Sutras 161 - 178¶
- 41161: मनोर्जातावञ्यतौ षुक् च
- 41162: अपत्यं पौत्रप्रभृति गोत्रम्
- 41163: जीवति तु वंश्ये युवा
- 41164: भ्रातरि च ज्यायसि
- 41165: वान्यस्मिन् सपिण्डे स्थविरतरे जीवति
- 41166: वृद्धस्य च पूजायाम्
- 41167: यूनश्च कुत्सायाम्
- 41168: जनपदशब्दात् क्षत्रियादञ्
- 41169: साल्वेयगान्धारिभ्यां च
- 41170: द्व्यञ्मगधकलिङ्गसूरमसादण्
- 41171: वृद्धेत्कोसलाजादाञ्ञ्यङ्
- 41172: कुरुनादिभ्यो ण्यः
- 41173: साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्
- 41174: ते तद्राजाः
- 41175: कम्बोजाल्लुक्
- 41176: स्त्रियामवन्तिकुन्तिकुरुभ्यश्च
- 41177: अतश्च
- 41178: न प्राच्यभर्गादियौधेयादिभ्यः