42038: भिक्षादिभ्योऽण्¶
Padacheda: भिक्षा-आदिभ्यः | S | 5 | 3 |
अण् | S | 1 | 1 |
Sutrartha¶
भिक्षादिगणस्य शब्दानां विषये ‘तस्य समूहः’ अस्मिन् अर्थे अण्-प्रत्ययः विधीयते ।
‘भिक्षादिगणः’ इति कश्चन गणः । अस्मिन् गणे ये शब्दाः पाठिताः सन्ति, तेषां विषये तस्य समूहः (4.2.37) अस्मिन् अर्थे सर्वान् अपवादान् बाधित्वा अण्-प्रत्ययः एव विधीयते । भिक्षादिगणः अयम् - भिक्षा, गर्भिणी, क्षेत्र, करीष, अङ्गार, चर्मिन्, धर्मिन्, सहस्र, युवति, पदाति, पद्धति, अथर्वन्, दक्षिणा, भूत । अस्मिन् गणे ये अचित्तवाचिनः शब्दाः सन्ति, तेषां विषये अचित्तहस्तिधेनोः ठक् (4.2.47) इत्यनेन ठक्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण अण्-प्रत्ययः विधीयते । अन्येभ्यः शब्देभ्यः अनुदात्तादेः अञ् (4.2.44) अनेन सूत्रेण अञ्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण अण्-प्रत्ययः विधीयते । 1. भिक्षाणां समूहः = भिक्षा + अण् → भैक्षम् । 2. गर्भिणीनां समूहः गार्भिणम् । 3. क्षेत्राणां समूहः क्षैत्रम् । 4. अङ्गाराणां समूहः आङ्गारम् । 5. चर्मिणाम् समूहः चार्मिणम् । अस्य प्रक्रिया इयम् - चर्मिन् + अण् → चार्मिन् + अ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → चार्मिण [ नस्तद्धिते (6.4.144) इत्यनेन टिलोपे प्राप्ते संयोगादिश्च (6.4.166) इति टिलोपनिषेधः] 6. धर्मिणां समूहः धार्मिणम् । 7. युवतीनां समूहः यौवनम् । प्रक्रिया इयम् - युवती + अण् → युवन् + अण् [<!भस्याढेः तद्धिते पुंवद्भावो वक्तव्यः!> अनेन वार्त्तिकेन पुंवद्भावः] → यौवन् + अ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → यौवन [अन् (6.4.167) इति टिलोपनिषेधः] 8. पदातीनां समूहः पादातम् । 9. पद्धतीनां समूहः पाद्धतम् । 10. अथर्वणां समूहः आथर्वम् । 11. दक्षिणानां समूहः दाक्षिणम् । 12. भूतानां समूहः भौतम् ।
Vasu English Summary¶
The affix अण् comes the sense is ‘a collection thereof’ after the words भिक्षा etc.
Vasu English Translation¶
The affix अण् comes the sense is ‘a collection thereof’ after the words भिक्षा etc. The repetition of the word अण् in this sutra, though its anuvritti was here, is for the sake of removing the operation of any obstructing rule.
Thus भिक्षाणां समूहः = भैक्षम् ‘what is collected in the shape of alms’. So also गर्भिणी + अण् = गर्भिण् + अण् (the masculine form of a Bha is substituted, when a Taddhita affix follows without an indicatory ढ, भस्याढे तद्धिते) = गर्भिणः (6.4.164), In the case of युवति, the word however is not changed to its masculine form. Thus युवतीनां समूहः = यौवतम् ‘a collection of young women’.
