42040: केदाराद्यञ् च

Padacheda: केदारात् | S | 5 | 1 |

यञ् | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha

‘तस्य समूहः’ अस्मिन् अर्थे केदार-शब्दात् यञ् तथा वुञ् प्रत्ययौ भवतः ।

तस्य समूहः (4.2.37) अस्मिन् अर्थे ‘केदाराणाम् समूहः’ इति स्थिते वुञ् तथा यञ् प्रत्ययौ विधीयेते । यथा - 1. केदार + वुञ् → कैदारक । 2. केदार + यञ् → कैदार्य । अत्र एकं वार्त्तिकं पाठ्यते - <!गणिकाया ‘यञ्’ इति वक्तव्यम् !> । इत्युक्ते, गणिका-शब्दात् समूहार्थे यञ्-प्रत्ययः भवति । गणिकानां समूहः = गणिका + यञ् → गाणिक्यम् ।

Vasu English Summary

The affixes यञ् and वुञ् come after the word केदार in the sense of ‘collection thereof’.

Vasu English Translation

The affixes यञ् and वुञ् come after the word केदार in the sense of ‘collection thereof’. This debars ठक् of (4.2.47). Thus केदाराणाम् समूहः = कैदार्यम् or कैदारकम् ॥

Vart:- The affix यञ् comes after गणिका e.g. गाणिक्यम् ॥

Bhashya

केदाराद्यञ्च (1463) (5363 पूरकवार्तिकम्॥ 1 ॥) - गणिकायाश्च - (भाष्यम्) गणिकायाश्चेति वक्तव्यम्। गणिकानां समूहो गाणिक्यम्॥

Kashika

केदारशब्दाद् यञ् प्रत्ययो भवति, चकाराद् वुञ् च, तस्य समूह इत्येतस्मिन् विषये। अचित्तलक्षणस्य ठकोऽपवादः। केदाराणां समूहः कैदार्यम् कैदारकम्॥ गणिकायाश्च यञ् वक्तव्यः॥ गणिकानां समूहो गाणिक्यम्॥

Siddhanta Kaumudi

चाद्वुञ् । कैदार्यम् । कैदारकम् ॥<!गणिकाया यञिति वक्तव्यम् !> (वार्तिकम्) ॥ गाणिक्यम् ॥

Balamanorama

केदाराद्यञ् च - केदराद्यञ् च । कैदार्यम्-कैदारकमिति । केदाराणां समूह इति विग्रहः ।गणिकाया यञ् । यञ्ग्रहणाद्वुञो निवृत्तिः । गाणिक्यमिति । गणिकानां समूह इति विग्रहः ।

Nyaas

गणिकायाश्च यञ्वक्तव्यः (इति)। वक्तव्यो व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - इहाप्युत्तरसूत्राच्चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः, तेन गणिकाशब्दादपि यञ् भवतीति, वुञ् न भवतीति, अनभिधानात्॥

Prakriyasarvasvam

वुञ्च स्यात् । कैदार्यम् । कैदारकम् ।। (वा०) ‘गणिकायाश्च यञ् वाच्यः’ ।। गाणिक्यम् ।।

Vartika

गणिकाया ‘यञ्’ इति वक्तव्यम् ।