41165: वान्यस्मिन् सपिण्डे स्थविरतरे जीवति¶
Padacheda: वा | S | 0 | 0 |
अन्यस्मिन् | S | 7 | 1 |
सपिण्डे | S | 7 | 1 |
स्थविरतरे | S | 7 | 1 |
जीवति | S | 7 | 1 |
Sutrartha¶
यदि भ्रातरं विहाय अन्यः कोऽपि सपिण्डः ज्येष्ठः जीवितः अस्ति, तर्हि पौत्रप्रभृतेः जीवितम् यद् अपत्यम् तस्य विकल्पेन युवासंज्ञा भवति ।
अस्य सूत्रस्य अर्थः किञ्चित् क्लिष्टः अस्ति, अतः क्रमेण पश्यामः - 1. पौत्रादीनां यद् अपत्यम्, तस्य अपत्यं पौत्रप्रभृतिः गोत्रम् (4.1.162) इत्यनेन गोत्रसंज्ञायां प्राप्तायाम्, अनेन सूत्रेण तां बाधित्वा विकल्पेन ‘युवा’संज्ञाविधानं क्रियते । 2. अत्र कस्य ‘युवा’संज्ञाविधानम् क्रियते? ‘पौत्रप्रभृतेः अपत्यम् जीवति सति तस्य युवासंज्ञा भवति’ । इत्युक्ते, पौत्रप्रभृतेः यद् अपत्यम्, तत् जीवितमस्ति चेदेव तस्य अनेन सूत्रेण युवासंज्ञा भवितुम् शक्यते, न अन्यथा । (अत्र एतत् स्मर्तव्यम् यत् जीवति तु वंश्ये युवा (4.1.163) तथा भ्रातरि च ज्यायसि (4.1.164) एतयोः दत्ता युवासंज्ञा मृतस्य अपि भवितुमर्हति । परन्तु वर्तमानसूत्रेण पाठिता युवासंज्ञा केवलं जीवितस्यैव भवति ।) 3. जीवितस्य विधीयमाना इयम् युवासंज्ञा कदा भवति? अस्य उत्तरम् ‘सपिण्डे स्थविरतरे जीवति सति’ इति उच्यते । ‘सपिण्ड’ इत्युक्ते सप्तमपुरुषं यावत् पितराः । ‘स्थविरतरः’ इत्युक्ते ज्येष्ठः । अतः सप्तमपुरुषं यावत्सु पितरेषु कोऽपि स्थानेन वयसा वा ज्येष्ठः जीवितः अस्ति, तर्हि पौत्रादीनाम् यत् जीवितमपत्यम्, तस्य विकल्पेन युवासंज्ञा विधीयते । 4. अस्मिन् सूत्रे अन्यः अपि एकः विशेषः उच्यते - ‘भ्रातरि अन्यस्मिन् । इत्युक्ते, भ्रातरं विहाय यदि कोऽपि ज्येष्ठः सपिण्डः जीवितः अस्ति, तर्हि एव अस्य सूत्रस्य प्रयोगः कर्तव्यः । अतः सम्पूर्णसूत्रस्य अर्थः एतादृशः जायते - पौत्रादीनाम् यद् अपत्यम् ; तस्य भ्रातरं विहाय अन्यः स्थविरतरः सपिण्डः जीवितः अस्ति चेत् ; तद् अपत्यम् स्वयमपि जीवितः अस्ति चेत् च ; तस्य गोत्रसंज्ञां बाधित्वा विकल्पेन युवासंज्ञा भवति । उदाहरणम् - महाभारते विद्यमानस्य शन्तनोः वंशं पश्यामः । अस्मिन् वंशे अर्जुनस्य प्रपौत्रः जनमेजयः अस्ति । अतः अपत्यं पौत्रप्रभृतिः गोत्रम् (4.1.162) इत्यनेन जनमेजयः अर्जुनस्य ‘गोत्रापत्यम्’ अस्तीति वक्तुं शक्यते । परन्तु यदि अस्मिन्नेव वंशे विद्यमानः धृतराष्ट्रः जीवितः अस्ति, तर्हि अयम् धृतराष्ट्रः जनमेजयस्य ‘जीवितः स्थविरतरः सपिण्डः’ जायते, अतः जनमेजयः स्वयं जीवितः अस्ति