42023: विभाषा फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः

Padacheda: विभाषा | S | 1 | 1 |

फाल्गुनी-श्रवणा-कार्त्तिकी-चैत्रीभ्यः | S | 5 | 3 |

Sutrartha

‘सा अस्मिन् पौर्णमासी इति संज्ञायाम्’ अस्मिन् अर्थे फाल्गुनी-श्रवणा-कार्त्तिकी-चैत्रीभ्यः ठक् तथा अण् प्रत्ययौ भवतः ।

सा अस्मिन् पौर्णमासी इति संज्ञायाम् (4.2.21) अस्मिन् अर्थे ‘फाल्गुनी’, ‘श्रवणा’, ‘कार्त्तिकी’ तथा ‘चैत्री’ - एतेभ्यः शब्देभ्यः विकल्पेन ठक् प्रत्ययः भवति, पक्षे अण् प्रत्ययः अपि विधीयते । यथा - 1. फाल्गुनी पौर्णमासी अस्मिन् मासे / अर्धमासे / संवत्सरे सः = फाल्गुनी + ठक् → फाल्गुनी + इक [ठस्येकः (7.3.50) इति ठकारस्य इक्-आदेशः] → फाल्गुनी + इक [किति च (7.2.118) इति आदिवृद्धिः] → फाल्गुन् + इक [यस्येति च (6.4.148) इति अन्तिमवर्णलोपः] → फाल्गुनिक पक्षे फाल्गुनी + अण् → फाल्गुन । तथैव - 2. श्रवणा पौर्णमासी अस्मिन् मासे / अर्धमासे / संवत्सरे सः = श्रावणिकः / श्रावणः । 3. कार्त्तिकी पौर्णमासी अस्मिन् मासे / अर्धमासे / संवत्सरे सः = कार्त्तिकिकः / कार्त्तिकः । 4. चैत्री पौर्णमासी अस्मिन् मासे / अर्धमासे / संवत्सरे सः = चैत्रिकः / चैत्रः ।

Sutrartha (English)

The words फाल्गुनी, श्रवणा, कार्त्तिकी and चैत्री optionally get the प्रत्यय ठक् in the meaning of ‘सा अस्मिन् पौर्णमासी इति संज्ञायाम्’.

Vasu English Summary

The affix ढक् optionally comes after the words 1. फाल्गुनी 2. कार्त्तिकी and 3. चैत्री being the names of full-moon nights, the whole word so formed being a Name denoting a division of time (a month, a fortnight or a year) in which the moon is full.

Vasu English Translation

The affix ढक् optionally comes after the words 1. फाल्गुनी 2. कार्त्तिकी and 3. चैत्री being the names of full-moon nights, the whole word so formed being a Name denoting a division of time (a month, a fortnight or a year) in which the moon is full. Thus फाल्गुनः or फाल्गुनिकः, श्रावणः or श्रावणिक, कार्तिकः or कार्तिकिकः, चैत्रः or चैत्रिकः ॥ This optionally ordains ठक् instead of अण् ॥

Kashika

फाल्गुन्यादयः पौर्णमासीशब्दाः, तेभ्यो विभाषा ठक् प्रत्ययो भवति, सास्मिन् पौर्णमासीति संज्ञायामित्येतस्मिन् विषये। नित्यमणि प्राप्ते पक्षे ठग् विधीयते। फाल्गुनो मासः, फाल्गुनिकः। श्रावणः, श्रावणिकः। कार्तिकः, कार्तिकिकः। चैत्रः, चैत्रिकः॥

Siddhanta Kaumudi

एभ्यष्ठग्वा । पक्षेऽण् । फाल्गुनिकः । फाल्गुनो मासः । श्रावणिकः । श्रावणः । कार्तिकिकः । कार्तिकः । चैत्रिकः । चैत्रः ॥

Balamanorama

विभाषा फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः - विभाषा फाल्गुनी । एभ्यष्ठग्वेति । ‘सास्मिन्’ इत्युक्तविषये॑ इति शेषः । फाल्गुनिकः — फाल्गुनो वा मास इति । फाल्गुनी पौर्णमास्यस्मिन्निति विग्रहः एवं श्रावणिक इत्यादि । इति युक्ताद्यर्थकाः ।

Prakriyasarvasvam

फाल्गुनी पौर्णमास्यस्मिन्नस्तीति फाल्गुनिकः फाल्गुनो वा मासः । इत्यादि ॥