42033: अग्नेर्ढक्

Padacheda: अग्नेः | S | 5 | 1 |

ढक् | S | 1 | 1 |

Sutrartha

‘सा अस्य देवता’ अस्मिन् अर्थे ‘अग्नि’शब्दात् ढक्-प्रत्ययः विधीयते ।

‘अग्नि’ शब्दात् सा अस्य देवता (4.2.24) अस्मिन् अर्थे ढक्-प्रत्ययः भवति । अग्निः अस्य देवता सः आग्नेयः । प्रक्रिया इयम् - अग्नि + ढक् → अग्नि + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ढकारस्य एय्-आदेशः] → अाग्नि + एय [किति च (7.2.118) इति आदिवृद्धिः] → आग्न् + एय [यस्येति च (6.4.148) इति इकारलोपः] → आग्नेय वस्तुतः अस्य सूत्रस्य विषये वार्त्तिककारः वदति - <!प्राग्दीव्यतीयेषु तद्धितार्थेषु अग्निकलिभ्याम् सर्वत्र ढक् वक्तव्यः!> । इत्युक्ते, अग्नि-शब्दात् कलि-शब्दात् च सर्वेषु प्राग्दीव्यतीय-अर्थेषु ढक्-प्रत्ययः एव भवति, न अन्यः । यथा - अग्नेः अपत्यमाग्नेयः । कलेः अपत्यम् कालेयः ।

Sutrartha (English)

The word अग्नि gets the प्रत्यय ढक् in the meaning of ‘सा अस्य देवता’.

Vasu English Summary

The affix ढक् comes in the sense of ‘this its deity’ after the name अग्नि।

Vasu English Translation

The affix ढक् comes in the sense of ‘this its deity’ after the name अग्नि। Thus अग्निर्देवताऽस्य = आग्नेयोऽष्टकपालः ॥

Vart:- The affix ‘dhak’ always comes after the words Agni and Kali, in the various senses of the affixes called Pragdivyatiya. See (4.2.8).

Kashika

अग्निशब्दाद् ढक् प्रत्ययो भवति सास्य देवतेत्यस्मिन् विषये। अणोऽपवादः। अग्निर्देवतास्य आग्नेयोऽष्टाकपालः (तै० सं० १.८.२.१)। प्राग्दीव्यतीयेषु तद्धितार्थेषु सर्वत्राग्निकलिभ्यां ढग् वक्तव्यः (वा० ४.२.८)॥

Siddhanta Kaumudi

आग्नेयम् ॥

Balamanorama

अग्नेर्ढक् - अग्नेर्ढक् । आग्नेयमिति । प्राग्दीव्यतीयेष्वर्थेष्वयम्,सर्वत्राग्निकलिभ्या॑मिति वचनात् ।

Padamanjari

कलेर्ढगित्यत्रोक्तमेवार्थं स्मरयति - प्राग्दीव्यतीयेष्विति ॥