41178: न प्राच्यभर्गादियौधेयादिभ्यः

Padacheda: न | S | 0 | 0 |

प्राच्य-भर्गादि-यौधेय-आदिभ्यः | S | 5 | 3 |

Sutrartha

पूर्वदिशायां विद्यमानाः ये जनपदाः, भर्गादिगणे विद्यमानाः ये जनपदाः, तथा यौधेयादिगणे विद्यमानाः ये जनपदाः, तेभ्यः विहितस्य तद्राजसंज्ञकप्रत्ययस्य स्त्रीत्वे विवक्षिते लुक् न भवति ।

Vasu English Summary

The तद्राजा affix is not elided in the feminine, if it forms the names of the क्षत्रिय-sūtras of the East or it comes after the word भर्ग etc. and यौधेय etc.

Vasu English Translation

The तद्राजा affix is not elided in the feminine, if it forms the names of the क्षत्रिय-sūtras of the East or it comes after the word भर्ग etc. and यौधेय etc. This sutra debars the elision of the Tadraja affix अ (required by the last sutra). Thus पांचाली, वैदेही, आंगी, वांगी, मागधी these being all Eastern people dwelling in countries east of the Sarasvati river. Similarly of भर्ग &c. Thus भार्गी, कारुषी, कैकेयी ॥ So also of यौधेय &c. Thus यौधेयी, शौभ्रेयी and शौक्रेयी ॥ The Tadraja affixes taught above are five, but besides these there are others taught in the fifth Adhyaya (5.3.112) to (5.3.119). The word यौधेय is formed by such an affix ((5.3.177) अञ्). The present rule, therefore indicates by implication, that the rule of elision contained in (4.1.177) applies not only to the Tadraja affixes taught in this chapter, but to the Tadraja affixes taught in (5.3.112) to (5.3.119). Thus the Tadraja affix अण् in (5.3.117) added to पशु &c. is elided in the feminine: e.g. m. पार्शवः, f. पर्शू, m आसुरः f असुरी–&c.

1 भर्ग, 2 करूश (करूष), 3 केकय, 4 कश्मीर, 5 साल्व, 6 सुस्थाल, 7 उरस् (उरश and उरस). 8 कौरव्य.

1 यौधेय, 2 कौकेय, 3 शौभ्रेय, 4 ज्याबाणेय (यावाणेय), 5 धौर्तेय (धार्तेयः धार्तेय) 6 त्रिगर्त, 7 भरत, 8 उशीनर, 9 वार्तेय ॥

Kashika

प्राच्येभ्यो भर्गादिभ्यो यौधेयादिभ्यश्चोत्पन्नस्य लुग् न भवति। अतश्च (४.१.१७७) इत्यनेन स्त्रियां लुक् प्राप्तः प्रतिषिध्यते। प्राच्येभ्यः क्षत्रियेभ्यस्तावत् — पाञ्चाली। वैदेही। आङ्गी। वाङ्गी। मागधी। भर्गादिभ्यः — भार्गी। कारूषी। कैकेयी। यौधेयादिभ्यः — यौधेयी। शौभे्रयी। शौके्रयी। कस्य पुनरकारस्य प्रत्ययस्य यौधेयादिभ्यो लुक् प्राप्तः प्रतिषिध्यते? पाञ्चमिकस्याञः पर्श्वादियौधेयादिभ्यामणञौ (५.३.११७) इत्येतस्य। कथं पुनस्तस्य भिन्नप्रकरणस्थस्यानेन लुक् प्राप्नोति? एतदेव विज्ञापयति पाञ्चमिकस्यापि तद्राजस्य अतश्च (४.१.१७७) इत्यनेन लुग् भवतीति। किमेतस्य ज्ञापनेन प्रयोजनम्? पर्श्वाद्यणः स्त्रियां लुक् सिद्धो भवति। पर्शुः। रक्षाः। असुरी। तथा चोक्तम् — यौधेयादिप्रतिषेधो ज्ञापकः पर्श्वाद्यणो लुगिति॥ भर्ग। करूष। केकय। कश्मीर। साल्व। सुस्थाल। उरश। कौरव्य। भर्गादिः॥ यौधेय। शौभ्रेय। शौक्रेय। ज्याबाणेय। वार्तेय। धार्तेय। त्रिगर्त। भरत। उशीनर। यौधेयादिः॥

॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य प्रथमः पादः ॥

Siddhanta Kaumudi

एभ्यस्तद्राजस्य न लुक् । पाञ्चाली । वैदर्भी । आङ्गी । वाङ्गी । मागधी । एत् प्राच्याः । भार्गी । कारूशी । कैकेयी । केकयीत्यत्र तु जन्यजनकभावलक्षणे पुंयोगे ङीष् । युधा शुक्रा आभ्यां द्व्यचः-(SK1124) इति ढक् । ततः स्वार्थे पर्श्वादियौधेयादिभ्योऽणञौ-(SK2070) इत्यञ् । शार्ङ्गरवाद्यञ -(SK527) इति ङीन् । अतश्च-(SK1196) इति लुकि तु ढगन्तत्वात् ङीप्युदात्तनिवृत्तिस्वरः स्यात् । यौधेयी । शौक्रेयी ॥

