Sutras 21 - 40¶
- 42021: सास्मिन् पौर्णमासीति संज्ञायाम्
- 42022: आग्रहायण्यश्वत्थाट्ठक्
- 42023: विभाषा फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः
- 42024: सास्य देवता
- 42025: कस्येत्
- 42026: शुक्राद्घन्
- 42027: अपोनप्त्रपान्नप्तृभ्यां घः
- 42028: छ च
- 42029: महेन्द्राद्घाणौ च
- 42030: सोमाट्ट्यण्
- 42031: वाय्वृतुपित्रुषसो यत्
- 42032: द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च
- 42033: अग्नेर्ढक्
- 42034: कालेभ्यो भववत्
- 42035: महाराजप्रोष्ठपदाट्ठञ्
- 42036: पितृव्यमातुलमातामहपितामहाः
- 42037: तस्य समूहः
- 42038: भिक्षादिभ्योऽण्
- 42039: गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ्
- 42040: केदाराद्यञ् च