चेत् सः विकल्पेन अर्जुनस्य ‘युवापत्यम्’ भवति । अत्र ‘अर्जुनः जीवितः अस्ति उत नास्ति’ इति चिन्तनम् न आवश्यकम् - इति स्मर्तव्यम् । ‘कश्चन’ स्थविरतरः सपिण्डः जीवितः भवेत्, तथा यस्य युवापत्यसंज्ञा भविष्यति सः स्वयं जीवितः भवेत् इत्येव आवश्यकम् । ज्ञातव्यम् - 1. अस्मिन् सूत्रे ‘जीवति’ शब्दस्य प्रयोगः द्विवारं कृतः अस्ति । प्रथमः ‘जीवति’ शब्दः सूत्रे साक्षात् विद्यते । अस्य ‘जीवति’शब्दस्य अन्वयः ‘सपिण्डे’ इत्यनेन सह भवति । द्वितीयः ‘जीवति’शब्दः जीवति तु वंश्ये युवा (4.1.163) इत्यस्मात् अनुवर्तते । अस्य अन्वयः ‘अपत्यम्’ इत्यनेन सह क्रियते । 2. अनेन सूत्रेण ‘युवा’संज्ञा विकल्पेनैव विधीयते । इयं युवासंज्ञा भवति चेत् ‘गोत्र’संज्ञा बाधित्वा भवति । तथा च, युवासंज्ञायाः अभावे गोत्रसंज्ञा पुनः विधीयते । 3. यदि जीवितः सपिण्डः वयसा स्थानेन वा कनिष्ठः अस्ति, तर्हि अस्य सूत्रस्य प्रयोगः न भवति । यथा, यदि गर्गस्य प्रपौत्रः कश्चन देवदत्तः अस्तीति चिन्तयामः । इदानीं यदि देवदत्तः स्वयं जीवितः अस्ति, तथा, देवदत्तस्य सपिण्डेषु केवलं तस्य पितृव्यः जीवितः अस्ति, परन्तु एषः पितृव्यः वयसा देवदत्तात् कनिष्ठः अस्ति, तर्हि देवदत्तः गर्गस्य गोत्रापत्यमेव भवति, युवापत्यम् न ।
Vasu English Summary¶
The living descendant of a grandson etc. is called optionally a युवन् when a more superior सपिण्ड other than a brother is alive.
Vasu English Translation¶
The living descendant of a grandson etc. is called optionally a युवन् when a more superior सपिण्ड other than a brother is alive. The sapinda relationship extends up to seven degrees. The word स्थविर means ‘superior’, and स्थविरतर is comparative and means ‘more superior’, that is to say, superior both by degree of descent and by age. The word जीवति is again read in this aphorism, though there is the anuvritti of जीवति also from (4.1.163). This जीवति of the sutra qualifies the word descendant, the जीवति which is understood by context qualifies the word sapinda thus :-
Garga (dead) -> Gargi (alive)
Garga (dead) -> Gargi (alive) -> Gargya (alive)
Garga (dead) -> Gargi (alive) -> Gargya (dead) -> Gargyayna) or Gargya (alive)
Here the uncle or the brother of a grand-father being alive, the descendant is optionally called Yuvan or Gotra.
