42032: द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च¶
Padacheda: द्यावापृथिवी-शुनासीर-मरुत्वत्-अग्नीषोम-वास्तोष्पति-गृहमेधात् | S | 5 | 1 |
छ | S | | | 1
च | S | 0 | 0 |
Sutrartha¶
‘सा अस्य देवता’ अस्मिन् अर्थे द्यावापृथिवी, शुनासीर, मरुत्वत्, अग्नीषोम, वास्तोष्पति, गृहमेध - एतेभ्यः शब्देभ्यः यत्-प्रत्ययः छ-प्रत्ययः च विधीयते ।
सा अस्य देवता (4.2.24) अस्मिन् अर्थे द्यावापृथिवी, शुनासीर, मरुत्वत्, अग्नीषोम, वास्तोष्पति, गृहमेध - एतेभ्यः शब्देभ्यः यत्-प्रत्ययः छ-प्रत्ययः च विधीयते । यथा - 1. द्यौः च पृथिवी च = द्यावापृथिवी । द्यावापृथिव्यौ देवते अस्य सः = द्यावापृथिवी + यत् → द्यावापृथिव् + यत् [यस्येति च इति ईकारलोपः] → द्यावापृथिव्य (उत -) द्यावापृथिवी + छ → द्यावापृथिवी + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति एय्-आदेशः] → द्यावापृथिव् + ईय [यस्येति च इति ईकारलोपः] → द्यावापृथिवीय 2. शूनश्च सीरश्च शूनासीरः । (शूनः = वायुः, सीरः = आदित्यः) । शूनासीरौ देवते अस्य सः = शूनासीर + यत् → शूनासीर्य । (उत -) शूनासीर + छ → शूनासीरीय । 3. मरुत्वान् अस्य देवता सः = मरुत्वत् + यत् → मरुत्वत्य (उत -) मरुत्वत् + छ → मरुत्वतीय । 4. अग्निश्च सोमश्च अग्निषोम । अग्निषोमौ देवते अस्य सः = अग्निषोम्य, अग्निषोमीय । 5. वास्तोष्पतिः अस्य देवता सः = वास्तोष्पत्य / वास्तोष्पतीय । 6. गृहमेधः अस्य देवता सः = गृहमेध्य / गृहमेधीय । ज्ञातव्यम् - 1. ‘द्यावापृथिवी’ इत्यस्य निर्माणम् एतादृशं भवति - द्यौः च पृथिवी च → दिव् + सुँ + पृथिवी + सुँ [अलौकिकविग्रहः] → दिव् + पृथिवी [सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुँ-प्रत्यययोः लुक्] → द्यावा + पृथिवी [दिवो द्यावा (6.3.29) इति दिव्-इत्यस्य द्यावा-आदेशः] → द्यावापृथिवी । 2. ‘शूनासीर’ इत्यस्य निर्माणम् एतादृशं भवति - शूनः च सीरः च → शून + सुँ + सीर + सुँ [अलौकिकविग्रहः] → शून + सीर [सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुँ-प्रत्यययोः लुक्] → शून् आनङ् + सीर [देवताद्वंन्द्वे च (6.3.26) इति पूर्वपदस्य आनङ्-आदेशः । ङिच्च (1.1.53) इति अन्त्यादेशः] → शूनान् + सीर [इत्संज्ञालोपः] → शूनासीर [नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नकारलोपः] 3. ‘अग्नीषोम’ इत्यस्य निर्माणम् एतादृशं भवति - अग्निश्च सोमश्च → अग्नि + सुँ + सोम + सुँ [अलौकिकविग्रहः] → अग्नि + सोम [सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुँ-प्रत्यययोः लुक्] → अग्नी + सोम [ईदग्नेः सोमवरुणयोः (6.3.27) इति ईत्वम्] → अग्नी + षोम [अग्नेः स्तुत्स्तोमसोमाः (8.3.82) इति षत्वम्] → अग्नीषोम 4. ‘वास्तोष्पति’ शब्दस्य निपातनम् क्रियते । ‘वास्तु’ शब्दः वस्तुतः उकारान्त-नपुंसकलिङ्गे वर्तते, परन्तु अत्र निपातनात् तस्य पुंलिङ्गे परिवर्तनं क्रियते । अग्रे ‘वास्तोः पतिः’ इति स्थिते सुपो धातुप्रातिपदिकयोः (2.4.71) इति ङस्-प्रत्ययस्य लुक्-प्राप्ते निपातनात् तादृशः लुक् न भवति । अग्रे विसर्गस्य षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु (8.3.53) इत्यनेन सकारादेशः, तस्य च अग्रे निपातनात् षत्वं कृत्वा ‘वास्तोष्पति’ इति प्रातिपदिकं सिद्ध्यति । 5. ‘वास्तोष्पति’ शब्दस्य विषये दित्यदित्या… (4.1.85) अनेन ण्य-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण सा अस्य देवता (4.2.24) अस्मिन् अर्थे यत्-प्रत्ययः तथा छ-प्रत्ययः भवति । अस्मिन् सूत्रे निर्दिष्टानां अन्येषां शब्दानां विषये तु औत्सर्गिकस्य अण्-प्रत्ययस्य अपवादरूपेण एतौ प्रत्ययौ उक्तौ स्तः ।
Sutrartha (English)¶
The words द्यावापृथिवी, शुनासीर, मरुत्वत्, अग्नीषोम, वास्तोष्पति and गृहमेध get the यत् and the छ प्रत्यय in the meaning of ‘सा अस्य देवता’.
