरत्वम्। अतेह कस्मान्न भवति - चिकीर्षति, जिहीर्षतीति, अस्ति दीर्घत्वे कृते प्राप्तिः? इत्यत आह - चिकीर्षति, जिहिर्षति इति। गतार्थम्॥

Prakriyasarvasvam

चिक्रंसते । प्रचिक्रंसते । ‘पूर्ववत् सनः’ (१-३-६२) इति तङ् । भावादौ तङ् चिक्रंस्यते । णिचि-चिक्रंसयते । तङभावे तु सन इडेव । चिक्रमिषति । चिक्रमिषयति । कृत्स्वपि तङोऽसद्भावादिडेव । चिक्रमिषिता३ । चिक्रमिषा४ । चिक्रमिषयति । कृत्स्वपि तङोऽसद्भावादिडेव । चिक्रमिषिता३ । चिक्रमिषा४ । <karika>सनन्तस्य क्रमेरस्य कर्मकर्तरि णिच्यपि । तङः स्थितावपिडेव भवेदित्याह माधवः ॥ ७८३ ॥</karika> रिपुमाचिक्रमिषतीत्यत्र, कर्मकर्तरि आचिक्रमिषते रिपुः स्वयमेव५ । एवं सनन्ताण्णिचि तङि चिक्रमिषयते । वृञ्वृञ्भ्यामृदन्ताच्च परस्य सन इड् वा स्यात् । ‘वृतो वा’ (७-२-३८) इति दीर्घः । विवरिषति । विवरीषति । अनिट्त्वे ‘अज्झन-’ (६-४-१६) इति दीर्घः । ‘उदोष्ठ्यपूर्वस्य’ (७-१-१०२) इत्यूत उत्त्वम् । ततो द्वित्वम् । ‘हलि च’ (८-२-७७) इति दीर्घः । बुवूर्षति । ऋदन्तात् - तितरिषति, तितरीषति । अनिट्त्वे ऋत इत् । तितीर्षति । स्वरत्यादाविगन्तानां ‘सनि ग्रह-’ (७-२-१२) इतीणूनिषेध एव । ऊदितां तु वेट् । मृजू-मिमार्जिषति । अनिट्त्वे ‘हलन्ताच्च’ (१-२-१०) इति कित्त्वान्न वृद्धिः । मिमृक्षति । एवं-‘रधादिभ्यश्च’ (७-२-४५)। इति रधेर्नुम् । रिरन्धिषति । चर्त्वम् । रिरत्सति । निनशिषति । निनङ्क्षति । अत्र ‘मस्जिनशोः - ‘ (७-१-६०) इति नुम् ।

Sutra Prayogas

  • प्रावुवूर्षु (भट्टिकाव्यम्): प्राङ्पूर्वस्य इट् सेनि वा इत्यनिपक्षे।

  • विवरिषुर्द्रुतम् (भट्टिकाव्यम्): इट् सनि वा इति विभाषेट् ।

  • चिकरिषोर् (भट्टिकाव्यम्): इट् सनि वा इति विकल्पे।