Bhashya¶
वाऽन्यस्मिन् सपिण्डे स्थविरतरे जीवति (1411) (पदकृत्यभाष्यम्) अन्यग्रहणं किमर्थम्? भ्रातरीति वर्तते, सपिण्डमात्रे यथा स्यात्। अथ स्थविरतरग्रहणं किमर्थम्? उभयतो विशिष्टे यथा स्यात्, स्थानतो वयस्तश्च। अथ जीवतीति वर्तमाने पुनर्जीवतिग्रहणं किमर्थम्? जीवतो जीवति यथा स्यात्, मृते मा भूत्। मृते हि गार्ग्यो मृतः इत्येव भवितव्यम्॥ (गोत्रयुवसंज्ञयोः समावेशे दोषापादकभाष्यम्) अथ गोत्रयूनोः समावेशो भवति, उताहो न। किं च प्राप्नोति? बाढं प्राप्नोति, न ह्ययमेकसंज्ञाधिकारः। किं चातः? (दोषे श्लोकवार्तिकम्) गोत्रयूनोः समावेशे को दोषस्तत्कृतं भवेत्॥ (भाष्यम्) गोत्रयूनोः समावेशे को दोषः? तत्कृतं प्राप्नोति, गोत्राश्रया विधयो यून्यपि प्राप्नुवन्ति -यास्कायनयः, लाह्यायनयः। यस्कादिभ्योगोत्रे (2.4.63) इति लुक् प्राप्नोति॥ (एकेदेशे दोषवारकं श्लोकवार्तिकम्) यस्कादिषु न दोषोऽस्ति न यूनीत्यनुवर्तनात्। (भाष्यम्) यस्कादिषु न दोषः। किं कारणम्? न यूनीत्यनुवर्तनात्, न यूनीति तत्रानुवर्तते। क्व प्रकृतम्? न तौल्वलिभ्यः (2.4.61) इति॥ (दोषापादकं श्लोकवार्तिकम्) दोषोऽत्रिबिदपञ्ञ्चाला न यूनीत्यनुवर्तनात्॥ (भाष्यम्) यदि न यूनीत्यनुवर्तते -अत्रयः, बिदाः, पञ्ञ्चाला, माणवका इति न सिध्यति। नैष दोषः। संबन्धमनुवर्तिष्यते। न तौल्वलिभ्यः तद्राजस्य बहुषु तेनैवास्त्रियां लुग् भवति, तौल्वलिभ्यो यूनि न। यस्कादिभ्यो गोत्रे लुग् भवति, यूनि न। तौल्वलिभ्य इति निवृत्तम्। यञ्ञञ्ञोश्च अत्रिभृगुकुत्सवसिष्ठगोतमाङि्गरोभ्यश्च लुग् भवति। यूनि नेत्यपि निवृत्तम्। इह तर्हि -काण्व्यायनस्य छात्राः काण्व्यायनीयाः। कण्वादिभ्यो गोत्रे (4.2.111) इत्यण् प्राप्नोति॥ (दोषोद्धारकं श्लोकवार्तिकम्) कण्वादिषु न दोषोऽस्ति न यून्यस्ति ततः परम्॥ (भाष्यम्) कण्वादिषु दोषो नास्ति किं कारणम्? न यून्यस्ति ततः परम्। कण्वादिभ्यो यो विहितस्तदन्तात्प्रातिपदिकादित्युच्यते। यश्चात्र कण्वादिभ्यो विहितः, न तदन्तं प्रातिपदिकम्। यदन्तं च प्रातिपदिकम्, नासौ कण्वादिभ्यः॥ (दोषापादकभाष्यम्) इह तर्ह्यौपगवस्यापत्यमौपगविरिति एको गोत्रे (4.1.93) इत्येतस्मान्नियमात्प्रत्ययो न प्राप्नोति॥ (दोषोद्धारकं श्लोकवार्तिकम्) एको गोत्रे प्रातिपदम्। (भाष्यम्) प्रतिपदमत्र प्रत्यया विधीयन्ते। गोत्राद्यून्यस्त्रियाम् (4.1.94) इति॥ (दोषापादकं भाष्यम्) तदन्तात्तर्ह्यनेकः प्रत्ययः प्राप्नोति॥ (दोषोद्धारकं श्लोकवार्तिकम्) गोत्राद्यूनि च तत्स्मरेत्। (भाष्यम्) गोत्राद्यून्यस्त्रियाम् इति तत् स्मरेत्॥ किम्? एक इत्येव॥ (संज्ञयोः समावेशे दोषापादनभाष्यम्) गोत्रे तर्ह्यलुगुक्तः स यून्यपि प्राप्नोति। अस्तु। पुनर्यूनि लुग् भविष्यति। नैवं शक्यम्। फक्फिञ्ञोर्दोषः स्यात्-शालङ्केर्यूनश्छात्राः शालङ्काः, पैलश्य पैलीयाः। फक्फिञ्ञोरन्यतरस्याम्(4.1.91) इत्यन्यतरस्यां श्रवणं प्रसज्येत॥ (प्रकारान्तरेण दोषनिवारकभाष्यम्) तस्माद्युवसंज्ञायां गोत्रसंज्ञायाः प्रतिषेधो वक्तव्यः॥ न वक्तव्यः। तुर्नियामकः, तुः क्रियते स नियामको भविष्यति -जीवति वंश्ये अपत्यं युवसंज्ञमेव भवतीति॥ (पूर्वोक्तदोषनिवारणेऽप्यन्यदोषापादकं भाष्यम्) यदि तर्हि युवसंज्ञायां गोत्रसंज्ञा न भवति, य इष्यन्ते यूनि गोत्राश्रया विधयस्ते न सिध्यन्ति -गार्ग्यायणानां समूहो गार्ग्यायणकम्, गार्ग्यायणानां किंचिद् गार्ग्यायणकम्, गार्ग्यायणो भक्तिरस्य गार्ग्यायणकः। गोत्राश्रयो वुञ्ञ्न प्राप्नोति॥ एवं तर्हि - (दोषोद्धारकं श्लोकवार्तिकम्) राजन्याद्वुञ्ञ् मनुष्याच्च ज्ञापकं लौकिकं परम्। (भाष्यम्) यदयं वुञ्ञ्विधौ राजन्यमनुष्ययोर्ग्रहणं करोति, तज् ज्ञापयत्याचार्यः -लौकिकं परं गोत्रग्रहणमिति। युवा च लोके गोत्रमित्युपचर्यते -किं गोत्रोऽसि माणवक? गार्ग्यायणः। किं गोत्रोऽसि माणवक? वात्स्यायनः॥ (सूत्रार्थोपसंहारभाष्यम्) यद्येतज्ज्ञाप्यते -औपगवेर्यूनश्छात्रा औपगवीयाः। इञ्ञो गोत्र इत्यण् प्राप्नोति। सामूहिकेषु ज्ञापकम्। यदि सामूहिकेषु ज्ञापकम् -गार्ग्यायणानां किंचिद् गार्ग्यायणकम्, गार्ग्यायणो भक्तिरस्य गार्ग्यायणकः, गोत्राश्रयो वुञ्ञ्न प्राप्नोति। वुञ्ञ्विधौ ज्ञापकम्। वुञ्ञ्विधावेतज्ज्ञापकम्। यदि वुञ्ञ्विधौ ज्ञापकम् -शालङ्केर्यूनश्छात्राः शालङ्काः। इञ्ञो गोत्र इत्यण्न प्राप्नोति। अस्तु तर्ह्यविशेषेण। कथमौपगवेर्यूनश्छात्रा औपगवीयाः, इञ्ञो गोत्र इत्यण् प्राप्नोति? नैष दोषः। गोत्रेणात्रेञ्ञं विशेषयिष्यामः -गोत्रे य इञ्ञ्विहित इति॥
Kashika¶
सप्तमपुरुषावधयः सपिण्डाः स्मर्यन्ते। येषाम् उभयत्र दशाहानि कुलस्यान्नं न भुज्यते (द्र० — मनु० ५.६१) इत्येवमादिकायां क्रियायामनधिकारः। भ्रातुरन्यस्मिन् सपिण्डे स्थविरतरे जीवति पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा भवति। प्रकृतं जीवतिग्रहणं सपिण्डस्य विशेषणम्, इदं तु संज्ञिनः। तरब्निर्देश उभयोत्कर्षार्थः। स्थानेन वयसा चोत्कृष्टे सपिण्डे यथा स्यात्, पितृव्ये पितामहे भ्रातरि च वयसाधिके जीवति, गर्गस्यापत्यं गार्ग्यायणो गार्ग्यो वा। वात्स्यायनो वात्स्यो वा। दाक्षायणो दाक्षिर्वा। स्थविरतर इति किम् ? स्थानवयोन्यूने गार्ग्य एव भवति। जीवतीति किम्? मृते मृतो वा गार्ग्य एव भवति॥
Siddhanta Kaumudi¶
