42039: गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ्

Padacheda: गोत्र-उक्षन्-उष्ट्र-उरभ्र-राजन्-राजन्य-राजपुत्र-वत्स-मनुष्य-अजात् | S | 5 | 1 |

वुञ् | S | 1 | 1 |

Sutrartha

गोत्रवाचिनः शब्दाः, तथा उक्षन्, उष्ट्र, उरभ्र, राजन्, राजन्य, राजपुत्र, वत्स, मनुष्य, अज - एतेभ्यः शब्देभ्यः ‘तस्य समूहः’ अस्मिन् अर्थे वुञ्-प्रत्ययः भवति ।

अत्र निर्दिष्टानां शब्दानां विषये तस्य समूहः (4.2.37) अस्मिन् अर्थे वुञ्-प्रत्ययः विधीयते । यथा - 1. गोत्रवाची-शब्दाः - औपगवानां समूहः औपगवकम् । कापटवानां समूहः कापटवकम् । (औपगव, कापटव - एतौ गोत्रवाचिनौ शब्दौ) । 2. उक्ष्णां (वृषभानाम्) समूहः = उक्षन् + वुञ् → औक्षकम् । अत्र नस्तद्धिते (6.4.144) इति ‘अन्’ इत्यस्य लोपः भवति । 3. उष्ट्राणां समूहः औष्ट्रकम् । 4. उरभ्राणां (मेषानाम्) समूहः औरभ्रकम् । 5. राज्ञां समूहः राजकम् । अत्र नस्तद्धिते (6.4.144) इति ‘अन्’ इत्यस्य लोपः भवति । 6. राजन्यानाम् समूहः राजन्यकम् । 7. राजपुत्राणां समूहः राजपुत्रकम् । 8. वत्सानां समूहः वात्सकम् । 9. अजानां समूहः आजकम् । एतेषु सर्वेषु युवोरनाकौ (7.1.1) इत्यनेन ‘वु’ इत्यस्य ‘अक’ आदेशः भवति । प्रत्ययस्य ञित्वात् तद्धितेष्वचामादेः (7.2.117) इत्यनेन आदिवृद्धिः अपि विधीयते । अत्र काशिकाकारः एकं वार्त्तिकं पाठयति - <!वृद्धात् चेति वक्तव्यम्!> । इत्युक्ते, ‘वृद्ध’ शब्दस्य विषये अपि समूहार्थे वुञ्-प्रत्ययः भवति । वृद्धानां समूहः वार्द्धकम् । ज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तः ‘गोत्र’शब्दः लौकिकगोत्रस्य निर्देशं करोति, न हि अपत्यं पौत्रप्रभृतिषु गोत्रम् (4.1.162) इत्यनेन निर्दिष्टस्य अपत्यवाचिनः अर्थस्य ।

Sutrartha (English)

For the words that indicate a गोत्र, and for the words in this list - उक्षन्, उष्ट्र, उरभ्र, राजन्, राजन्य, राजपुत्र, वत्स, मनुष्य, अज - The वुञ् प्रत्यय is added to indicate the meaning of तस्य समूहः.

Vasu English Summary

The affix वुञ् comes the sense is ‘a collection thereof’ after a word denoting a गोत्र (Patronymic) and after 1. उक्ष 2. उष्ट्र 3. उरभ्र 4. राजन 5. राजन्य 6. राजपुत्र 7. वत्स 8. मनुष्य and 9. अज।

Vasu English Translation

The affix वुञ् comes the sense is ‘a collection thereof’ after a word denoting a गोत्र (Patronymic) and after 1. उक्ष 2. उष्ट्र 3. उरभ्र 4. राजन 5. राजन्य 6. राजपुत्र 7. वत्स 8. मनुष्य and 9. अज। The word गोत्र is used here in its popular and not technical sense, meaning any descendant or offspring. Thus औपगवकम्, औक्षकम्, (6.4.144) औष्ट्रकम्, औरभ्रकम्, राजकम्, (6.4.144) राजन्यकम्, राजपुत्रकम्, वात्सकम्, मानुष्यकम्, आजकम् ॥ The final य of मनुष्य and राजन्य is not elided when the affix अक् is added (6.4.150)

Vart:- Also after the word वृद्ध e.g. वार्द्धकम् ‘a collection of old men’.

