42022: आग्रहायण्यश्वत्थाट्ठक्

Padacheda: आग्रहायणी-अश्वत्थात् | S | 5 | 1 |

ठक् | S | 1 | 1 |

Sutrartha

आग्रहायणी-शब्दात् तथा अश्वत्थ-शब्दात् ‘सा अस्मिन् पौर्णमासी इति संज्ञायाम्’ अस्मिन् अर्थे ठक् प्रत्ययः भवति ।

सा अस्मिन् पौर्णमासी इति संज्ञायाम् (4.2.21) अस्मिन् अर्थे आग्रहायणी-शब्दात् अश्वत्थशब्दात् च ठक्-प्रत्ययः भवति । यथा - 1. आग्रहायणी पौर्णमासी अस्मिन् मासे / अर्धमासे / संवत्सरे सः = आग्रहायणी + ठक् → आग्रहायणी + इक [ठस्येकः (7.3.50) इत्यनेन ठकारस्य इक्-आदेशः] → आग्रहायणी + इक [किति च (7.3.118) इति आदिवृद्धिः] → आग्रहायण् + इक [यस्येति च (6.4.148) इति ईकारलोपः] → आग्रहायणिक । 2. अश्वत्थः पौर्णमासी अस्मिन् मासे / अर्धमासे / संवत्सरे सः = अश्वत्थ + ठक् → अश्वत्थ + इक [ठस्येकः (7.3.50) इत्यनेन ठकारस्य इक्-आदेशः] → आश्वत्थ + इक [किति च (7.3.118) इति आदिवृद्धिः] → अाश्वत्थ् + इक [यस्येति च (6.4.148) इति अकारलोपः] → आश्वत्थिक । ज्ञातव्यम् - 1. अस्मिन् सूत्रे ‘अश्वत्थात्’ इति निर्देशः कृतः अस्ति । अस्मात् निर्देशात् पौर्णमास्याः नाम ‘अश्वत्थ’ इति ‘पुंलिङ्गे ‘ अस्ति एतत् ज्ञायते । अतः संज्ञायाम् श्रवण-अश्वत्थाभ्याम् (4.2.5) अनेन सूत्रेण पौर्णमास्याः नाम्नः विषये अपि अण्-प्रत्ययस्य लुप् विधीयते, येन ‘अश्वत्थः पौर्णमासी’ अयं प्रयोगः सिद्ध्यति ।

Sutrartha (English)

The words आग्रहायण and अश्वत्थ get the प्रत्यय ठक् in the meaning of ‘सा अस्मिन् पौर्णमासी इति संज्ञायाम्’.

Vasu English Summary

The affix ठक् comes in the sense of Locative -7th case after the words आग्रहायणी and अश्वत्थ ending in the 1st - Nominative Case-affix in construction and being the name of a full-moon night.

Vasu English Translation

The affix ठक् comes in the sense of Locative -7th case after the words आग्रहायणी and अश्वत्थ ending in the 1st - Nominative Case-affix in construction and being the name of a full-moon night. The words सास्मिन्पौर्णमासीति of the last sutra govern this also. This debars अण् ॥ Thus आग्रहायणिको मासः ‘the month called Agrahayanika’ i.e. in which the moon is full in the asterism of Agrahayana. Similarly आश्वत्थिकः ॥

Kashika

सास्मिन् पौर्णमासीति सर्वमनुवर्तते। आग्रहायणीशब्दादश्वत्थशब्दात् च प्रथमा — समर्थात् पौर्णमास्युपाधिकाद् अस्मिन्निति सप्तम्यर्थे ठक् प्रत्ययो भवति। अणोऽपवादः। आग्रहायणिको मासः, अर्धमासः, संवत्सरः। एवमाश्वत्थिकः॥

Siddhanta Kaumudi

अग्रे हायनमस्या इत्याग्रहायणी । प्रज्ञादेराकृतिगणत्वादण् । पूर्वपदात्संज्ञायाम्-(SK857) इति णत्वम् । आग्रहायणी पौर्णमासी अस्मिन् आग्रहायणिको मासः । अश्वत्थेन युक्ता पौर्णमासी अश्वत्थः । निपातनात्पौर्णमास्यामपि लुप् । आश्वत्थिक ॥

Balamanorama

आग्रहायण्यश्वत्थाट्ठक् - आग्रहायण्यआत्थाट्ठक् । पूर्वसूत्रविषये आग्रहायणीशब्दादआत्थशब्दाच्च ठक् स्यादित्यर्थः अणोऽपवादः । हायनमिति । संवत्सर इत्यर्थः ।संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री॑त्यमर । यस्या ऊध्र्वं संवत्सरस्यारम्भः सा पोर्णमासी आग्रहायणीत्यर्थः । तर्हि आग्रहायणेति स्यादित्यत आह — प्रज्ञादेरिति ।प्रज्ञादिभ्यश्चे॑ति स्वार्थे अमिटिड्ढे॑ति ङीबित्यर्थः । अआत्थेनेति । अइआनीनक्षत्रेणेत्यर्थः । अआत्थ इति । नक्षत्राऽणो ‘लुबविषेशे ‘ इति लुबिति भावः । ननुविभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः॑ इति निर्देशेन पौर्णमास्यां ‘लुबविशेषे’ इत्यस्याऽप्रवृत्तेरुक्तत्वात्कथमिह लुबित्यत आह — निपातनादिति । तथाच पौणमास्यां लुब्नेति ज्ञापनमेतद्व्यतिरिक्तविषयमिति भावः ।

Padamanjari

अग्रे हायनमस्या इत्याग्रहायणी, प्रज्ञादेराकृतिगणत्वादण्,’पूर्वपदात्संज्ञायाम्’ इति णत्वम् । अश्वत्थेन युक्ता पौर्णमासी अश्वत्थ इति । निपातनात्पौर्णमास्यामपि लुप् ॥

Prakriyasarvasvam

आग्रहायणी पौर्णमास्यस्मिन्नस्तीत्याग्रहायणिको मासः । अश्विनीयुक्ता पौर्णमास्यश्वत्थः । तद्वान्मासो आश्वत्थिकः ॥