1 भिक्षा, 2 गर्भिणी, 3 क्षेत्र, 4 करीष, 5 अङ्गार, 6 चर्मन् (चर्मिन् according to some texts) 7 सहस्र, 8 युवति, 9 पदाति, 10 पद्धति, 11 अथर्वन, (also अर्वन् K.) 12 दक्षिणा, 13 भूत, 14 विषय, 15 श्रोत्र. also 16 धर्मिन्
Bhashya¶
भिक्षादिभ्योऽण् (1461) (अणोऽधिकरणम्) (युवतिशब्दपाठफलबोधकं भाष्यम्) किमर्थं भिक्षादिषु युवतिशब्दः पठ्यते,न तस्य समूहः (4.2.37) इत्येव सिद्धम्। न सिद्धयति. अनुदात्तादिलक्षणोऽञ्ञ्प्राप्तः, तद्वाधनार्थम्। अत उत्तरं पठति - (5359 युवतिपाठानर्थक्यबोधकं वार्तिकम्॥1॥) भिक्षादिषु युवतिग्रहणानर्थक्यं पुंवद्भावस्य सिद्धत्वात्॥ भिक्षादिषु युवतिग्रहणानर्थकम्। किं कारणम्? पुंवद्भावस्य सिद्धत्वात्। प्रत्ययविधौ पुंवद्भावोऽत्र भविष्यति। भस्याढे तद्धिते पुंवद्भवतीति। सिद्धश्च प्रत्ययविधौ । स च सिद्धः प्रत्ययविधौ ॥
Kashika¶
भिक्षेत्येवमादिभ्यः शब्देभ्योऽण् प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। अण्ग्रहणं बाधकबाधनार्थम्। भिक्षाणां समूहो भैक्षम्। गार्भिणम्। युवतिशब्दोऽत्र पठ्यते, तस्य ग्रहणसामर्थ्यात् पुंवद्भावो न भवति भस्याढे तद्धिते० (वा० ६.३.३५) इति। युवतीनां समूहो यौवतम्॥ भिक्षा। गर्भिणी। क्षेत्र। करीष। अङ्गार। चर्मिन्। धर्मिन्। सहस्र। युवति। पदाति। पद्धति। अथर्वन्। दक्षिणा। भूत॥
Siddhanta Kaumudi¶
भिक्षाणां समूहो भैक्षम् । गर्भिणीनां समूहो गार्भिणम् । इह भस्याढ इति पुंवद्भावे कृते ॥
Laghu Siddhanta Kaumudi¶
भिक्षाणां समूहो भैक्षम् । गर्भिणीनां समूहो गार्भिणम् । इह भस्याढे तद्धिते पुंवद्भावो वक्तव्यः (वार्त्तिकम्) । इति पुंवद्भावे कृते -
Balamanorama¶
भिक्षाऽऽदिभ्योऽण् - भिक्षादिभ्योऽण् । तस्य समूह इत्येव । भैक्षमिति । अत्रअचित्तहस्ती॑ति वक्ष्यमाणठगपवादोऽण् । गार्भिणमिति । गर्भशब्दान्मत्वर्थीये इन्प्रत्यये कृते प्रत्ययः परश्च आद्युदात्तश्चेति इकारस्य उदात्तत्वेअनुदात्तं पदमेकवर्ज॑मिति शिष्टस्यानुदात्तत्वे गर्भिन्शब्दः अनुदात्तादिः । ततो नान्तलक्षणङीपि तस्यअनुदात्तो सुप्पितौ॑ इत्यनुदात्तत्वे गर्भिणीशब्दोऽप्यनुदात्तादिरेव । ततः समूहेऽर्थेअनुदात्तादेर॑ञिति वक्ष्यमाणे अञि प्राप्ते भिक्षादित्वादणिति भावः । अणि प्रत्ययस्वरेणान्तोदात्तत्वम्, अञि तुञ्नित्यादिर्नित्यम् इत्याद्युदात्तत्वमिति स्वरे विशेषः । अणि टिलोपाऽभावोऽपि प्रयोजनमिति दर्शयति — इह भस्येति । गर्भिणीशब्दादणि सति ‘भस्याऽढे’ इति पुंवत्त्वेन ङीपो निवृत्तौ गर्भिन् अ इति स्थिते ‘नस्तद्धिते’ इति टिलोपे प्राप्ते सतीत्यर्थः ।
Tattvabodhini¶
भिक्षाऽऽदिभ्योऽण् - भिक्षादिभ्योऽण् । भैक्षमिति । अचित्तत्वाठ्ठक् प्राप्तः । गार्भिणमिति । अनुदात्तादित्वादञ् प्राप्तः । सति हि तस्मिन्नाद्युदात्तटिलोपौ स्याताम् । न चभस्याढे॑ इति पुंवाचकरूपा तिदेशान्न टिलोपः स्यादिति वाच्यं, हस्तिनीनां समूहो हास्तिकमित्यत्रापि टिलोपाऽनापत्तेः । तस्मात्स्त्रीप्रत्ययनिवृत्तिमात्रपरं तन्न तु रूपातिदेशकमिति बोध्यम् ।
Padamanjari¶
