42026: शुक्राद्घन्

Padacheda: शुक्रात् | S | 5 | 1 |

घन् | S | 1 | 1 |

Sutrartha

‘सा अस्य देवता’ अस्मिन् अर्थे ‘शुक्र’शब्दात् ‘घन्’ प्रत्ययः भवति ।

सा अस्य देवता (4.2.24) इत्यस्मिन् अर्थे ‘शुक्र’ शब्दात् घन् प्रत्ययः भवति । यथा - शुक्रः अस्य देवता = शुक्र + घन् → शुक्र + इय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इत्यनेन घकारस्य इय्-आदेशः] → शुक्रिय यथा - शुक्रः अस्य अध्यायस्य देवता सः शुक्रियः अध्यायः ।

Sutrartha (English)

The word शुक्र gets the घन् प्रत्यय in the meaning of ‘सा अस्य देवता’.

Vasu English Summary

The affix घन् comes in the sense of ‘that its deity’ after the word शुक्र।

Vasu English Translation

The affix घन् comes in the sense of ‘that its deity’ after the word शुक्र। This debars अण् (4.1.83). Thus शुक्र = घन् = शुक्रियम् हविः (7.1.2) ‘an oblation belonging to Sukra’. Thus शुक्रियोऽध्यायः ॥

Kashika

शुक्रशब्दात् सास्य देवतेत्यस्मिन्नर्थे घन् प्रत्ययो भवति। अणोऽपवादः। शुक्रियं हविः। शुक्रियोऽध्यायः॥

Siddhanta Kaumudi

शुक्रियम् ॥

Laghu Siddhanta Kaumudi

शुक्रियम्॥

Balamanorama

शुक्राद्घन् - शुक्राद्धन् । ‘साऽस्य देवता’ ‘इत्यर्थे’ इति शेषः । शुक्रियमिति । शुक्रो देवता अस्येति विग्रहः ।

Prakriyasarvasvam

घस्य इय् शुक्रदेवत्यं शुक्रियम् ॥