Balamanorama

न प्राच्यभर्गादियौधेयादिभ्यः - न प्राच्य । एभ्य इति । प्राच्येभ्यो भर्गादिभ्यो यौधेयादिभ्यश्चेतियर्थः । एते प्राच्या इति । ‘क्षत्रिया’ इति शेषः । यथायथमञोऽणश्च लुक् । भर्गादीनुदाहरति — भार्गीस कारूशी, कैकेयीति । जन्यजनकभावेति । अत्र यद्वक्तव्यं तत्पुंयोगादाख्याया॑मित्यत्रोक्तम् । अथ यौधेयादिभ्यो लुक्प्रतिषेधं दर्शयितुमाह — युधा, शुक्रा इत्यादिना । ढगिति । युधाया अपत्यं, शुक्राया अपत्यमिति विग्रहे तन्नामिकाऽणं बाधित्वा ‘द्व्यचः’ इति ढकि एयादेशेयस्येति चे॑त्यकारलोपे आदिवृद्धिः । यौधेयशब्दात्, शौक्रेयशबदाच्चपर्ाआदियौधेयादिभ्योऽणञौ॑ इति स्वार्थे तद्राजसंज्ञके पाञ्चमिके अञियस्येति चे॑त्यकारलोपे ‘शाङ्र्गरवाद्यञः’ इति ङीनि यौधेयी शौक्रेयीति रूपमिति भावः । नन्वत्र ‘अतश्च’ इत्यञोलुकि सत्यपिटिड्ढे॑ति ङीपि, यौधेयी शौक्रेयीति सिद्धेरिह यौधेयादिग्रहणनर्थकमित्यत आह — अतश्चेति लुकि त्विति । उदात्तनिवृत्तीति । अनुदात्तस्य च यत्रोदात्तलोपः॑ इत्यनेन ङीबुदात्तः स्यात् । सिद्धान्ते त्वञन्तत्वान्ङीनि आद्युदात्तत्वमिति भावः ।

Tattvabodhini

न प्राच्यभर्गादियौधेयादिभ्यः - तद्राजस्यऽकारस्येति । सूत्रे तपरकरणं विस्पष्टार्थमिति भावः । शूरसेनीति । अञो लुकिजाते॑रिते ङीष् । न त्वञन्तदलक्षणो ङीन्,अञो योऽकारस्तदन्ता॑दिति व्याख्यानात् । कारूशीति । कृञ उः करुः, तं वष्टि करुशः ।वश कान्तौ॑मूलविभुजादित्वात्कः ।ग्रहिज्ये॑ति संप्रसारणम् । तस्यापत्यं राजा वा कारुशः । स्त्रियां कारूशी । एतेन मूर्धन्योष्मोपधः पाठो निरस्तः । यौधेयादिभ्यो लुक्प्रतिषेधमुदाहर्तुमाह -युधाष शुक्रेत्यादि । अतश्चेति लुकि त्विति ।ञ्यादस्तद्राजाः॑इति वक्ष्यमाणत्वादञोऽस्य तद्राजत्वमस्तीति भावः । योपधत्वान्ङीषः प्राप्तिर्नेत्याशयेनाह -ङीपीति । उदात्तनिवृत्तिस्वर इति ।अनुदात्तस्य च यत्रोदात्तलोपः॑ इत्यनेन ङीबुदात्तः स्यादित्यर्थः । सिद्धान्ते त्वञो लुगभावान्ङीन्याद्युदात्तत्वमिति ज्ञेयम् । स्यादेतत् ।अतश्चे॑ति सूत्रेण विधीयमानो लुक् चातुरर्थिकानामेव तद्राजानां भवतु संनिधानात्, न तुञ्यादयस्तद्राजाः॑इति पाञ्चमिकानामपि तद्राजानामिति किमनेन यौधेयादिग्रहणेन । सत्यम् ।व्याप्तिन्यायेन पाञ्चमिकस्यापीह ग्रहण॑मिति ज्ञापयितुं यौधेयादिग्रहणम् । तेन पार्ाआद्यणः स्त्रियां लुक् सिध्यति । तथा हि पर्शुः क्षत्रिय#ओ जनपदेन समानशब्दः । तस्यापत्यं स्त्री ।द्व्यञ्महधे॑त्यण्, तस्यअतश्चे॑ति लुक् । पुनः पर्ाआदिलक्षणः स्वार्थिकोऽण् । तस्यापि लुकिऊङुतः॑पर्शूः । एवं रक्षसः क्षत्रियस्यापत्यं स्त्री रक्षाः । पूर्ववदण्द्वयस्यापि लुकिअत्वसन्तस्ये॑ति दीर्घः । उक्तं च वार्तिककृता -॒पर्ाआदिभ्यो लुग्वक्तव्यः । यौधेयादिप्रतिषेधो वा ज्ञापकः — पार्ाआदिलुगि॑ति यौधेयीत्यादि । युधायाः शुक्राया अपत्यं स्त्रीति विग्रहः ।

