41160: प्राचामवृद्धात् फिन् बहुलम्

Padacheda: प्राचाम् | S | 6 | 3 |

अ-वृद्धात् | S | 5 | 1 |

फिन् | S | 1 | 1 |

बहुलम् | S | 1 | 1 |

Sutrartha

यः शब्दः वृद्धसंज्ञकः नास्ति, तस्मात् ‘तस्य अपत्यम्’ अस्मिन् अर्थे पूर्वदिशि विद्यमानानामाचार्याणाम् मतेन बहुलं फिन् प्रत्ययः भवति ।

Vasu English Summary

According to the opinion of Eastern Grammarians after a stem not having वृद्धि vowel in the first syllable, the affix फिन् is diversely used in the sense of a descendant.

Vasu English Translation

According to the opinion of Eastern Grammarians after a stem not having वृद्धि vowel in the first syllable, the affix फिन् is diversely used in the sense of a descendant. Thus ग्लुचुकायनिः or ग्लौचुकिः ‘son of Gluchuka’, ॥ अहिचुम्बकायनिः or आहिचुम्बिः ॥ Why do we say, “not having a Vriddhi in the first syllable”, Observe राजदन्तिः ॥ The words प्राचाम्, बहुलं and अन्यतरस्याम् all denote optional rules, so the employment of any one of them would have here sufficed. Why two are used in this sutra viz. प्राचां and बहुलं ? The mention of Grammarians is made as a token of respect, and बहुलं is used to express the non-uniformity of the sutra construction. In some places this affix फिन् is not at all added, as दाक्षिः, प्लाक्षिः ॥

Kashika

अवृद्धाच्छब्दरूपादपत्ये फिन् प्रत्ययो भवति बहुलं प्राचां मतेन। ग्लुचुकायनिः। अहिचुम्बकायनिः। प्राचामिति किम्? ग्लौचुकिः। अवृद्धादिति किम्? राजदन्तिः। उदीचां प्राचामन्यतरस्यां बहुलमिति सर्व एते विकल्पार्थास्तेषामेकेनैव सिध्यति। तत्राचार्यग्रहणं पूजार्थम्। बहुलग्रहणं वैचित्र्यार्थम्। क्वचिन्न भवत्येव — दाक्षिः। प्लाक्षिः॥

Siddhanta Kaumudi

ग्लुचुकायनिः ॥

Balamanorama

प्राचामवृद्धात् फिन् बहुलम् - प्राचामवृद्धात् । अवृद्धसंज्ञकादपत्ये बहुलं फिन् स्यादित्यर्थः । प्राचांग्रहणं पूजार्थम् । ग्लुचुकायनिरिति । ग्लुचुकस्यापत्यमिति विग्रहः । अवृद्धात्किम् । राजदन्तिः । बहुवग्रहणान्नेह — दाक्षिः ।

Tattvabodhini

प्राचामवृद्धात् फिन् बहुलम् - प्राचामवृद्धात् । प्राचांग्रहणं पूजार्थम् । अवृद्धादिति किम् । राजदन्तिः । बहुग्रगणान्नेह -दाक्षिः ।

Padamanjari

विकल्पार्था इति । विकल्पप्रयोजनम् । तत्राऽऽचार्योपादानं मतान्तरे प्रत्ययस्याभावं द्योतयति, बहुलग्रहणं तु क्वचित्प्रवृत्यादिकम्, अन्यतरस्यांशब्दस्तु विकल्पमेव, तेषामेकेनैव सिद्ध्यतीति प्रकरणाद्विकल्प इति गम्यते । किमर्थं तर्हि सर्वेषां ग्रहणम् ? तत्राह - तत्रेति । बहुलग्रहणं वैचित्र्यार्थमिति । पारिशेष्यादन्यस्य ग्रहणं विकल्पार्थमित्युक्तं भवति । वैचित्र्यमेव दर्शयति - क्वचिदिति ॥

Nyaas

विकल्पार्थः इति। विकल्पप्रयोजनाय। एकेनैव सिध्यति इति। विकल्पार्थत्वादिति।प्रकृतत्वाद्विकल्प इति गम्यते। अत्र च किमर्थं सर्वेषां ग्रहणमित्यध्याहार्यम्। तत्रेत्याद्युत्तरम्। यच्चोदीचांग्रहणं यच्च प्राचांग्रहणम्, तदुभयं पूजार्थम्। बहुलग्रहणं वैचित्र्यार्थम् (इति)। पारिशेष्यादन्यतरस्यांग्रहणं विकल्पार्थमित्युक्तं भवति। क्वचित् इत्यादिना बहुलग्रहणस्य वैचित्र्यार्थतां दर्शयति॥

Prakriyasarvasvam

ग्लुचुकायनिः । उदङ्‌मते ग्लौचुकिः । बहुलोक्तेः सर्वत्र न । दक्षाद् दाक्षिः ॥