Bhashya

गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ्ञ् (1462) (वुञ्ञोऽधिकरणम्) (5360 पूरकवार्तिकम्॥ 1 ॥) - वृद्धाच्च - (भाष्यम्) वृद्धाच्चेति वक्तव्यम्। वृद्धानां समूहो वार्द्धकम्॥ (5361 एकदेशिवार्तिकम्॥ 2 ॥) - अञ्ञो वुञ्ञ्पूर्वविप्रतिषिद्धम् - (भाष्यम्) अञ्ञो वुञ्ञ्भवति पूर्वविप्रतिषेधेन। अञ्ञोऽवकाशः -कपोत -कापोतम्। वुञ्ञोऽवकाशः -ग्लुचकायनि -ग्लौचुकायनकम्। इहोभयं प्राप्नोति -औपगवकम्, कापटवकम्। वुञ्ञ्भवति पूर्वविप्रतिषेधेन॥ स तर्हि पूर्वविप्रतिषेधो वक्तव्यः। न वक्तव्यः। वक्ष्यत्येतत् -पूर्वोऽपि वुञ्ञ् परमञ्ञं बाधत इति॥ अथ वा -इष्टवाची परशब्दः, विप्रतिषेधे परं यदिष्टं तद्भवतीति॥ (5362 विप्रतिषेधबोधकवार्तिकम्॥ 3 ॥) - ठक्तु विप्रतिषेधात् - (भाष्यम्) ठक्तु भवति विप्रतिषेधेन। ठकोऽवकाशः -सक्तु -साक्तुकम्। अञ्ञः स एव। इहोभयं प्राप्नोति -आपूपिकम्, शाष्कुलिकम्, मौदकिकम्। ठग्भवति विप्रतिषेधेन॥

Kashika

गोत्रादिभ्यो वुञ् प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। अपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यतेऽपत्यमात्रम्, न तु पौत्रप्रभृत्येव। औपगवानां समूह औपगवकम्। कापटवकम्। उक्षन् — औक्षकम्। उष्ट्र — औष्ट्रकम्। उरभ्र — औरभ्रकम्। राजन् — राजकम्। राजन्य — राजन्यकम्। राजपुत्र — राजपुत्रकम्। वत्स — वात्सकम्। मनुष्य — मानुष्यकम्। अज — आजकम्। प्रकृत्याके राजन्यमनुष्ययुवानः (वा० ६.४.१६३) इति यलोपो न भवति आपत्यस्य च तद्धितेऽनाति (६.४.१५१) इति॥ वृद्धाच्चेति वक्तव्यम्॥ वृद्धानां समूहो वार्धकम्॥

Siddhanta Kaumudi

एभ्यः समूहे वुञ् स्यात् । लौकिकमिह गोत्रं तच्चापत्यमात्रम् ॥

Balamanorama

गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्स- मनुष्याजाद्वुञ् - गोत्रोक्षोष्ट्रो । एभ्य इति । गोत्र, उक्षन्, उष्ट्र, उरभ्र, राजन्, राजन्य, राजपुत्र, वत्स, मनुष्य, अज-एतेब्य इत्यर्थः लौकिकमिह गोत्रमिति । नतु पारिभाषिकमित्यर्थः । अत्र लौकिकं गोत्रं किमित्यत आह — तच्चापत्यमात्रमिति । प्रवराध्याये परिगणितं पुत्रपौत्रादि कृत्स्नापत्यमित्यर्थः ।अपत्याधिकारादन्यत्र लौकिकमेव गोत्रं गृह्रते, नतु पारिभाषिकं गोत्रमिष्यते॑ इतिस्त्रीपुंसाभ्या॑मित्यादिसूत्रबाष्ये सिद्धान्तितत्वादिति भावः ।