Vasu English Summary¶
The affix छ also comes in the sense of ‘this its deity’ after the names 1. द्यावा 2. पृथिवी 3. शुनासीर 4. मरुत्वद् 5. अग्निषोम 6. वास्तोष्पति 7. गृहमेधा।
Vasu English Translation¶
The affix छ also comes in the sense of ‘this its deity’ after the names 1. द्यावा 2. पृथिवी 3. शुनासीर 4. मरुत्वद् 5. अग्निषोम 6. वास्तोष्पति 7. गृहमेधा। This debars अण् &c. Thus द्यावापृथिवीयम् or द्यावापृथिव्यम् ‘belonging to the Gods Heaven and Earth’. शुनासीरीयम् or शुनासीर्यम् ‘belonging to Suna (Wind) and Sira (Sun)’. मरुत्त्वतीयम् or मरुत्त्वत्यम् ॥ अग्निषोमीयम् or अग्निषोम्यम् ॥ वास्तोष्पतीयम् or वास्तोष्पत्यम् ॥ गृहमेधीयम् or गृहमेव्यम् ॥
Kashika¶
द्यावापृथिव्यादिभ्यश्छः प्रत्ययो भवति सास्य देवतेत्यस्मिन् विषये चकाराद् यत् च। अणो ण्यस्य चापवादः। द्यौश्च पृथिवी च द्यावापृथिव्यौ देवते अस्य द्यावापृथि॒वी॑य॒म् (मै०सं० १.८.१०),द्यावापृथि॒व्य॑म् (तै०सं०१.८.२.१)। शुनश्च सीरश्च तौ देवते अस्येति शुनासी॒रीय॑म् (मा०सं०२४.१९), शु॒नासी॒३र्य॒म् (मै०सं० ४.३.३)। शुनो वायुः। सीर आदित्यः। मरुत्वान् देवतास्य मरुत्व॒तीय॑म् (तै०सं० ४.४.२.२)। मरुत्वत्यम्। अग्नीषो॒मीय॒म् (तै०सं० १.८.१.१)। अग्नीषोम्यम्। वास्तोष्प॒तीय॑म् (तै०सं० ३.४.१०.३)। वा॑स्तो॒ष्पत्य॒म् (मै० सं० १.५.१३)। गृ॑हमे॒धीय॑म् (ऋ० ७.५६.१४)। गृहमेध्यम् (काट०सं०३६.९)॥
Siddhanta Kaumudi¶
चाद्यत् । द्यावापृथिवीयम् । द्यावापृथिव्यम् । शुनासीरीयम् । शूनासीर्यम् ॥
Balamanorama¶
द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पति- गृहमेधाच्छ च - द्यावापृथिवीयं द्यावापृथिव्यमिति । द्यावापृथिवी देवता अस्येति विग्रहः । छस्य ईयादेशः । उभयत्रयस्येति चे॑ति लोपः । शुनासीरीयमिति । शुनो वायुः, सीरः आदित्यः । शुनश्च सीरश्च शुनासीरौ ।देवताद्वन्द्वे चे॑त्यानङ् । शुनासीरावस्य स्त इति शुनासीरः ।वाय्यादित्यवानिन्द्रो विवक्षितः॑ इति वेदभाष्ये भट्टभास्करः । शुनासीरो देवता अस्येति विग्रहः । मरुत्वान् देवता अस्य मरुत्वतीयं मरुत्वत्यम् । अग्नीषोमौ देवता अस्य अग्नीषोमीयमग्निषोम्यम् ।वास्तुनः पतिः वास्तोष्पतिः-रुद्रः । निपातनादलुक् षत्वं च ।रुद्रः खलु वै वास्तोष्पतिः॑ इति ब्राआहृणम् । अमरस्तु इन्द्रपर्यायेवास्तोष्पतिः सुरपति॑रित्याह वास्तोऽपतिर्देवता अस्य वास्तोष्पतीयं, वास्तोष्पत्यम् । गृहमेधो देवता अस्यगृहमेधीयम् । गृहमेध्यम् ।
Tattvabodhini¶
