42025: कस्येत्

Padacheda: कस्य | S | 6 | 1 |

इत् | S | 1 | 1 |

Sutrartha

‘सा अस्य देवता’ अस्मिन् अर्थे ‘क’ शब्दस्य ‘इत्’ आदेशः भवति ।

सा अस्य देवता (4.2.24) अस्मिन् अर्थे ‘क’ (= प्रजापतिः) अस्मात् शब्दात् यदा औत्सर्गिकः अण्-प्रत्ययः विधीयते तदा अस्य शब्दस्य ‘इत्’ इति आदेशः भवति । अलोऽन्त्यस्य (1.1.52) इत्यनेन अयमन्त्यादेशः भवति ।] कः अस्य देवता = क + अण् → कि + अण् [कस्येत् (4.2.25) इति ककारस्य इत्-आदेशः] → कि + अ [इत्संज्ञालोपः] → कै + अ [यस्येति च (6.4.48) इत्यनेन अन्तिमवर्णलोपे प्राप्ते तं बाधित्वा तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → काय [एचोऽयवायावः (6.1.78) इति आय्-आदेशः] यथा - कः अस्य हवेः देवताः तत् कायम् हविः । ज्ञातव्यम् - 1. अस्मिन् सूत्रे ‘इत्’ इत्यत्र तकारः उच्चारणार्थः अस्ति । अत्र तपरकरणम् नास्तीति स्मर्तव्यम् । 2. ‘काय’ शब्दस्य सिद्धौ यस्येति च (6.4.48) इत्यस्य तथा तद्धितेष्वचामादेः (7.2.117) इत्यस्य - उभयोः अपि प्रसक्तिः अस्ति । अत्र आदिवृद्धिः परत्वात् अन्तिमवर्णलोपं बाधते, अतः केवलं आदिवृद्धिः एव विधीयते, अन्तिमवर्णलोपः न । 3. कौमुद्यामस्मिन् सूत्रे ‘श्राय’ अस्य शब्दस्यापि निर्देशः कृतः अस्ति । अस्य शब्दस्य प्रक्रिया इयम् - श्रीः अस्य देवता = श्री + अण् → श्रै + अ [यस्येति च (6.4.48) इत्यनेन अन्तिमवर्णलोपे प्राप्ते तं बाधित्वा तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → श्राय [एचोऽयवायावः (6.1.78) इति आय्-आदेशः]

Sutrartha (English)

In the meaning of ‘सा अस्य देवता’, the word ‘क’ gets the ‘इत्’ आदेश.

Vasu English Summary

The short इ is the substitute of the final अ of क when the affix is added.

Vasu English Translation

The short इ is the substitute of the final अ of क when the affix is added. Thus क + अण् = कि + अण् = कै + अ = कायं “oblation sacred to Ka”. As कायं हविः, कायमेककपालं निर्वपेत् ॥

Bhashya

कस्येत् (1448) (आदेशाधिकरणम्) (भाष्यम्) यस्येति लोपः कस्मान्न भवति? इकारोच्चारणसार्मथ्यात्। अथ यत्कायं हविः, कथं तस्य संप्रैषः कर्तव्यः? यदि तावत्किमः कादेशः, कस्मा अनुब्रूहीति भवितव्यम्। अथ न किमः, कायानुब्रूहीति भवितव्यम्। यद्यपि किमः, अथापि न किमः, उभयथा कस्माननुब्रूहीति भवितव्यम्। सर्वस्य हि सर्वनामसंज्ञा क्रियते, सर्वश्च प्रजापतिः, प्रजापतिश्च कः॥ अपर आह - यद्येव किमः, अथापि न किमः, उभयथा कायानुब्रूहीति भवितव्यम्। संज्ञोपसर्जनयोर्हि सर्वनामसंज्ञा प्रतिषिध्यते, संज्ञा चैषा तत्र भवतः॥

Kashika

कशब्दो देवतायां प्रजापतेर्वाचकः, ततः पूर्वेणैवाण्प्रत्ययः सिद्धः, इकारादेशार्थं वचनम्। कस्येकारादेशो भवति प्रत्ययसन्नियोगेन। कायं हविः। का॒य॑मे॑क॒कपालं निर्वपेत् (मै०सं० ३.१५.१०)॥

