42030: सोमाट्ट्यण्¶
Padacheda: सोमात् | S | 5 | 1 |
ट्यण् | S | 1 | 1 |
Sutrartha¶
‘सा अस्य देवता’ अस्मिन् अर्थे सोम-शब्दात् ट्यण्-प्रत्ययः भवति ।
सा अस्य देवता (4.2.24) इत्यस्मिन् अर्थे ‘सोम’ शब्दात् ट्यण् प्रत्ययः भवति । यथा - सोमः अस्य देवता सः सौम्यः मन्त्रः । सोमः अस्य देवता तत् सौम्यं हविः । ‘ट्यण्’ इत्यतस्य टित्वात् स्त्रीत्वं द्योतयितुम् टिड्ढाण… (4.1.15) इति ङीप्-प्रत्ययः विधीयते । यथा - सोमः अस्य देवता सा ऋक् = सौमी ऋक् । प्रक्रिया इयम् - सोम + ट्यण् + ङीप् [सोमाट्ट्यण् (4.2.30) इति ट्यण्, स्त्रीत्वे टिड्ढाण… (4.1.15) इति ङीप्] → सोम + य + ई [इत्संज्ञालोपः] → सौम + य + ई [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → सौम् + य + ई [यस्येति च (6.4.148) इति अकारलोपः] → सौम + य् + ई [यस्येति च (6.4.148) इति अकारलोपः] → सौम् + ई [हलस्तद्धितस्य (6.4.150) इति उपधा-यकारलोपः । अत्र यस्येति च (6.4.148) इत्यनेन निर्दिष्टमाभीयकार्यम् हलस्तद्धितस्य (6.4.150) इत्यस्य कृते असिद्धमस्ति, अतः हलस्तद्धितस्य (6.4.150) इत्यस्य कृते यकारः उपधायाम् एव वर्तते । तस्य अनेन सूत्रेण लोपः क्रियते] → सौमी
Sutrartha (English)¶
The word सोम gets the प्रत्यय ‘ट्यण्’ in the meaning of ‘सा अस्य देवता’.
Vasu English Summary¶
The affix ट्यण् comes after the name सोम in the sense of ‘this its deity’.
Vasu English Translation¶
The affix ट्यण् comes after the name सोम in the sense of ‘this its deity’. This debars अण् ॥ The ण् of ट्यण् causes Vriddhi. The ट causes the affixing of ङीप् in the feminine. Thus सौम्यं हविः, सौम्यं सूक्तम्, सौमी ऋक् ॥ सौम्य + ङीप् (4.1.15) = सौम् + ई (6.4.150) = सौमी ॥
Kashika¶
सोमशब्दाट् ट्यण् प्रत्ययो भवति सास्य देवतेत्यस्मिन् विषये। अणोऽपवादः। ण्कारो वृद्ध्यर्थः। टकारो ङीबर्थः। सोमो देवतास्य सौम्यं हविः। सौम्यं सूक्तम्। सा॒ैमी॑ (मै०सं० १.७.४) ऋक्॥
Siddhanta Kaumudi¶
सौम्यम् । टित्वान्ङीप् । सौमी ऋक् ॥
Laghu Siddhanta Kaumudi¶
सौम्यम्॥
Balamanorama¶
सोमाट्ट्यण् - सोमाट्टण् । सौम्यमिति । सोमो देवता अस्येति विग्रहः । टित्त्वस्य प्रयोजनमाह — टित्त्वान्ङीबिति । सौमीति । सोमो देवता अस्या ऋचेति विग्रहः ।ङीपिहलस्तद्धितस्ये॑ति यलोपः ।
Nyaas¶
सौमी इति। हलस्तद्धितस्य (6.4.150) इति यलोपः॥
Prakriyasarvasvam¶
सौम्यं हविः । टित्त्वान् ङीप् ॥