42028: छ च¶
Padacheda: छ | S | | | 1
च | S | 0 | 0 |
Sutrartha¶
‘सा अस्य देवता’ अस्मिन् अर्थे ‘अपोनप्तृ’ तथा ‘अपान्नप्तृ’ शब्दाभ्याम् ‘छ’-प्रत्ययः भवति ।
- ‘अपोनप्तात्’ तथा ‘अपान्नप्तात्’ एते द्वे देवतयोः नाम्नि ।सा अस्य देवता (4.2.24) अस्मिन् अर्थे अपोनप्त्रपान्नप्तृभ्यां घः (4.2.27) इत्यनेन एताभ्याम् घ-प्रत्यये प्राप्ते; वर्तमानसूत्रेण ताभ्यां छ-प्रत्ययः अपि विधीयते ।
तथा एतयोः ‘अपोनप्तृ’ तथा ‘अपान्नप्तृ’ इत्यपि परिवर्तनं अपि भवति ।
अपान्नपात् अस्य देवता = अपान्नप्तृ + छ → अपान्नप्तृ + ईय् [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इत्यनेन छकारस्य ईय्-आदेशः] → अपान्नप्त्रीय [इको यणचि (6.1.77) इति यणादेशः] अस्मिन् विषये वात्तिकद्वयं ज्ञातव्यम् - 1. <!छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसङ्ख्यानम्!> - पैङ्गाक्षीपुत्र, तार्णबिन्दव - एताभ्यां शब्दाभ्यामपि सा अस्य देवता (4.2.28) अस्मिन् अर्थे छ-प्रत्ययः भवति । पिङ्गाक्षीपुत्रः अस्य देवता सः = पैङ्गाक्षीपुत्रीयः । तृणबिन्दुः अस्य देवता सः = तार्णबिन्दवीयः । 2. <!शतरुद्रात् छः च घः च!> - ‘शतरुद्र’शब्दात् सा अस्य देवता (4.2.28) अस्मिन् अर्थे छ तथा घ - द्वौ अपि प्रत्ययौ भवतः । शतरुद्रः अस्य देवता सः = शतरुद्र + छ → शतरुद्रीय / शतरुद्र + घ → शतरुद्रिय । अत्र यद्यपि ‘शतरुद्र’ शब्दः द्विगुसमासेन निर्मितः अस्ति, तथाप्यत्र प्रत्ययविधानसामर्थ्यात् द्विगोः लुक् अनपत्ये (4.1.88) इत्यनेन प्रत्ययलुक् न भवति । अस्मिन् विषये कौमुदीकारः वदति - घच्छयोः विधानसामर्थ्यात् ‘द्विगोर्लुगनपत्ये’ इति न लुक् । ज्ञातव्यम् - अत्र छ च (4.2.28) एतत् सूत्रम् पृथक् किमर्थमुच्यते? ‘अपोनप्तृ-अपान्नप्तृभ्याम् घच्छौ’ इति किमर्थं न उक्तमस्ति? कौमुद्यामस्मिन् विषये उच्यते - ‘योगविभागो यथासंख्यनिवृत्त्यर्थः ‘ । इत्युक्ते, यदि आचार्यः अपोनप्तृ-अपान्नप्तृभ्याम् घच्छौ इति अवदिष्यत्, तर्हि यथासङ्ख्यत्वात् अपोनप्तृ-शब्दात् ‘घ’ तथा अपान्नप्तृ-शब्दाय् ‘छ’ प्रत्ययविधानमभविष्यत् । परन्तु अत्र द्वाभ्यामपि शब्दाभ्यामुभावपि प्रत्ययौ उक्तौ स्तः । अतः स्पष्टनिर्देशार्थमत्र योगविभागः कृतः अस्ति ।
Sutrartha (English)¶
The words ‘अपोनप्तात्’ and ‘अपान्नप्तात्’ get the छ-प्रत्यय in the meaning of सा अस्य देवता, and they also get converted to ‘अपोनप्तृ’ and ‘अपान्नप्तृ’ respectively.
Vasu English Summary¶
Also छ is added to the words 1. अपोनप्तृ and 2. अपन्नप्तृ in the sense of ‘that its deity’.
Vasu English Translation¶
Also छ is added to the words 1. अपोनप्तृ and 2. अपन्नप्तृ in the sense of ‘that its deity’. The affix छ also comes in the sense of “that its deity” after the word Aponaptri and Apannaptri. This debars अण् ॥ Thus अपोनपत्रीयं or अपान्नप्त्रीयम् ‘oblation sacred to Aponapat or Apannapat’. This is made a separate sutra, in order to prevent the application of rule (1.3.10). For if it was included in the last, the sutra would have run thus: “The affixes घ and छ come after Aponaptri and Apannaptri”, the meaning of which according to maxim I.3.10 would have been “the affix घ comes after Aponaptri, and छ after Apannaptri”. But this is not what the author intended. Hence two distinct sutras.
