72048: तीषसहलुभरुषरिषः¶
Padacheda: ति | S | 7 | 1 |
इषसहलुभरुषरिषः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
An आर्धधातुक affix beginning with a त may optionally take the इट् affix after the roots 1. इष् 2. सह् 3. लुभ् 4. रुष् and 5. रिष्।
Vasu English Translation¶
An आर्धधातुक affix beginning with a त may optionally take the इट् affix after the roots 1. इष् 2. सह् 3. लुभ् 4. रुष् and 5. रिष्। As एष्टा or एषिता ॥ The इष् ‘to wish’ (VI.59) is taken here, and not the इष् (IV. 19. IX. 53) of the Divadi and Kryadi class. Of the Divadi इष् ‘to send, to go ‘ we have invariably प्रेषिता, प्रेषितुं, प्रेषितव्यं; and the इष् ‘to repeat’ of the Kryadi is governed also by this rule and has the same forms. Therefore some read the anuvritti of उदित् into this sutra. सह । सोढा । सहिता । लुभ । लोभिता । लोब्धा । रुष । रोष्टा । रोषिता । रिष् । रेष्टा । रेषिता ॥ Why do we say ‘beginning with a त’ ? Observe एषिष्यति ॥
Bhashya¶
तीषसहलुभरुषरिषः(2) ॥ इषेस्तकारे श्यन्प्रत्ययात्प्रतिषेधः ॥ इषेस्तकारे श्यन्प्रत्ययात्प्रतिषेधो वक्तव्यः । इह मा भूत् - प्रेषिता प्रेषितुम् प्रेषितव्यम् ॥ (तीषसहलुभ) ॥
Kashika¶
तकारादावार्धधातुक इषु सह लुभ रुष रिष इत्येतेभ्यो वेडागमो भवति। इषु — एष्टा, एषिता। इषु इच्छयाम् इत्यस्यायं विकल्प इष्यते। यस्तु इष गतौ इति दैवादिकस्तस्य प्रेषिता, प्रेषितुम्, प्रेषितव्यमिति नित्यं भवति। योऽपि इष आभीक्ष्ण्ये इति क्र्यादौ पठ्यते, तस्याप्येवमेव। तदर्थमेव तीषसहेति सूत्रे केचिदुदितमिषं पठन्ति। सह — सोढा, सहिता। लुभ — लोब्धा, लोभिता। रुष — रोष्टा, रोषिता। रिष् — रेष्टा, रेषिता। तीति किम्? एषिष्यति॥
Siddhanta Kaumudi¶
इच्छत्यादेः परस्य तादेरार्धधातुकस्योड्वा स्यात् । रोषिता । रोष्टा । रोषिष्यति । रेषिता । रेष्टा । रेषिष्यति ।{$ {!695 भष!} भर्त्सने$} । इक्ष भर्त्सनं श्वरवः । भषति । बभाष ।{$ {!696 उष!} दाहे $}। ओषति ॥
Laghu Siddhanta Kaumudi¶
इच्छत्यादेः परस्य तादेरार्धधातुकस्येड्वा स्यात्। लोभिता, लोब्धा। लोभिष्यति॥ {$ {! 20-21 तृप, तृम्फ !} तृप्तौ $} (धातुपाठे (06.0028), (06.0031)) ॥ तृपति। ततर्प। तर्पिता। अतर्पीत्। तृम्फति। शे तृम्फादीनां नुम् वाच्यः (वार्त्तिकम्) । आदिशब्दः प्रकारे, तेन येऽत्र नकारानुषक्तास्ते तृम्फादयः। ततृम्फ। तृफ्यात्॥ {$ {! 22-23 मृड, पृड !} सुखने $} (धातुपाठे (06.0053), (06.0054)) ॥ मृडति। पृडति। ॥ {$ {! 24 शुन !} गतौ $} (धातुपाठे (06.0062)) ॥ शुनति॥ {$ {! 25 इषु !} इच्छायाम् $} (धातुपाठे (06.0078)) ॥ इच्छति। एषिता, एष्टा। एषिष्यति। इष्यात्। ऐषीत्॥ {$ {! 26 कुट !} कौटिल्ये $} ((06.0093)) ॥ गाङ्कुटादीति ङित्त्वम्॥ चुकुटिथ। चुकोट, चुकुट। कुटिता॥ {$ {! 27 पुट !} संश्लेषणे $} (धातुपाठे (06.0094)) ॥ पुटति। पुटिता। ॥ {$ {! 28 स्फुट !} विकसने $} (धातुपाठे (06.0100)) ॥ स्फुटति। स्फुटिता॥ {$ {! 29-30 स्फुर, स्फुल !} संचलने $} (धातुपाठे (06.0121), (06.0122)) ॥ स्फुरति। स्फुलति॥