भ्रातुरन्यस्मिन्सपिण्डे स्थविरतरे जीवति पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा स्यात् । एकं जीवतिग्रहणमपत्यस्य विशेषणम्, द्वितीयं सपिण्डस्य । तरब्निर्देश उभयोरुत्कर्षार्थः । स्थानेन वयसा चोत्कृष्टे पितृव्ये मातामहे भ्रातरि वा जीवति । गार्यस्यापत्यं गार्यायणः-गार्यो वा । स्थविर इति किम् ? स्थानवयोन्यूने गार्ग्य एव । जीवतीति किम् ? मृते मृतो वा गार्ग्य एव ।<!वृद्धस्य च पूजायामिति वाच्यम् !> (वार्तिकम्) ॥ गोत्रस्यैव वृद्धसंज्ञा प्राचाम् । गोत्रस्य युवसंज्ञा पूजायां गम्यमानायाम् । तत्र भवान्गार्ग्यायणः । पूजा- इति किम् । गार्ग्यः ॥<!यूनश्च कुत्सायां गोत्रसंज्ञेति वाच्यम् !> (वार्तिकम्) ॥ गार्ग्यो जाल्मः । कुत्सिते किम् । गार्ग्यायणः ॥
Balamanorama¶
वाऽन्यस्मिन् सपिण्डे स्थविरतरे जीवति (वृद्धस्य च पूजायाम्) (यूनश्च कुत्सायाम्) - वाऽन्यस्मिन् । शेषपूरणेन सूत्रं व्याचष्टे — पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा स्यादिति । सपिण्डास्तु-स्वयम्, पिता, पितामहः, प्रपितामहः, तस्य पितृपितामहप्रपितामहाश्चेति सप्त पुरुषाः । एवं मातृसंषेऽपीत्यादि धर्मशास्त्रेषु प्रसिद्धम् । स्थविरतरः — अतिवृद्धः । जीवतीति सप्तम्यन्तमनुवृत्तं सपिण्डे इति सप्तम्यन्तेऽन्वेति । अत्रत्यं तु जीवतिपदं तिङन्तमपत्येऽन्वेति, यदपत्यं जीवति तद्युवसंज्ञकमिति । ततश्च भ्रातुरन्यस्मिन्वृद्धतमे सपिण्डे जीवति सति पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा स्यादिति फलितम् । एकमिति । अत्रत्यमित्यर्थः । द्वितीयमिति । अनुवर्तमानमित्यर्थः । उभयोरिति । हेतुत्वसंबन्धे षष्ठी । उभयहेतुकोत्कर्षवाचकस्तरवित्यर्थः । तदेव विवृणोति-स्थानेन वयसा चेति । स्थानतः उत्कृष्टः-पितृव्यः, तस्य पितृस्थानीयत्वात् । वयसा उत्कृष्टो-मातामहः । भार्तरीति संनिहितत्वान्मातामहभ्रातरीत्यर्थ इति केचित् । पितृव्यपुत्र इत्यन्ये । जीवतीति किमिति । जीवतिद्वयस्य किं प्रयोजनमिति प्रश्नः । मृते मृतो वा गाग्र्य एवेति । मृते सपिण्डे चतुर्थौ गाग्र्य एव, मृतश्च चतुर्थो गाग्र्य एवेत्यर्थः ।वृद्धस्य चेति । वार्तिकमिदम् । तत्र वृद्धपदं विवृणोति-गोत्रस्यैव वृद्धसंज्ञा प्राचामिति । गोत्रमेववृद्ध॑मिति प्राचीनाचार्या व्यवहरन्तीत्यर्थः । तथा च वार्तिकस्य फलितमर्थमाह — गोत्रस्य युवसंज्ञा पूजायां गम्यमानायामिति । उदाहरति — तत्रभवान्गाग्र्यायण इति ।तत्रभवा॑निति पूज्यवाची, युवसंज्ञकानामल्पवयस्कत्वेन वृद्धाधीनत्वेन सुखितया च पूजा । ता गोत्रप्रभृतिस्तृतीयोऽपि मन्यते ।अत्र युवसंज्ञाविधिसामर्थ्यात्स्वार्थे युवप्रत्ययो बोध्यः । गाग्र्यो जाल्म इति । वृद्धाननादृत्य स्वातन्त्र्यं भजते तद्विषयमिदम् ।
