42020: क्षीराड्ढञ्

Padacheda: क्षीरात् | S | 5 | 1 |

ढञ् | S | 1 | 1 |

Sutrartha

‘संस्कृतं भक्षाः’ अस्मिन् अर्थे क्षीर-शब्दात् ढञ्-प्रत्ययः भवति ।

संस्कृतं भक्षाः (4.2.16) इत्यस्मिन् अर्थे क्षीरशब्दात् ढञ् प्रत्ययः भवति । क्षीरे संस्कृतम् क्षैरेयम् । क्षीरे संस्कृतम् = क्षीर + ढञ् → क्षीर + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ढकारस्य एय्-आदेशः] → क्षैर + एय [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → क्षैर् + एय [यस्येति च (6.4.148) इति अन्तिमवर्णलोपः] → क्षैरेय

Sutrartha (English)

The word क्षीर gets the प्रत्यय ढञ् in the meaning of ‘संस्कृतं भक्षाः’

Vasu English Summary

The affix ढञ् comes in the sense of ‘prepared food’ after the word दधि ending in the Locative -7th case.

Vasu English Translation

The affix ढञ् comes in the sense of ‘prepared food’ after the word दधि ending in the Locative -7th case. This debars अण् ॥ Thus क्षीरे संस्कृताः = क्षैरेयी यवागूः ‘milky gruel’.

Kashika

क्षीरशब्दात् सप्तमीसमर्थात् संस्कृतं भक्षा इत्येतस्मिन्नर्थे ढञ् प्रत्ययो भवति। अणोऽपवादः। क्षीरे संस्कृता क्षैरेयी यवागूः॥

Siddhanta Kaumudi

अत्र संस्कृतमित्येव संबध्यते नतु भक्षा इति । तेव यवाग्वामपि भवति । क्षैरेयी ॥

Padamanjari

अत्र संस्कृतमित्येव सम्बध्यते, न भक्षा इति; तेन यवाग्वामपि भवति । क्षेरैयीति ।’टिड्ढाणञ्’ इत्यादिना ङीप् ॥

Nyaas

क्षैरेयी इति। टिड्ढाणञ् (4.1.15) इति ङीप्॥

Prakriyasarvasvam

क्षीरे संस्कृतः क्षैरेयः पृथुकः । संस्कृतत्वमात्रमत्रेष्टं न भक्ष्यत्वमिति रामः । तेन क्षैरेयी श्राणेत्यपीष्टम् । क्षीरस्य श्राणातः पृथक्त्वविवक्षया तत्र संस्कृतत्वं नेयम् ॥