अण्ग्रहणं बाधकबाधनार्थमिति । भिक्षाशब्दोऽयम्’गुरोश्च हलः’ इत्यकारप्रत्ययान्तत्वादन्तोदातः, ततः ठनुदातादेःऽ इत्यञ् अणो बाधकः प्राप्नोति, तस्य बाधनार्थमण्ग्रहणम् । ननु च यद्यत्राञ्, स्यात्पुनर्वचनमनर्थकं स्यात् ? नानर्थकम्; परत्वादचि ततल्लक्षणष्ठक् प्राप्नोति, तद्वाधनार्थमत्र पुनर्वचनं स्यादित्यञ् स्यादेव, पुनरण्ग्रहणादणेव भवति । गार्भिणमिति ।’भस्या’ ढेअ तद्धितेऽ इति पुंवद्भावेन ङीपो निवृत्तिः, ततोऽणि ठिमण्यनपत्येऽ इति प्रकृतिभावात्’नस्तद्धिते’ इति टिलोपाभावः । तस्य ग्रहणसामर्थ्यात्पुंवद्भावो न भवतीति । यदि स्यात्,’सिद्धत्वात्प्रत्ययविधौ’ इति वचनादनुत्पन्न एव तद्धिते पुंवद्भावेन भवितव्यम् । युवशब्दश्चऽ कनिन्युवृषऽ इति कनिन्प्रत्ययान्तत्वादाद्यौदात इत्यौत्सगिक एवाण् सिद्ध इति तस्येह पाठोऽनर्थकः स्यात् । यौवतमिति । यथा तु वातिकं तथा पुंवद्भाव इष्यते । आह हि -‘भिक्षादिषु युवतिग्रहणानर्थक्यं पुंवद्भावस्य सिद्धत्वात् प्रत्ययविधौ’ इति ॥
Nyaas¶
अथाण्ग्रहणं किमर्थम्, न भिक्षादिभ्यो यथाविहितमेवोच्येत? इत्यत आह - अण्ग्रहणम् इत्यादि। भिक्षाशब्दोऽयम् गुरोश्च हलः (3.3.103) इत्यकारप्रत्ययान्तत्वादन्तोदात्तः। तत्र अनुदात्तादेरञ् (4.2.44) इत्यञ् अणो बाधकः प्राप्नोति, तस्य बाधकस्य बाधनार्थमण्ग्रहणम्। ननु च यद्यत्राण् स्यात् पुनर्वचनमनर्थकं स्यात्? नैतदस्ति; परत्वादचित्तलक्षणष्ठक् प्राप्नोति, अतस्तद्बाधनर्थं पुनर्वचनं स्यात्। अञ्प्रत्ययस्तु स्यादेव, अण्ग्रहणात् पुनरणेवेति न भवत्येष दोषः। गार्भिणम् इति। गर्भिणीनां समूहो भस्याऽढे तद्धिते (वा।731)। सिद्धत्वात् प्रत्ययविधौ (4.2.37) पुंवद्भावेन स्त्रीप्रत्ययनिवृत्तिः, ततोऽण्, तस्मिन् नस्तद्धिते (6.4.144) इति टिलोपः प्राप्तः, इनण्यनपत्ये (6.4.164) इति प्रकृतिभावान्न भवति। तस्यग्रहण इति। युवतिशब्दस्य यदि पुंवद्भावो न भवति, तदा तस्य प्रत्ययान्तत्वात् अनुदात्तादेरञ् (4.2.44) इत्यञि प्राप्ते तद्बाधनार्थमिहाण्ग्रहममर्थवद्भवति। यदि पुंवद्भावः स्यात् तदा तदनर्थकं स्यात्। तथा हि -सिद्धश्च प्रत्ययविधौ` (वा। 4.2.39) इति वचनादनुत्पन्न एव तद्धिते बुद्धिस्थे पुंवद्भावेन भवितव्यम्। युव शब्दस्य कनिन् यृवृषितक्षिराजिधन्विद्युप्रतिदिवः (द।उ।6।51) इति कनिन्प्रत्ययान्तस्य नित्स्वरेणाद्युदात्तत्वम्। तत्र यदि पुंवद्भावः स्यादुत्सर्गलक्षणेवाण् सिद्ध इतीह ग्रहणमनर्थकं स्यात्। तस्मान्ना भूदस्सयानर्थक्यमिति तस्यग्रहणसामर्थ्यादेव पुंवद्भावो न भवति, तेन यौवतमिति सिद्धं भवति॥
Prakriyasarvasvam¶
एभ्यो वक्ष्यमाणबाधकोऽण् स्यात् । भिक्षाक्षेत्रकरीषगर्भिणीदक्षिणाङ्गार- सहस्राथर्वन्चर्मन्युवतिपदातिपद्धतिभ्यः । भिक्षासमूहो भैक्षम् । क्षैत्रम् । कारीषम् । ‘भस्याढे तद्धिते’ इति पुंवत्त्वाद् गर्भिण्या ङीब्निवृत्तिः । गर्भिन् अ । ‘इनणी’ति (६-४-१६४) प्रकृतिभावः । गार्भिणम् । दक्षिणासमूहो दाक्षिणम् । आङ्गारम् । साहस्रम् । आथर्वणम् । चार्मणम् । युवतेरिह पुंवत्त्वं वेष्टम् । यौवतं यौवनम् । पादातं पाद्धतम् ।
Sutra Prayogas¶
सकारनानारकास (शिशुपालवधम्): भिक्षादिभ्योऽण् इति अरीणां समूहे अण् प्रत्ययः।