Padamanjari

अपत्याधिकारादन्यत्रेति । यद्येवम्, राजन्यमनुष्ययोरुपादानमनर्थकम्, गोत्र इत्येवसिद्धम् । न तावपत्यप्रत्ययान्तौ; जातेः प्रत्ययार्थत्वात् । उक्तं हि - राज्ञोऽपत्ये जातिग्रहणम्, मनोर्जातावञ्यतौ षुक्चेति । किंतर्ह्युच्यते’प्रकृत्या’ के राजन्यमनुष्ययुवानःऽ इति यलोपो न भवतीति, यावताऽनापत्ययकारत्वेनैव न भविष्यति ? सत्यम् ; अपत्यार्थत्वमभ्युपेत्यैतदुच्यते । यद्यपत्यार्थत्वमभ्युपेयते, राजन्यमनुष्ययोर्ग्रहणमनर्थकम् ? नानर्थकम्; ज्ञापनार्थत्वात्, एतज् ज्ञापयति - नैतयोरपत्यकृतं भवतीति, तेन यलोपो न भवति, सर्वथा’प्रकृत्या’ के राजन्यमनुष्ययुवानःऽ इति न वक्तव्यम् । औपगवकमिति । यथात्र परोऽप्यनुदातादेरञ् न भवति, तथा’खण्डिकादिभ्यश्च’ इत्यत्र वक्ष्यते ॥

Nyaas

अपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्रते इति। यद्येवम्, गोत्रग्रहणेनैतस्य सिद्धत्वाद्राजन्यमनुष्ययोरुपादानमनर्थकम्? नैतदस्ति; न हि तौ गोत्रप्रत्ययान्तौ, जातेः प्रत्ययार्थत्वात्। यद्येवम्, लोपस्य प्राप्तिरेव नास्ति, तत्र यदुक्तम् - प्रकृत्याके राजन्यमनुष्ययुवानः (वा।814) इति यलोपो न भवतीति, तदनर्थकं स्यात्? एतत् पुनरेकीयमतमाश्रित्योक्तम्। केचिदाचार्या राजन्यमनुष्ययोरपत्यप्रत्ययान्तत्वमिच्छन्ति, अतस्तन्मतमाश्रित्यैदुक्तमित्यदोषः, तन्मतेन तर्हि राजन्यमनुष्ययोग्र्रहणमनर्थकं स्यात्? ज्ञापनार्थत्वात्। तेनैतद्ज्ञाप्यते - राजन्यमनुष्ययोर्यकारसय् किञ्चिदपत्याश्रितं कार्यं न भवतीति। किं पुनस्तत्? आपत्यव्यपदेशम्। तेन राजन्यकम्, मानुष्यकमिति - अत्रापि **आपत्यस्य च तद्धितेऽनाति** (6.4.151) इति यलोपो न भवतीति। तथा सूत्रोपात्त एव राजन्यमनुष्ययोः प्रकृतिभावः `प्रकृत्याके राजन्यमनुष्ययुवानः (वा।814) इत्यनेनाख्यायत इति वेदितव्यम्।वृद्धाच्चेति वक्तव्यम् इति। वृद्धश्बदाद्वुञ् भवतीत्येदर्थमित्यर्थः। तत्रेदं व्याख्यानम् - इह पुनरुत्तरसूत्राच्चकारोऽनुवर्तते सिंहावलोकितन्यायेन, स चानुक्तसमुच्चयार्थः, तेन वृद्धशब्दाद्वुञ् भवतीति। योगश्चायं यथायोगमणञोरपवादः॥

Prakriyasarvasvam

अपत्याधिकारादन्यत्र गोत्रशब्दोऽपत्यमात्रार्थः । औपगवानां समूह औप- गवकम् । एवं, गार्ग्य अक—

Vartika

वृद्धाच्चेति वक्तव्यम् ।

Sutra Prayogas

  • राजन्यकम् (रघुवंशम्): गोत्रोक्ष- इत्यादिना वुञ्प्रत्ययः।

  • राजकम् (किरातार्जुनीयम्): गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजावुञ् इति वुञ्प्रत्ययः।

  • राजकम् (शिशुपालवधम्): गोत्रोक्ष इत्यादिना वुञ्।

  • राजन्यकानि (शिशुपालवधम्): गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजावुञ् इति वुञ्।

  • राजकाय (शिशुपालवधम्): गोत्रोक्षोष्ट्रोरभ्रराजन्यराजपुत्रपुत्रकमनुष्याजावुञ् इति वुञ्प्रत्ययः।

  • राजन्यक (भट्टिकाव्यम्): गोलोक्ष इति इत्यादिना वुन्।

  • राजक (भट्टिकाव्यम्): गोलोक्ष इति इत्यादिना वुञ्।

  • राजकाऽधिपतिस्ततः (भट्टिकाव्यम्): गोत्रोक्ष… इति राजशब्दात् वुञ्।