42029: महेन्द्राद्घाणौ च¶
Padacheda: महेन्द्रात् | S | 5 | 1 |
घ-अणौ | S | 1 | 2 |
च | S | 0 | 0 |
Sutrartha¶
महेन्द्र-शब्दात् ‘सा अस्य देवता’ अस्मिन् अर्थे घ-प्रत्ययः, छ-प्रत्ययः, अण्-प्रत्ययः च भवन्ति ।
सा अस्य देवता (4.2.24) अस्मिन् अर्थे महेन्द्र-शब्दात् घ-प्रत्ययः, छ-प्रत्ययः, तथा अण्-प्रत्ययः विधीयन्ते । 1) महेन्द्रः अस्य देवता = महेन्द्र + घ → महेन्द्र + इय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति इय्-आदेशः] → महेन्द्र् + इय [यस्येति च (6.4.148) इति अकारलोपः] → महेन्द्रिय 2) महेन्द्र अस्य देवता = महेन्द्र + छ → महेन्द्र + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति इय्-आदेशः] → महेन्द्र् + ईय [यस्येति च (6.4.148) इति अकारलोपः] → महेन्द्रीय 3) महेन्द्र अस्य देवता = महेन्द्र + अण् → माहेन्द्र + अ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → माहेन्द्र् + अ [यस्येति च (6.4.148) इति अकारलोपः] → माहेन्द्र । अनेन प्रकारेण ‘महेन्द्रिय’ , ‘महेन्द्रीय’, तथा ‘माहेन्द्र’ एते शब्दाः सिद्ध्यन्ति ।
Sutrartha (English)¶
The word ‘महेन्द्र’ gets the प्रत्ययाः घ, छ, and अण् in the meaning of ‘सा अस्य देवता’.
Vasu English Summary¶
The affixes घ and अण् and छ come after the name महेन्द्र in the sense of ‘this its deity’.
Vasu English Translation¶
The affixes घ and अण् and छ come after the name महेन्द्र in the sense of ‘this its deity’. As महेन्द्रीयम्, महेन्द्रियम् and माहेन्द्रम् ‘oblation sacred to Mahendra’.
Kashika¶
महेन्द्रशब्दाद् घाणौ प्रत्ययौ भवतः, चकाराच्छश्च, सास्य देवतेत्यस्मिन् विषये। महेन्द्रो देवतास्य महेन्द्रियं हविः। मा॑हे॒न्द्रम् (तै०सं० ६.५.५.४)। महेन्द्रीयम् (काठ० सं० १५.१)॥
Siddhanta Kaumudi¶
चाच्छः । महेन्द्रियं हविः । माहेन्द्रम् । महेन्द्रीयम् ॥
Balamanorama¶
महेन्द्राद्घाणौ च - महेन्द्राद्धाणौ च । महेन्द्रियमिति । महेन्द्रो देवता अस्येति विग्रहः घस्य इयादेशः माहेन्द्रमिति । अणि रूपम् । महेन्द्रीयमिति । छस्य ईयादेशः ।
Padamanjari¶
सौमीति । टित्वान्ङीप्,’हलस्तद्धितस्य’ इति यलोपः ॥
Nyaas¶
अथ महेन्द्रादण् च इत्येव कस्मान्नोक्तम्? चकाराद्घच्छौ भविष्यतः, एवमुच्यमाने द्वेष्यमपि विज्ञायते -अनन्तरं छ एव चकारेणात्र कृष्यत इति। तस्मात् तथा मा विज्ञायीति घग्रहणम्॥
Prakriyasarvasvam¶
छ च स्यात् । महेन्द्रियम् । माहेन्द्रम् । महेन्द्रीयम् ॥
Sutra Prayogas¶
**** (भट्टिकाव्यम्): महेन्द्राद्वाणौ च इति घः ।