42027: अपोनप्त्रपान्नप्तृभ्यां घः¶
Padacheda: अपोनप्तृ-अपान्नप्तृभ्याम् | S | 5 | 2 |
घः | S | 1 | 1 |
Sutrartha¶
‘सा अस्य देवता’ अस्मिन् अर्थे ‘अपोनप्तृ’ तथा ‘अपान्नप्तृ’ शब्दाभ्याम् ‘घ’-प्रत्ययः भवति ।
‘अपोनप्तात्’ तथा ‘अपान्नप्तात्’ एते द्वे देवतयोः नाम्नि । सा अस्य देवता (4.2.24) अस्मिन् अर्थे एताभ्याम् घ-प्रत्ययः भवति, तथा एतयोः ‘अपोनप्तृ’ तथा ‘अपान्नप्तृ’ इत्यपि परिवर्तनं भवति । अपोनपात् अस्य देवता = अपोनप्तृ + घ → अपोनप्तृ + इय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इत्यनेन घकारस्य इय्-आदेशः] → अपोनप्त्रिय [इको यणचि (6.1.77) इति यणादेशः] अपान्नपात् अस्य देवता = अपान्नप्तृ + घ → अपान्नप्तृ +इय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इत्यनेन घकारस्य इय्-आदेशः] → अपान्नप्त्रिय [इको यणचि (6.1.77) इति यणादेशः]
Sutrartha (English)¶
The words ‘अपोनप्तात्’ and ‘अपान्नप्तात्’ get the घ प्रत्यय in the meaning of सा अस्य देवता, and they also get converted to ‘अपोनप्तृ’ and ‘अपान्नप्तृ’ respectively.
Vasu English Summary¶
The affix घ comes after the words 1. अपोनप्तृ and 2. अपन्नप्तृ in the sense of ‘that its deity’.
Vasu English Translation¶
The affix घ comes after the words 1. अपोनप्तृ and 2. अपन्नप्तृ in the sense of ‘that its deity’. This debars अण् ॥ Thus अपोनप्त्रियं हविः or अपांनप्त्रियम् ॥ The words अपोनपात् and अपांनपात् are the names of two deities; these words irregularly assume the form ending in नप्तृ when the affix is to be added.
Bhashya¶
अपोनप्त्रपांनप्तृभ्यां घः (1450) (घप्रत्ययाधिकरणम्) (प्रैषविचारकभाष्यम्) अथ यदपोनप्त्रियम्, अपांनप्त्रियं हविः, कथं तस्य संप्रैषः कर्तव्यः? अपोनपातेऽनुब्रूहि, अपांनपातेऽनुब्रूहि। अपोनप्त्रपांनप्तृभावः कस्मान्न भवति? प्रत्ययसन्नियोगेन ऋकारान्तत्वमुच्यते, तेनासति प्रत्यये न भवितव्यम्॥
Kashika¶
अपोनप्तृ अपान्नपतृ इत्येताभ्यां घः प्रत्ययो भवति सास्य देवतेत्यस्मिन् विषये। अणोऽपवादः। अपोनप्त्रियं हविः (का०श्रौ० २३.४.१४)। अपांनप्त्रियम्। अपोनपाद्, अपांनपादिति देवताया नामधेये एते। तयोस्तु प्रत्ययसन्नियोगेन रूपमिदं निपात्यते॥
Siddhanta Kaumudi¶
अपोनप्त्रियम् । अपान्नप्त्रियम् । अपोनपात् अपान्नपाच्च देवते । प्रत्ययसंनियोगेन तूक्तं रूपं निपात्यते । अत एवापोनपाते अपान्नपातेऽनुब्रूहीति प्रैषः ॥
Balamanorama¶
अपोनप्त्रपान्नप्तृभ्यां घः - अपोनप्त्रपांनपतृभ्यां घः । प्रत्ययसंनियोगेनेति । घप्रत्ययसंनियोगेन अपोनपाच्छब्दस्य अपोनप्तृभावः, अपांनपाच्छब्दस्य अपांनप्तृभावश्च निपात्यत इत्यर्थः । अत एवेति । घप्रत्ययसंनियोगेनैव उक्तादेशविधेरित्यर्थः । अत्र घप्रत्ययाऽभावान्नोक्तादेशाविति भावः ।
Tattvabodhini¶
अपोनप्त्रपान्नप्तृभ्यां घः - उक्तं रुपमिति ।नपात्इत्यस्यनृप्त॑इति रूपमित्यर्थः ।शतरुद्राद्धश्च । शतं रुद्रा इति । शतशब्दोऽनन्तवचनः । सौमिति ।हलस्तद्धितस्ये॑ति यलोपः ।
Padamanjari¶
अपोनपात् अपांनपादिति देवतानामधेये इति । पृषोदरादित्वादनयोः साधुत्वम् । तयोस्तु प्रत्ययसन्नियोगेनेति । एवं च अपोनपाते अनुब्रूहि, अपांनपातेऽनुब्रूहि, अपोनपातं यज, अपां नपातं यजेति सम्प्रैषः । वेदे तु अपोनप्त्रे स्वाहेति छान्दसः प्रयोगः ॥
Nyaas¶
अपोनपात्, अपान्नपादिति यद्येते देवतानामधेयेतत् कथमेतद्विलक्षणं प्रकृतिरूपं सूत्रे श्रूयते? इत्याह -तयोस्तु प्रत्ययसन्नियोगेन इत्यादि॥
Prakriyasarvasvam¶
अपोनप्त्रियम् । अपान्नप्त्रियं हविः । घघनोः स्वरे भेदः ॥