Vart:- The affix छ comes after the words पैंगाक्षीपुत्र &c. As, पैंगाक्षीपुत्रीयम्, तार्णबिन्दवीयम् ॥
Vart:- The word शतरुद्र takes घ and छ both : e. g. शतरुद्रीयम् and शतरुद्रियं ॥
Bhashya¶
छ च ( 1451) (छाधिकरणम्) (5345 सिद्धान्तवार्तिकम्॥ 1 ॥) - छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसंख्यानम् - (भाष्यम्) छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसंख्यानं कर्तव्यम्। पैङ्गाक्षीपुत्रीयम्, तार्णबिन्दवीयम्॥ (5346 सिद्धान्तवार्तिकम्॥ 2 ॥) - शतरुद्राद् घ च - (भाष्यम्) शतरुद्राद् घप्रत्ययो वक्तव्यः, छश्च वक्तव्यः। शतरुद्रियम्, शतरुद्रीयम्॥
Kashika¶
अपोनप्तृ अपांनप्तृ इत्येताभ्यां छकारः प्रत्ययो भवति सा अस्य देवता इति यस्मिन् विषये। अणोऽपवादः। अपोनप्त्रीयं हविः, अपांनप्त्रीयम्। योगविभागः सङ्ख्यातानुदेशपरिहारार्थः। छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसङ्ख्यानम्। पैङ्गाक्षीपुत्रीयम्। तार्णबिन्दवीयम्। शतरुद्राच्छश्च घश्च। शतरुद्रीयम्, शतरुद्रियम्।
Siddhanta Kaumudi¶
योगविभागो यथासंख्यनिवृत्त्यर्थः अपोनप्त्रीयम् । अपान्नप्त्रीयम् ।<!शतरुद्राद्धश्च !> (वार्तिकम्) ॥ चाच्छः । शतं रुद्रा देवता अस्य शतरुद्रियम् । शतरुद्रीयम् । घच्छयोर्विधानसामर्थ्यात्द्विगोर्लुगनपत्ये (SK1080) इति न लुक् ॥
Balamanorama¶
छ च - छ च । उक्तविषये छोऽपीत्यर्थः ।ननु अपोनप्त्रपांनप्तृभ्यां॑ घच्छौ इत्येवास्तु । तत्राह — योगविभाग इति । पैङ्गाक्षीपुत्रीयमिति । पैङ्गाक्षीपुत्रो देवता अस्येति विग्रहः । तार्णविन्दवीयमिति । तार्णविन्दुर्देवता अस्येति विग्रहः ।शतरुद्राद्धश्चेति । वार्तिकमिदम् । शतरुद्रियमिति । घस्य इयादेश । शतरुद्रीयमिति । छस्य ईयादेशः । उभयत्र ‘तद्धितार्थ’ इति द्विगुसमासः । ‘द्विगोर्लुगपत्ये’ इति लुकमाशङ्क्याह — घच्छयोरिति ।
Padamanjari¶
योगविभाग इत्यादि । पूर्वसूत्र एव च्छग्रहणे सति घच्छौ द्वौ प्रत्ययौ, प्रकृती अपि द्वे इति स्यात्सङ्ख्यातानुदेशः । शतरुद्रीयमिति । शतशब्दोऽनन्तवचनः, शतं रुद्रा देवताऽस्येति घच्छौ, तयोविधानसामर्थ्याद्’द्विगोर्लुगनपत्ये’ लुग्न भवति ॥
Nyaas¶
अथ किमर्थं योगविभागः क्रियते, न अपोनप्तृ - अपान्नप्तृभ्यां घच्छौ इत्येकयोग एव क्रियते? इत्याह - योगविभागः इत्यादि। एकयोगे हि द्वे प्रकृती, प्रत्ययावपि द्वावेव, समसंख्यत्वात् संख्यातानुदेशः स्यात्, अतस्तन्निवृत्तये योगविभागः क्रियते।छ प्रकरणे इत्यादि। पैङ्गाक्षीपुत्रादिभ्यश्छप्रकरणे छस्योपसंख्यानम् = प्रतिपादनं कर्तव्यम्। तत्रेदं प्रतिपादनम् - चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः , तेन पैङ्गाक्षीपुत्रादिभ्यश्छो भवतीति॥
Prakriyasarvasvam¶
ताभ्यां छ च स्यात् । अपोनप्त्रीयम् । अपान्नप्त्रीयम् । ‘पैङ्गाक्षपुत्रादिभ्यश्च वाच्यम्’ । पैङ्गाक्षपुत्रीयं तद्देवतम् ।<!शतरुद्राच्छश्च घश्च!> (वा० ४-२-२८) शतरुद्रीयं, शतरुद्रियम् ॥
Vartika¶
छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसंख्यानम् ।