Siddhanta Kaumudi

कसब्दस्य इदादेशः स्याकत्प्रत्ययसन्नियोगेन । यस्य-(SK311) इति लोपतेपरत्वादादिवृद्धिः । को ब्राह्मादेवतास्य कायं हविः । श्रीर्देवतास्य श्रायम् ॥

Balamanorama

कस्येत् - कस्येत् । प्रत्ययसंनियोगेनेति ।साऽस्य देवते॑ति विहिते कशब्दादण्प्रत्यये परे तत्संन्नियोगेन प्रकृतेरिकारोऽन्तादेश इत्यर्थः । तताच कशब्दादणि प्रकृतेरिकारे अन्तादेशे वृद्धौ आयादेशे कायमिति सिद्धम् । तत्र कि-अ इति स्थितेयस्येति चे॑ति इकारलोपमाशङ्क्याह — यस्येति लोपादिति । कशब्दस्य विवरणं — ब्राहृएति । यद्यप्यत्र इत्त्वविधिबलादेव लोपो न भवतीति भाष्यम्, तथापि वस्तुस्थितिकथनमिदम् । तस्य प्रयोजनमाह — श्रायं हविरिति । अत्रेदमवधेयम् ।कस्ये॑दित्यत्र कशब्दस्य अकारान्तस्य षठएकवचनमित्येकः पक्षः । सर्वादिगणपठितस्य किंशब्दस्य षष्ठएकवचनमिति पक्षान्तरम् । तत्राद्यपक्षे हविःप्रचारेकायानुब्राऊही॑ति प्रैष इति निर्विवादं, सर्वादिगणबहुर्भूतत्वेन स्मैबावाऽसम्भवात् । द्वितीयपक्षे तु किंशब्दस्य प्रजापतिनामत्वेन असर्वनामत्वान्न स्मैभावः, अन्वर्थसंज्ञाबलेन एकार्थवृत्तेः संज्ञाशब्दस्य सर्वनामत्वात्कस्मा अनुब्राऊही॑त्येव संप्रैष इति भाष्ये प्रपञ्चितम् । एवञ्च विष्णुसहरुआनामसु-॒विआं विष्णुः॑ इति,एकौ नैकः सवः कः किं यत्तत्पदमनुत्तम॑मिति च पठितम् । विआआदिशब्देष्वप्ययं न्यायस्तुल्यः । तथाच विआस्म#ऐ नमः, ‘विआआय नमः’ इत्यादि प्रयोज्यमित्यास्तां प्रासङ्गिकम् ।

Padamanjari

किमो विभक्तौ कादेशं कृत्वा कस्येति निर्दिष्टमित्याशङ्कामपनयति - कशब्द इति । एवं च कृत्वा कायानुब्रूहीति सम्प्रैषः । कस्मै अनुब्रूहीति,’न कस्मै देवाय हविषा विधेम’ इति तु छान्दसः स्मैभावः, यदिन्द्राग्नी अवमस्यामित्यादिवत् । कायमिति । इत्वे कृते यस्येति लोपः प्राप्तः परत्वादादिवृद्ध्या बाध्यते, श्रीर्देअवतास्य श्रायमितिवत् ।’सोमाट्ट।ल्ण्’ इत्यत्र कग्रहणे च क्रियमाणे यद्यपि यस्येति लोपात्परत्वाद् वृद्धिर्भवति, कृतायामपि वृद्धौ यस्येति लोपः स्यादेव ॥

Nyaas

तकारो मुखसुखार्थः, न दीर्घनिवृत्त्यर्थः। भाव्यमानेमाणा सवर्णानामग्रहणात्। सत्यपि सवर्णग्रहण आन्तरतम्याद् ह्रस्वस्य ह्रस्व एव भविष्यति न दीर्घः। ` प्रजापतेर्वाचकः` इति। अनेनासर्वनामत्वमस्य दर्शयति। इकारस्य यस्येति च (6.4.148) इति लोपो न भवति, विधानसामर्थ्यात्। कायम् इति। वृद्ध्यायादेशौ॥

Prakriyasarvasvam

कशब्दादुक्तार्थेऽण् स्यात् । इच्चान्तादेशः । कि अ, वृद्धचायादेशौ । को देवतास्येति कायं हविः ॥