42035: महाराजप्रोष्ठपदाट्ठञ्

Padacheda: महाराज-प्रोष्ठपदात् | S | 5 | 1 |

ठञ् | S | 1 | 1 |

Sutrartha

‘सा अस्य देवता’ अस्मिन् अर्थे ‘महाराज’ शब्दात् तथा ‘प्रोष्ठपद’ शब्दात् ठञ् प्रत्ययः भवति ।

सा अस्य देवता (4.2.24) अस्मिन् अर्थे ‘महाराज’शब्दात् तथा ‘प्रोष्ठपद’शब्दात् ठञ्-प्रत्यय भवति । यथा - 1. महाराजः अस्य देवता सः = महाराज + ठञ् → महाराज + इक [ठस्येकः (7.3.50) इति इक्-आदेशः] → माहाराज + इक [किति च (7.2.118) इति आदिवृद्धिः] → माहाराज् + इक [यस्येति च (6.4.148) इति कारलोपः] → माहाराजिक 2. प्रोष्ठपदः (भाद्रपदमासस्य अन्यत् नाम) अस्य देवता सः = प्रोष्ठपद + ठञ् → प्रोष्ठपद + इक [ठस्येकः (7.3.50) इति इक्-आदेशः] → प्रौष्ठपद + इक [किति च (7.2.118) इति आदिवृद्धिः] → प्रौष्ठपद् + इक [यस्येति च (6.4.148) इति अकारलोपः] → प्रौष्ठपदिक

Sutrartha (English)

The words ‘महाराज’ and ‘प्रोष्ठपद’ get the प्रत्यय ठञ् in the meaning of ‘सा अस्य देवता’.

Vasu English Summary

The affix ठञ् comes in the sense of ‘this its deity’ after the words 1. महाराज and 2. प्रोष्ठपद।

Vasu English Translation

The affix ठञ् comes in the sense of ‘this its deity’ after the words 1. महाराज and 2. प्रोष्ठपद। Thus महाराजो देवताऽस्य = महाराजिकम्, प्रौष्ठपदिकम् ॥

Vart:- After the words नवयज्ञ &c the affix ठञ् comes in the sense of ‘that exists in it’. As नवयज्ञोऽस्मिन् वर्तते = नावयज्ञिकः कालः ॥ So also पाकयज्ञिकः &c.

Vart:- After the word पूर्णमास, the affix अण् comes in the same sense. As पूर्णमासोऽस्यां वर्तते = पौर्णमासी तिथिः ‘the day in which the full-moon occurs.’

Bhashya

महाराजप्रोष्ठपदाट्ठञ्ञ् (1458) (ठञ्ञोऽधिकरणम्) (5350 सिद्धान्तवार्तिकम्॥ 1 ॥) - ठञ्ञ्प्रकरणे तदस्मिन् वर्तत इति नवयज्ञादिभ्य उपसंख्यानम् - (भाष्यम्) ठञ्ञ्प्रकरणे तदस्मिन् वर्तत इति नवयज्ञादिभ्य उपसंख्यानं कर्तव्यम्। नवयज्ञो वर्ततेऽस्मिन् काले -नावयज्ञिकः, पाकयज्ञिकः॥ (5351 सिद्धान्तवार्तिकम्॥ 2 ॥) - पूर्णमासादण् - (भाष्यम्) पूर्णमासादण्वक्तव्यः। पूर्णमासो वर्ततेऽस्मिन् काले -पौर्णमासी तिथिः॥

Kashika

महाराजशब्दात् प्रोष्ठपदशब्दात् च ठञ् प्रत्ययो भवति सास्य देवतेत्यस्मिन् विषये। महाराजो देवतास्य माहाराजिकम्। प्रौष्ठपदिकम्॥ ठञ्प्रकरणे तदस्मिन् वर्तत इति नवयज्ञादिभ्य उपसंख्यानम्॥ नवयज्ञोऽस्मिन् वर्तते नावयज्ञिकः कालः। पाकयज्ञिकः॥ पूर्णमासादण्॥ पूर्णमासोऽस्यां वर्तते पा॒ैर्णमा॒सी॑ (मै०सं० १.६.९) तिथिः॥

Siddhanta Kaumudi

माहाराजिकम् । प्रौष्ठपदिकम् ॥

Balamanorama

महाराजप्रोष्ठपदाट्ठञ् - महाराजप्रोष्ठपदाट्ठञ् । माहाराजिकमिति । महाराजो वैश्रवणः, स देवता अस्येति विग्रहः । प्रौष्ठपदिकमिति । प्रोष्ठपदो देवता अस्येति विग्रहः ।

Padamanjari

महाराजो वैश्रवणः, प्रोष्ठपदशब्दात्पूर्वेण नक्षत्राणि प्राप्ते वचनम्, नवयज्ञ आग्रयणम् । पूर्णमासादणिति । अस्मिन्वर्तत इत्येव । पौर्णमासीति । पूर्णो मासोऽस्या तिथौ वर्तत इति विग्रहः, एषेव च व्युत्पत्तिः’सास्मिन्पौर्णमासी’ इत्यत्रापि दर्शिता ॥

Prakriyasarvasvam

महाराजः कुबेरः । तद्देवत्यं माहागजिकम् । प्रौष्ठपदिकं तन्नक्षत्रदेवत्यम् । ‘तदस्मिन् वर्तत इति नवयज्ञादिभ्यष्ठञ् वाच्यः’ (वा०) । नवयज्ञः आग्रयणं, तदस्मिन् वर्तत इति नावयज्ञिकः शरत्कालः । पाकयज्ञिकं गृहम् ॥

Vartika

तदस्मिन् वर्तत इति नवयज्ञादिभ्य उपसंख्यानम् ।