41166: वृद्धस्य च पूजायाम्¶
Padacheda: वृद्धस्य | S | 6 | 1 |
च | S | 0 | 0 |
पूजायाम् | S | 7 | 1 |
Sutrartha¶
यः गोत्रसंज्ञकः अस्ति, तस्य आदरं कर्तुम् विकल्पेन युवासंज्ञा क्रियते ।
अस्मिन् सूत्रे प्रयुक्तः ‘वृद्ध’शब्दः वृद्धिर्यस्याचामादिस्तद्वृद्धम् (1.1.73) इत्यनेन दत्ता व्याकरणविशिष्टा संज्ञा न, अपितु ‘गोत्र’ इत्यस्य पर्यायवाचिशब्दः अस्ति । यः गोत्रसंज्ञक अस्ति, तस्य ‘पूजायाम्’ (इत्युक्ते, आदरवचने) विकल्पेन युवासंज्ञा भवति । यथा - अर्जुनस्य प्रपौत्रः जनमेजयः वस्तुतः अर्जुनस्य गोत्रापत्यम् । परन्तु आदररूपेण ‘तत्रभवान् अर्जुनस्य युवापत्यम् जनमेजयः’ इत्यपि वक्तुं शक्यते । अस्य सूत्रस्य किम् प्रयोजनम्? युवापत्यं दर्शयितुम् गोत्रापत्यं च दर्शयितुम् केषुचन स्थलेषु भिन्नौ प्रत्ययौ भवतः । यथा, ‘गर्गस्य गोत्रापत्यम्’ अस्मिन् अर्थे गर्ग-शब्दात् गर्गादिभ्यः यञ् (4.1.105) इत्यनेन यञ्-प्रत्ययं कृत्वा ‘गार्ग्य’ इति प्रातिपदिकं जायते । परन्तु युवापत्यनिर्देशे तु यञिञोश्च (4.1.101) इत्यनेन गर्गशब्दात् फक्-प्रत्ययं कृत्वा ‘गार्ग्यायन’ इति रूपं जायते । अस्यैव उदाहरणम् काशिकाकारः ददाति - ‘तत्र भवान् गार्ग्यायणः गार्ग्यः वा’ । ‘तत्रभवान्’ अयं शब्दः आदरं दर्शयितुम् प्रयुक्तः अस्ति । अस्यां स्थितौ वर्तमानसूत्रेण विकल्पेन युवासंज्ञायां प्राप्तायाम् फक्-प्रत्ययं कृत्वा ‘गार्ग्यायण’ इति रूपं जायते । पक्षे गोत्रसंज्ञां च कृत्वा यञ्-प्रत्ययं कृत्वा ‘गार्ग्य’ इत्यपि सिद्ध्यति । विशेषः - यद्यपि काशिकाकारः एतत् सूत्रम् भिन्नरूपेण वदति, तथापि कौमुद्याम् एतत् सूत्रम् वाऽन्यस्मिन् सपिण्डे स्थविरतरे जीवति (4.1.165) इत्यत्र वार्त्तिकरूपेण दीयते ।
Vasu English Summary¶
The गोत्र is sometimes optionally regarded as युवन् when respectful reference to him is intended.
Vasu English Translation¶
The गोत्र is sometimes optionally regarded as युवन् when respectful reference to him is intended. The word Vriddha is another term for Gotra. As तत्र भवान् गर्ग्यायणः or गार्ग्यः “you honored Gargyayana or Gargya”. This sutra is in fact a Vartika and not a sutra of Panini. Similarly तत्र भवान् वात्स्यायनः or वात्स्यः, तत्र भवान् दाक्षायणः or दाक्षिः ॥
Why do we say ‘when respectful reference is intended’? Observe, वात्स्यः and गार्ग्यः ॥ The definition of Vriddham as given by other Grammarians is अपत्यमन्तर्हित वृद्धम् ॥
Kashika¶
अपत्यमन्तर्हितं वृद्धमिति शास्त्रान्तरे परिभाषणाद् गोत्रं वृद्धमित्युच्यते। वृद्धस्य युवसंज्ञा वा भवति पूजायां गम्यमानायाम्। संज्ञासामर्थ्याद् गोत्रं युवप्रत्ययेन पुनरुच्यते। वृद्धस्येति षष्ठीनिर्देशो विचित्रा सूत्रस्य कृतिरिति। तत्र भवान् गार्ग्यायणः, गार्ग्यो वा। तत्र भवान् वात्स्यायनः, वात्स्यो वा। तत्र भवान् दाक्षायणः, दाक्षिर्वा। पूजायामिति किम्? गार्ग्यः। वात्स्यः॥
Padamanjari¶
अपत्यमन्तर्हितमित्यादि । एतच्चापत्यग्रहणेन वृद्धस्य विशेषणाद् इह परिभाषितस्य च शब्दात्मकस्यापत्यत्वासम्भवात् विज्ञायते । पूजायां गम्यमानायामिति । का पुनरत्र पूजा ? यद्यौवत्वमेव । यद्यपि युवशब्दोऽनपेक्षितप्रवृत्तिनिमितमेव संज्ञा, तथापि प्रायेणाल्पवयसो जीवद्वंश्यत्वं सम्भवतीति तदध्यारोपे सति तत्सहचरितं वयोऽपि प्रत्यायितं भवतीति पूजा भवति । संज्ञासामर्थ्यादिति । गोत्रस्य सतो युवसंज्ञा विधीयते, गोत्रसंज्ञा चेत्प्रवृता ठेको गोत्रेऽ इति नियमः प्राप्नोति, ततश्च परमप्रकृतेरेवोत्पन्नेन प्रत्ययेनाभिहितत्वादप्राप्तोऽपि प्रत्ययोऽस्माद्वचनाद्भवतीत्यर्थः । इह पूर्वत्र सामानाधिकरण्येन संज्ञाविधानात्प्रक्रमाभेदाय तथैव संज्ञा विधातुं युक्ता, कोऽयं वृद्धस्येति षष्ठीनिर्देशः इत्यत्राह - वृद्धस्येति । षष्ठीनिर्देश इति । इतिकरणो हेतौ, वातिंककारीयं चेदं सूत्रम् । वृत्तिकारेण तु सूत्रेषु प्रक्षिप्तम् । एतेनोतरसूत्रं व्याख्यातम् ॥
Vartika¶
क्षत्रियसमानशब्दाज्जनपदात्तस्य राजन्यपत्यवत् ।