42031: वाय्वृतुपित्रुषसो यत्

Padacheda: वायु-ऋतु-पितृ-उषसः | S | 5 | 1 |

यत् | S | 1 | 1 |

Sutrartha

‘सा अस्य देवता’ अस्मिन् अर्थे ‘वायु’, ‘ऋतु’, ‘पितृ’ तथा ‘उषस्’ शब्दात् यत् प्रत्ययः भवति ।

सा अस्य देवता (4.2.24) इत्यस्मिन् अर्थे एतेभ्यः शब्देभ्यः अण्-प्रत्ययस्य अपवादरूपेण यत्-प्रत्ययः विधीयते । यथा - 1. वायुः अस्य देवता सः = वायु + यत् → वायो + यत् [ओर्गुणः (6.4.146) इति गुणादेशः] → वायव्य [वान्तो यि प्रत्यये (6.1.79) इति अवादेशः] 2. ऋतुः अस्य देवता सः = ऋतु + यत् → ऋतो + यत् [ओर्गुणः (6.4.146) इति गुणादेशः] → ऋतव्य [वान्तो यि प्रत्यये (6.1.79) इति अवादेशः] 3. पिता अस्य देवता सः = पितृ + यत् → पित् रीङ् + य [रीङ् ऋतः (7.4.27) इति ऋकारस्य रीङ्-आदेशः । ङित्वात् ङिच्च (1.1.53) इति अन्त्यादेशः] → पित् री + य [इत्संज्ञालोपः] → पित् र् + य [यस्येति च (6.4.148) इति ईकारलोपः] → पित्र्य 4. उषाः अस्य देवता सः = उषस् + यत् → उषस्य

Sutrartha (English)

The words ‘वायु’, ‘ऋतु’, ‘पितृ’ and ‘उषस्’ get the प्रत्यय यत् in the meaning of ‘सा अस्य देवता’.

Vasu English Summary

The affix यत् comes after the names 1. वायु 2. ऋतु 3. पितृ and 4. उषस् in the sense of ‘this its deity’.

Vasu English Translation

The affix यत् comes after the names 1. वायु 2. ऋतु 3. पितृ and 4. उषस् in the sense of ‘this its deity’. This debars अण् ॥ As, वायव्यम्, ऋतव्यम्, पित्र्यम् and उषस्यम् ॥ The form पित्र्यम् is thus evolved पितृ + यत् = पित् + रीङ् + यत् (7.4.27) = पित्र्यम् (6.4.148). The पित्र्य has udatta on the first syllable by (6.1.213).

Kashika

वाय्वादिभ्यः शब्देभ्यो यत् प्रत्ययो भवति सास्य देवतेत्यस्मिन् विषये। अणोऽपवादः। वायुर्देवतास्य वायव्यम्। ऋतव्यम्। पित्र्य॒म् (ऋ०८.२०.१३)। उषस्यम्॥

Siddhanta Kaumudi

वायव्यम् । ऋतव्यम् ॥

Laghu Siddhanta Kaumudi

वायव्यम्। ऋतव्यम्॥

Balamanorama

वाय्वृतुपित्रुषसो यत् - वाय्वृतुपित्रुषसो यत् । वायु, ऋतु, पितृ,उषस् एभ्यो यदित्यर्थः । वायव्यमिति । वायुर्देवता अस्येति विग्रहः । यति ओर्गुणः ।वान्तो यी॑त्यवादेशः । ऋतव्यमिति । ऋतुर्देवता अस्येति विग्रहः ।

Padamanjari

वायव्यमिति । ठोर्गुणःऽ,’वान्तो यि प्रत्यये’ पित्र्यमिति । रीण्ःóतःऽ इति रीङ्, यस्येति लोपः ॥

Nyaas

वायव्यम्। ऋतव्यम् इति। ओर्गुणः (6.4.146) ,**वान्तो यि प्रत्यये** (6.1.79) इत्यवादेशः। पित्र्यम् इति। रीङृतः (7.4.27) इति रीङ्, यस्येति (6.4.49) लोपः॥

Prakriyasarvasvam

ओर्गुणः । ‘वान्तो यी—’ (६-१-७९) त्यवादेशः । वायव्यम् । ऋतव्यम् ॥

Sutra Prayogas

  • पित्र्यम् (रघुवंशम्): वाय्वृतुपित्रुषसो यत् इति यत्प्रत्ययः।