Tattvabodhini¶
वाऽन्यस्मिन् सपिण्डे स्थविरतरे जीवति (वृद्धस्य च पूजायाम्) (यूनश्च कुत्सायाम्) - युवसंज्ञमेवेति । तेन एकसंज्ञाधिकारबहिर्भूतयोरपि गोत्रयुवसंज्ञयोर्न समावेश इति भावः । नन्वस्तु संज्ञाद्वयस्यट समावेशः, को दोष इति चेत् । मैवम् । शालङ्काः पैलीया इत्यसिद्धिप्रसङ्गात् । तथा हि शलङ्कोरपत्यं शालङ्किः । पैलादिषु पाठादिञ्शलङ्कादेशौ । शालङ्केरपत्यम् । शालङ्केर्युवापत्यंयञिञिश्चे॑ति फक् । तस्यपैलादिभ्यश्चे॑ति लुक्, ततः शालङ्केर्यूनश्छत्रा इत्यर्थविवक्षायाम्इञस्चे॑त्यणिशालङ्का॑इति भवति । तथा पीलाया अपत्यं गोत्रापत्यं वा -॒पीलाया वा॑इत्यणि — पैलः । तस्या पत्यं युवा,अमो व्द्यचः॑इति फिञ् । तस्यपैलादिभ्यश्चे॑ति लुक् । ततः पैलस्य यूनश्छात्राः पैलीया इति भवति । तत्र गोत्रयूनोः समावेशे तुगोत्रे लुगची॑ति फक्फिञारलुक् प्रसज्येत । न च परत्वाद्यूनि लुग्भविष्यतीति सिद्धमिष्टमिति वाच्यं, ततोऽपि परत्वात्फक्फिञोरन्यतरस्या॑मिति विकल्पापत्तेः । न च सिद्धान्तेऽपि विकल्पः शङ्क्यः,फक्फिञो॑रित्ययं हि यूनि लुक एवापवादो न तुपैलादिभ्यश्चे॑त्यस्य,अनन्तरस्ये॑ति न्यायात् । यद्यपि यूनि लुगवादोऽपिफक्फिञो॑रिति विकल्पः परत्वात्पेलादिभ्यश्चे॑ति लुकमपि बाधेतेति वक्तुं शक्यन्तथापि परादप्यन्तरङ्गस्य बलीयस्त्वात्प्लादिभ्यश्चे॑ति नित्य एव लुगित्याहुः । भ्रातरि च । अवंश्यार्थोऽमारम्भः । भ्राता तु न वंश्यः,उत्पादकप्रबन्धो वंशः॑इत्यभ्युपगमात् ।अपत्यं पौत्रप्रभृती॑त्यनुवर्त्त्यपौत्रप्रभृते॑रिति षष्ठआ विपरिणम्य व्याख्यानात्फलिकमाह -चतुर्थादिरिति । अत्रायमर्थः -गर्गादिषु मृतेष्वपि जीवत्यग्रजे अनुजो युवसंज्ञक इति । वान्यस्मिन् । इहत्यं जीवतिपदं तिङन्तं, न तु सप्तम्यन्तमिति व्याचष्टे — जीवदेवेति । यो जीवति स युवसंज्ञकः, मृतस्तु स्थविरतरे जीवत्यपि गाग्र्य एव भवति, न तु गाग्र्यायण इति भावः । एकमिति । इहत्यमित्यर्थः द्वितीयमिति । अनुवर्तमानं सप्तम्यन्तमित्यर्थः । यदुक्तमुभयोरिति, तदेव विवृणोति — स्थानेनवयसा चेति । मतामहेभ्रातरि वेति । संनिहितत्वात्भ्रातरी॑त्यस्यमातामहभ्रातरी॑त्येवार्थ इत्येके ।पितृव्यपुत्रे॑इत्यन्ये । वृत्तौ तु -॒पितृव्ये पितामहभ्रातरि वे॑ति पाठः । जीवतीति किमिति । जीवतिद्वयं किमर्थमिति प्रश्नः । अतएवमृते मतो वे॑त्यत्तुरं सङ्गच्छते । अन्यस्मिन् किम् । भ्रातरि जीवति जीवतो विकल्पो मा भूत् । पूर्वसूत्रं तु भ्रातरि जीवति भृतस्य कनीयसो युवसंज्ञार्थमिति सावकशम् ।वृद्धस्य च पूजायामिति वाच्यम् । वृद्धस्य । चेति । वार्कतिकमिदम् । तथायूनश्चे॑त्यग्रिममपि ।