Balamanorama¶
तीषसहलुभरुषरिषः - सह लुभ रुष रिष एषां द्वन्द्वात्पञ्चम्येकवचनम् । तदाह -इच्छत्यादेरिति । इच्छतीति इषेः श्तिपा निर्देशः । इषधातुर्विवक्षितः । ‘इषु इच्छायां’ तुदादिः शविकरणः । ‘इष गतौ’ दिवादिः श्यन्विकरणः । ‘इष आभीक्ष्ण्ये’ क्र्यादिः श्नाविकरणः । तत्रइषेस्तकारे श्यन्प्रत्ययात्प्रतिषेधः॑ इति वार्तिकात् श्यन्विकरणस्य न ग्रहणम् । रोषिता रोष्टेति । इडभावे ष्टत्वेन तकारस्य टकारः । रिषेस्तादाविड्विकल्पं मत्वा आह — रेषिता रेष्टेति । उष दाह इति । सेट्कोऽयम् । उखधातुवत् रूपाणि ।
Tattvabodhini¶
तीषसहलुभरुषरिषः - तीषसह । इष इच्छायाम् । षह मर्षणे । लुभ गाघ्र्ये । रुष रिष हिंसायाम् । एषिता । एष्टा । सहिता । सोढा । लोभिता । लोब्धा ।
Nyaas¶
इषु इच्छायाम् (धातुपाठः-1351),[इष - धातुपाठः-] षह मर्षणे (धातुपाठः-852); लुभ गार्द्ध्ये (धातुपाठः-1238), `लुभ विमोहने (धातुपाठः-1305) - द्वयोरपि ग्रहणम्; विशेषानुपादनात्। रुष रोषे (धातुपाठः-1670), रुष रिष हिंसायाम् धातुपाठः-1230,1231)। सर्व एषैत उदात्ता इति नित्यामिटि प्राप्ते विकल्पार्थोऽयमारम्भः। तदर्थम् इति। इच्छार्थस्यैव विकल्पो यथा स्यादितरयोर्म भूदित्येवमर्थम्। ये तूदितं न पठन्ति, ते वा इति प्रकृतस्य व्यवस्थितविभाषाविज्ञानात्? सहिना भौवादिकेन साहचर्याद्वा इच्छार्थस्यैव विकल्पेन भविष्यति, नेतरयोरिति वर्णयन्ति। सोढा इति। ढत्वष्टुत्वढलोपेषु कृतेषु सहिवहोरोदवर्णस्य (6.3.112)
Prakriyasarvasvam¶
इषादिभ्यस्तादावार्धधातुके इड् वा स्यात् । एषिता एष्टा । ‘इष गतावित्य- स्यात्राग्रहादेषितेत्येव । सहिता । अनिट्त्वे ढलोपे सहिवहोरौदवर्णस्य (६-३-११२) इत्योत्त्वम् । सोढा । लोभिता लोब्धा । रोषिता रोष्टा । रिषिहिंसार्थः । रेषिता रेष्टा । भृस्तुशुचिवस्यशिभ्यस्तादेरार्धधातुकस्येड् वेति कौमुदी । भरिता भर्ता । स्तविता स्तोता । शोचिता शोक्ता । वसिता वस्ता । लुग्गतोऽयम् । अशिता अष्टा । <karika>एवमेवाखिलं ग्राह्यं तुमुन्तृन्तव्यतासिषु । कृत्वानिष्ठयोरपि प्रायस्तुल्यमन्यत्तु वक्ष्यते ॥ ७३ ॥</karika> ‘कुट कौटिल्ये’ । कुट् इ तृ ।
Sutra Prayogas¶
सहितुम् (किरातार्जुनीयम्): तीषसहलुभरुषरिषः इति विकल्पादिडागमः।
विषहितुं (किरातार्जुनीयम्): तीषसहलुभरुषरिषः इति विकल्पादिडागमः।
सहितुं (भट्टिकाव्यम्): तीष-सह इत्यादिना वेट् ।