41173: साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्¶
Padacheda: साल्व-अवयव-प्रत्यग्रथ-कलकूट-आश्मकात् | S | 5 | 1 |
इञ् | S | 1 | 1 |
Sutrartha¶
साल्वदेशस्य जनपदवाचिनः अवयवाः, तथा प्रत्यग्रथ-जनपदः, कलकूट-जनपदः, आश्मक-जनपदः - एतेषां नामानि क्षत्रियस्य अभिधानस्वरूपेण अपि प्रयुज्यन्ते चेत् तेभ्यः ‘तस्य अपत्यम्’ अस्मिन् अर्थे ‘इञ्’ प्रत्ययः भवति ।
Vasu English Summary¶
The affix इञ् comes in the sense of descendant after a word which denotes any sub-division of the country साल्व and after the words 1. प्रत्यग्रथ 2. कलकूट and 3. अश्मक, when these are names of countries and of tribes.
Vasu English Translation¶
The affix इञ् comes in the sense of descendant after a word which denotes any sub-division of the country साल्व and after the words 1. प्रत्यग्रथ 2. कलकूट and 3. अश्मक, when these are names of countries and of tribes. Karika उदुम्बरास्तिलखला मद्रकारा युगन्धराः । भुलिङ्गाः शरदण्डाश्च साल्वावयवसंज्ञिताः ॥”
The word साल्वा is the name of a Kshatriya woman, her son will be साल्वेयः (4.1.121) formed by ढक्; also साल्वः formed by अण् ॥ The dwelling place of साल्व will be also साल्वः which is the name of a country.
The sub-divisions of the country called साल्व are six, viz Udumbarah, Tilakhalah, Madrakarah, Yugandharah, Bhulingah and Saradandah. The patronymic from these will be: औदुम्बरिः, तैलखलिः, माद्रकारिः, यौगन्धरिः, भौलिङ्गिः and शारदण्डिः ॥ So also the affix ‘in’ will be added to the words ‘Pratyagratha’ &c. As प्रात्यग्रथिः, कालकूटिः and आश्मकिः ॥ The affix has the force also of ‘the king there of’. As औदुम्बरो राजा ॥ According to Mahabhashya, the words Busa, Ajamidha, and Ajakanda also take this affix, as बौसः, आजमीढिः and आजकन्दिः ॥
Kashika¶
जनपदशब्दात् क्षत्रियादित्येव। सल्वा नाम क्षत्रिया तन्नामिका तस्या अपत्यम्, द्व्यचः (४.१.१२१) इति ढक् । साल्वेयः। अणपीष्यते — साल्वः। तस्य निवासः साल्वो जनपदः। तदवयवा उदुम्बरादयः, तेभ्यः क्षत्रियवृत्तिभ्य इदं प्रत्ययविधानम्। साल्वावयवेभ्यः प्रत्यग्रथकलकूटाश्मकशब्देभ्यश्चापत्य इञ् प्रत्ययो भवति। अञोऽपवादः। औदुम्बरिः। तैलखलिः। माद्रकारिः। यौगन्धरिः। भौलिङ्गिः। शारदण्डिः। प्रात्यग्रथिः। कालकूटिः। आश्मकिः। तस्य राजनीत्येव — औदुम्बरी राजा।
उदुम्बरास्तिलखला मद्रकारा युगन्धराः।
भुलिङ्गाः शरदण्डाश्च साल्वावयवसंज्ञिताः॥
Siddhanta Kaumudi¶
साल्वो जनपदस्तदवयवा उदुम्बरादयस्तेभ्यः प्रत्यग्रथादिभ्यस्त्रिभ्यश्च इञ् । अञोऽपवादः । औदुम्बरिः प्रात्यग्रथिः । कालकूटिः । आश्मकिः । राजन्यप्येवम् ॥
Balamanorama¶
साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् - साल्वावयव । उदुम्बरादय इति ।उदुम्बरास्तिलखला मद्रकारा युगन्धराः । भूलिङ्गाः शरदण्डाश्च साल्वावयवसंज्ञिताः । इति प्रसिद्धिः ।द्व्यञ्मगधे॑ति भाष्ये तु-बुध अजमीढ-अडक्रन्धा अपि गृहीताः ।
Tattvabodhini¶
साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् - उदुम्बरादय इति ।उदुम्बरास्तिलखला मद्रकारा युगंधराः । भ्रूलिङ्गा शरदण्डाश्च साल्वावयवसंज्ञिताः॑इति वृत्तिः । औदुम्बरिरिति । तैलखलिः । माद्रकारिः । यौगन्धरिरित्यादीन्युदाहर्तव्यानि ।
Padamanjari¶
सल्वा क्षत्रियेति पाठः, तन्नामिकेति वचनात्, इदं हि तन्नामिकाणः प्राप्त्यर्थमुक्तम् । न च साल्वाशब्दातस्य प्राप्तिः, वृद्धत्वात, सलेर्वप्रत्ययः । अणपीष्यत इति । साल्वावयवे अपदातौ साल्वादिति निर्देशात्, न च निपातितोऽण् ढकोऽपवादः,’साल्वेयगान्धारिभ्या च’ इति निर्देशात् । तेभ्यः क्षत्रियवृत्तिभ्य इति ।’जनपदशब्दात्क्षत्रियात्’ इत्यनुवृतेरेतल्लभ्यते । ठुदुम्बरास्तिलखलाःऽ इति श्लोकः प्रदर्शनार्थः । तेन बुस, अजमीढ, आजकन्द -इत्येतेभ्यो।ञपि भवति; तथा च भाष्य उदाहृतम् - बौसिः, आजमीढिः, आजकन्दिरिति । साल्वावयवसंज्ञिता इति । साल्वावयव - इत्येवं शब्दिता इत्यर्थः ॥
Nyaas¶
अजपीष्यते इति। तन्नामिकालक्षणः। कुतो विज्ञायते? साल्व इति निपातनात्। तदवयवा जनपदानां वाचकाः क्षत्त्रियाणां समाना भवन्ति। अतस्तेऽप्यौपचारिकं साल्वापदेशमासादयन्ति॥
Prakriyasarvasvam¶
साल्वजनपदस्यांशपालेभ्यः प्रत्यग्रथादिभ्यश्चेञ् स्यात् । जनपदशब्दादित्य- ञोऽपवादः । औदुम्बरादयः साल्वावयवाः । तदपत्यमौदुम्बरिः । प्रात्यग्रथिः । कालकूटिः । आश्मकिः ॥