द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पति- गृहमेधाच्छ च - द्यावापृ । अण्ण्यञोरपवादः । शुनासीरीयमिति । शुनश्च सूरश्चेति द्वन्देव॑देवताद्वन्द्वि चे॑त्यानङ् । शुनो — वायुः, सीरः — आदित्य इति वृत्तिकृत् । हरदत्तस्तु सुनासीरशब्द इन्द्रस्य गुणवाचीत्यन्ये मन्यन्त इत्याह । तथा च मन्त्रः — ॒इन्द्रं वयं सुनासीरमस्मिन्यज्ञे हवामहे॑इति । मरुतोऽस्य सन्तीति मरुत्वानिन्द्रः, मरुत्वतीयं । मरुत्वत्यम् । अग्निषोमीयम् ।ईदग्नेः सोमवरुणयोः॑ । वास्तुनः पतिः वास्तोष्पतिः । इहैव सूत्रे निपातनात्साधुः ।वेश्मभूर्वास्तुरस्त्रियाम् । वास्तोष्पतीयं वास्तोष्पत्यम् । गृहमेधीयं । गृहमेध्यम् । गृहमेधशब्दोऽकारान्तः । तथा च आआलायनः -॒मरुभ्द्यो गृहमेधेभ्यः॑इति ।
Padamanjari¶
अणो ण्यस्य चापवाद इति । वास्तोष्पतिशब्दात्पत्युतरपदस्य ण्यस्यापवादः, शेषेभ्योऽणः । द्यावापृथिव्याविति ।’दिवो द्यावा’ ,’दिवसश्च पृथिव्याम्’ इति द्यावादेशः । शुनासीराविति ।’देवता द्वन्द्वे च’ इत्यानङदेशः । शुनो वायुः, सीर आदित्य इति । अन्ये तु एकमेव शुनसीरमिन्द्रस्य, गुणममन्यन्त, यथाहश्वलायनः - ठिन्द्रो वा शुनासीरःऽ इति । मन्त्रलिङ्गञ्च भवति - इन्द्रं वयं शुनासीरमस्मिन्यज्ञे हवामहेऽ इति । मरुतोऽस्य सन्ति मरुत्वानिन्द्रः । अग्नीषोमीयमिति । ठीदग्नेः सोमवरुणयोःऽ वास्तोः पतिर्वास्तोष्पतिः, अस्मादेव निर्देशात्साधुः । गृहमेधशब्दमकारान्तं बह्वृचा मन्यन्ते ।’मरुद्भ्यो गृहमेधेभ्य उतरा’ इत्याश्वलायनः ।’गृहमेधास आगता’ इति च मन्त्रलिङ्गम् ।’मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायमोदनम्’ इति तु तैतिरीयकम् । तत्र देकारान्तो नकारान्तो वेति विप्रतिपन्नाः ॥
Nyaas¶
अणो ण्यस्य चापवादः इति। वास्तोष्पतिशब्दात् दित्यदित्यादिभ्य (4.1.85) इत्यादिना प्राप्तस्य ण्य्स्यापवादः। शेषेभ्यस्त्वौत्सर्गिकस्याणः। वास्तुनः पतिर्वास्तोष्पत्तिः। वास्तुशब्दस्य नपुंसकस्य पुंल्लिङ्गता, षष्ठर्थेऽलुक् च निपातनात्। षष्ठ्याः पतिपुत्रपृष्ठ (8.3.53) इत्यादिना षत्वम्। द्यावापृथिव्यौ इति। दिवो द्यावा (6.3.29) इति द्यावादेशः। शुनासीरीयम् इति। देवताद्वन्द्वे च (6.3.26) इत्यानङ्। अग्नीषोमीयम् इति। ईदग्नेः सोमवरुणयोः (6.3.27) इतीत्त्वम्; अग्नेः स्तुत्स्तोमसोमाः (8.3.82) इति षत्वम्॥
Prakriyasarvasvam¶
एभ्यश्छ च यच्च स्यात् । द्यावापृथिवीयम् द्यावापृथिव्यम् । शुनासीरौ वायुसूर्यौ, तद्देवत्यं शुनासीरीयं शुनासीर्यम् । मरुत्वतीयम् मरुत्वत्यमित्यादि ॥ आग्नेयम् । अग्नायीदेवत्यमप्याग्नेयम् । ‘भस्याढ’ (वा० ६-३-३) इत्यनेन स्त्रीभ्यो ढक्येव पुंवत्त्वनिषेधादिह पुंवत्त्वम् ॥