Padamanjari¶
सप्तमपुरुषावधय इति । आत्मनः प्रभृति पित्रादिषु पुत्रादिषु वा गण्यमानेषु सप्तमपुरुषोऽवधिर्येषां ते तथोक्ताः । प्रायेण तु पूरणप्रत्ययो न पठ।ल्ते, सप्तपुरुषावधय इत्येव पठ।ल्ते, न तत्र समीचीनमर्थं पश्यामः । समानः पिण्डो येषामिति सपिण्डाः, निपातनात्सभावः । स्मर्यन्त इति । तद्यथा -‘सपिण्डता तु पुरुषे सप्तमे विनिवर्तते’ इति । सप्तमेऽतीते विनिवर्तत इत्यर्थः । उभयत्रेति । जनेन मरणे चेत्यर्थः । एवमादिकायां क्रियायामिति । आदिशब्देन’दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते’ इत्यादिका क्रिया गृह्यते । जीवदेवेति । वस्तुव्याख्यानमेतत् । सूत्रे तु जीवतीत्याख्यातपदम्, तच्चेदपत्यं जीवतीति, प्रथमार्थे वा शत्रन्तात्सप्तमी व्याख्येया । तरब्निर्देश इत्यादि । असति तस्मिन्स्थविरशब्दाद्वयः प्रकर्षमात्रं गम्येत, तरपा तु स्थानप्रकर्षो द्योत्यते, ततस्तदु पादानसामर्थ्यात्, यथा गोतरः, अश्वतर इत्यादावप्रवृत्तिनिमितभूतस्यापि वाहदोहादेः प्रकृत्यर्थसम्बन्धिनः प्रकर्षेतरब् भवति, तथात्रापि । स्थानमुपदम्, पितृत्वादिकम् । स्थानवयोन्यूने इति । स्थानेन वयसा च न्यूने इत्यर्थः । ननु च ज्यायसीत्यनुवृतेरेवोभयोः प्रकर्षो लभ्यते,’प्रशस्यस्य श्रः’ ,’ज्य च’ ,’वृद्धस्य च’ इत्युभयोर्ज्यादेशविधानात् ? तन्न; नहि सकृत्प्रयुक्तः शब्दोऽनेकार्थमभिधातुं समर्तः । एवमपि तरब्निर्देशो न कर्तव्यः, ज्यायसीत्यनुवृतेरेव स्थानप्रकर्षलाभात् ? एतदपि नास्ति; स्थविर इति विशेषणान्तरोपादाने सति ज्यायसीत्यस्यनुवृतेरेव दुर्ज्ञानत्वात् । जीवतीति किमिति । श्रुतं प्रकृतं चोभयमधिकृत्य प्रश्नः । अत एवोभयोः प्रयोजनं दर्शयति - मृते मृतो वेति । तत्र मृत इति स्वपितरि, मृतो वेति पौत्रप्रभृतेरपत्यभूतोऽर्तः ॥
Prakriyasarvasvam¶
भ्रातुरन्यस्मिन् सपिण्डे स्थविरतरे जीवति जीवन्तश्चतुर्थादयो वा युवसंज्ञाः । पित्रादिष्वग्रजेष्वपि मृतेषु कस्मिंश्चित् कुलवृद्धे जीवति स्वयं जीवंश्चतुर्थो गार्ग्यो गार्ग्यायणश्चोच्यते ।<!वृद्धस्य च पूजायाम्!> (वा० ४-१-१६३) पौत्रो वृद्धः । तस्यापि पूजायां वा युवसंज्ञा स्यात् । गार्ग्यायणः खल्वयं गार्ग्यो वा । ‘यूनश्च कुत्सायाम्’ । (कुत्सायां यून) एव युवसंज्ञा वा स्यात् । पक्षे गोत्रता स्यादित्यर्थः । कुत्सितश्चेच्चतुर्थोऽपि गार्ग्य इत्याख्येयः, गार्ग्यायण इत्येव वा ।। <karika>वंश्यो ज्यायांश्च गुरुविवक्षयान्यस्तुतिस्त्वधीनतया । निन्दाप्यनधीनेऽतो गुर्वायत्तो युवेति भोजतृपः ।। १९८ ।।</karika> अथ गोत्रे प्रत्ययाः । कुञ्जस्यापत्यं कौञ्जिः । तस्यापत्ये तु—