72051: पूङश्च

Padacheda: पूङः | S | 5 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The affixes क्त्वा , क्त and क्त्वातु optionally get the इट् augment after पू।

Vasu English Translation

The affixes क्त्वा , क्त and क्त्वातु optionally get the इट् augment after पू। As पूत्वा or पवित्वा, सोमोतिपूतः, सोमोतिपवितः पूतवान् or पवितवान् ॥ This allows option where by (7.2.11) there would have been prohibition. See (1.2.22).

Kashika

पूङश्च क्त्वानिष्ठयोर्वेडागमो भवति। पूत्वा, पवित्वा। सोमोऽतिपूतः, सोमोऽतिपवतिः। पूतवान्, पवितवान्। श्र्युकः किति (७.२.११) इति प्रतिषेधे प्राप्ते विकल्पो विधीयते॥

Siddhanta Kaumudi

पूङः क्त्वानिष्ठयोरिड्वा स्यात् ॥

Balamanorama

पूङश्च - पूङश्च । क्त्वानिष्ठयोरिति ।क्लिशः क्त्वनिष्ठयो॑रित्यतस्तदनुवृत्तेरिति भावः । इड्वेति ।स्वरतिसूती॑त्यतो वाग्रहणस्य ,इण्निष्ठाया॑मित्यत इडित्यस्य चाऽनुवृत्तेरिति भावः । ‘श्र्युकः’ इति निषेधे प्राप्ते विकल्पोऽयम् ।

Tattvabodhini

पूङश्च - पूङश्च ।श्र्युकः किती॑ति निषेधे प्राप्ते वचनम् ।

Nyaas

उगन्तत्वात्? श्रयुकः किति (7.2.11) इतीट्प्रतीषेधे प्राप्ते कत्वानिष्ठयोः पक्षे प्राप्त्यर्थं वचनम्। पवित्वा, पक्तिः, पवितवान् इति। पूङः क्त्वा च (1.2.22) इति कित्त्वप्रतिषेधाद्गुणो भवत्येव। पूङः इति सानुबन्धकस्य ग्रहणं पूञो निवृत्त्यर्थम्॥।

Prakriyasarvasvam

क्त्वानिष्ठयोर्वेट् ॥

Sutra Prayogas

  • मन्त्रपवितं (शिशुपालवधम्): पूङ्श्च इति विकल्पादिडागमः।

  • पूतं (भट्टिकाव्यम्): पूङश्च इति विकल्पेनेट्।