72052: वसतिक्षुधोरिट्¶
Padacheda: वसतिक्षुधोः | S | 6 | 2 |
इट् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affixes क्त्वा , क्त and क्त्वातु always get the इट् augment after वस् ‘to dwell’ and क्षुध्।
Vasu English Translation¶
The affixes क्त्वा , क्त and क्त्वातु always get the इट् augment after वस् ‘to dwell’ and क्षुध्। As उषित्वा, उषितः and उषितवान्, क्षुधित्वा, क्षुधितः, क्षुधितवान् ॥ The वस् of the Adadi class will get इट् as it is enumerated in the list of सेट् roots. The repetition of इट् shows that the rule is invariable, the ‘optionally’ of the preceding sutra does not affect it.
Bhashya¶
वसतिक्षुधोरिट् इडिति वर्तमाने पुनरिडग्रहणं किमर्थम् ? ॥ पुनरिड्ग्रहणं नित्यार्थम् ॥ इडिति वर्तमाने पुनरिड्ग्रहणं क्रियते ॥ (किं प्रयोजनम् ? ॥) ठनित्यार्थम् । नित्यार्थोऽयमारम्भः ॥ (वसतिक्षुधोरिट्) ॥
Kashika¶
वसतेः क्षुधेश्च क्त्वानिष्ठयोरिडागमो भवति। उषित्वा। उषितः उषितवान्। क्षुधित्वा। क्षुधितः। क्षुधितवान्। वसतीति विकरणो निर्देशार्थ एव। वस्तेस्तूदात्तत्वादेव भवितव्यमिटा। पुनरिड्ग्रहणं नित्यार्थम्॥
Siddhanta Kaumudi¶
आभ्यां क्त्वानिष्ठयोर्नित्यमिट् स्यात् । उषितः । क्षुधितः ॥
Balamanorama¶
वसतिक्षुधोरिट् - वसतिक्षुधोरिट् । पञ्चम्यर्थे षष्टी । क्त्वानिष्ठयोरिति ।क्लिशः क्त्वानिष्ठयो॑रित्यतस्तदनुवृत्तेरिति भावः । नित्यमिति । इडित्यनुवर्तमाने पुनरिड्ग्रहणस्यस्वरतिसूती॑त्यतो वाग्रहणानुवृत्तिनिवृत्त्यर्थत्वादिति भावः । ‘एकाच उपदेश’ इति इण्निषेधबाधनार्थमिदं सूत्रम् । उषित इति । यजादित्वात्संप्रसारणम्,शासिवसिघसीनां चे॑ति षः ।
Tattvabodhini¶
वसतिक्षुधोरिट् - उषित इति । यजादित्वात्संप्रसारणम् ।शासिवसी॑ ति षः ।वसती॑ति शपा निर्देशः स्पष्टार्थः । वस्तेः सेट्कत्वाद्भवितव्यमेवेटा । क्षुधित इति । एवं चतस्याऽलमेषा क्षुधितस्ये॑ति प्रयोगो निर्बाध एवेति क्षुधेर्धातोर्भावे क्विपितारकादित॑ जिति धातुवृत्तिषु यदुक्तं, तन्नादर्तव्यम् । समानन्यायतया क्रुधितादावुयोक्ष्यत इति वा कथंचिन्नेयम् ।
Padamanjari¶
उषित्वेति । पूर्ववत्कित्वम्, यजादित्वात्सम्प्रसारणम्, शासिवसि इत्यादिना षत्वम् । वस्तेस्त्विति । वस आच्छादने इत्यस्य यङ्लुग्निवृत्यर्थोऽपि शपा निर्द्देशो न भवति, तत्रापि क्त्वानिष्ठयोः सामान्यलक्षणेन इड् भवत्येव - वावसितः , वावसितवान्, वावसित्वा । गणाश्रयत्वात्सम्प्रसारकणाभावः ॥
Nyaas¶
वस निवासे (धातुपाठः-1005), क्षुध बुभुक्षायाम् (धातुपाठः-1190) - अनयोरनुदत्तत्वादिट्प्रतिषेधे प्राप्ते क्त्वानिष्ठयोरिङ्विधनार्थ वचनम्। उषित्वा इति। क्त्वा, इट्, न क्त्वा सेट् (1.2.18) इति कित्त्वप्रतिषेधे प्राप्ते मुडमृव (1.2.7) इत्यादिना कित्त्वम्, वच्यादिसूत्रेण (6.1.15) यजादित्वात्? सम्प्रसारणम्, शासिवसिचसीनां च (8.3.60) इति षत्वम्। क्षुधित्वा इति। अत्रापि रलो व्युपधाद्धलादेः संश्च (1.2.26) इति पक्षे कित्त्वम्। वसतीति विकरणनिर्देशः इत्यादि। विकरणनिर्देशो धातुनिर्देशार्थे एव इत्युक्तम्। अथ वस आच्छादने (धातुपाठः-1023) इत्यस्य निवृत्त्यर्थः कस्मान्न विज्ञायते? इति यश्चीदयेत्, तं प्रत्याह - वस्तेः इत्यादि। अथ वावस्तः, वावस्तवानित्यत्र यङ्लुङ्निवृत्त्यर्थः कस्मान्न विज्ञायते? इति यश्चोदयेत्, तं प्रत्याह - वस्तेः इत्यादि। अथ वावस्तः, वावस्तवानित्यत्र यङ्लुङ्निवृत्त्यर्थः कस्मान्न विज्ञायते? विहितविशेषणपक्षविज्ञानादपि यङ्लुङ्निवृत्तिः शक्यते कर्त्तुमित्यभिप्रायः। अथेडित्यनुवर्तमाने पुनरिङ्ग्रहणं किमर्थम्? इत्याह - पुनरिङ्ग्रहणं नित्यार्थम् इति। पूर्वकमिङ्ग्रहणं विकल्पेन सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। तस्मात्तन्निवृत्त्यर्थ पुनरिङ्ग्रहणं कृतम्॥
Prakriyasarvasvam¶
अनयोः क्त्वानिष्ठयोर्नित्यमिट् स्यात् । क्षुधितः । वसेर्यजादित्वात्तुत्वम् । ‘शासिवसि—’ (८-३-६०) इति षत्वम् । उषितः ॥
Sutra Prayogas¶
रसहासवतोपितेन (शिशुपालवधम्): वसतिक्षुधोरिट् इतीडागमः।
प्रोषितेषु (शिशुपालवधम्): वसतिक्षुधोरिट् इतीडागमः।