Padamanjari

पाच्चालीत्यादि । पञ्चालादयः शरवत्याः प्राञ्चो जनपदाः । भर्गादिग्रहणमप्रागर्थम् । भृञो गः, भर्गः । कृञ उः, करुः, तमोषतिउद्वेष्टि, मूलविभूजादित्वात्कः, करूषाः । चिनोतेः कयः आदेश्च कः, बहुलवचनादित्संज्ञाभावः, केकयः । कशेर्मिरः, कश्मीरः । साल्वशब्दो निरुक्तः । शोभनानि स्थलान्यस्य सुस्थलः । उरसा शेते उरशः ।’कुरुनादिभ्यो ण्यः’ कौरव्यः । यौधेयीत्यादि । युधाया अपत्यम्, शुभ्राया अपत्यम्,’द्व्यचः’ इति ढक् । शुभ्राशब्दात्’शुभ्रादिभ्यश्च’ इति, ततः स्वार्थे’पर्श्वादियौधेयादिभ्यः’ इत्यञ् । यद्यञो लुक् स्याड्ढग्लक्षणे ङीपि सति उतादतनिवृत्तिस्वरः स्यात्, लुकि तु प्रतिषिद्धे’शार्ङ्गरवाद्यञः’ इति ङीनि सत्याद्यौदातं भवति । कस्य पुनरिति । अस्य वक्ष्यमाणोऽभिप्रायः, तमेव प्रकाशयति - कथं पुनरिति । परिहरति - एतदेवेति पर्शुरिति । पर्शुः क्षत्रियो जनपदेन समानशब्दः, तस्यापत्यं सङ्घः, स्त्रीत्वविशिष्टः,’द्व्यञ्मगध’ इत्यण्, तस्य ठतश्चऽ इति लुक्, पुनः पर्श्वादिलक्षणः स्वार्थिकोऽण्, तस्यापि लुक् । एवं रक्षा इति । रक्षसः क्षत्रियस्यापत्यम्, स्त्रीत्वविशिष्टः सङ्घः, पूर्ववदण्, द्वयस्यापि लुक्, ठत्वसन्तस्यऽ इति दीर्घः । आसुरीति । जनपदलक्षणस्याञो लुकि पर्श्वादिलक्षणस्याणो लुक्, जातिलक्षणो ङीष् । ज्ञापकत्वमेव द्रढयति - तथा चोक्तमिति । वार्तिककारेणैदुक्तम् । यौधेयादिषु त्रयो निरुक्ताः; ज्यायासहितो बाणो यस्याः सा ज्याब्राणा, तस्या अपत्यं ज्याबाणेयः । ज्यावानेय इत्यन्ये पठन्ति, तत्र ज्यावानो यस्या ज्यावाना ।’घृ क्षरणे’ ‘धृ धारणे’ आभ्यां क्तिजन्ताभ्याम् ठितश्चानिञःऽ इति ढक्, घार्तेयः, धार्तेयः । त्रयो गर्ता येषां ते त्रिगर्ताः ।’भृञो’ तच्ऽ, भरतः । वशेः कर्मणि किः, उशिः, उशयः, उष्टा नरा यस्य स उशीनरः, ठन्येषामपि दृश्यतेऽ इति दीर्घः ॥

Nyaas

पाञ्चाली, वैदेही`इति। **जनपदशब्दात् क्षत्रियादञ्** (4.1.168) इत्यादिनाञ्। `शाङ्र्गरवाद्यञो ङीन् (4.1.73) । आङगी। मागधी इति। द्व्यञ्मगधकलिङ्गसूरमसादण् (4.1.170) इत्यादिनाण्। जातेरस्त्रीविषयादयोपधात् (4.1.63) इति ङीष्। भर्गशाल्वशब्दाभ्यां द्व्यञ्मगधलक्षणोऽण् (4.1.168) । शेषेभ्यस्त्वञ्। भार्गी इत्यादौ पूर्ववत् ङीष्। यौधेयी, शौक्रेयी, शौभ्रेयी इति। यौधेय शौक्रेय शौभ्रेयशब्देभ्यः स्वार्थे पर्(ाआदियौधेयादिभ्योऽणञौ (5.3.117) इत्यण्। भार्गीत्यादौ पूर्ववन्ङीष्। कस्य पुनः इत्यादि।येनाभिप्रायेण पृष्टवान् तं कथम् इत्यादिना आविष्करोति। पर्(ाआदि इत्यादि। पर्शूः = क्षत्त्रियः, जनपदेन समानशब्दः, तस्यापत्यं स्त्रीत्वविशिष्टम्। द्व्यञ्मगधकलिङ्गसूरमसादण् (4.1.170) इत्यादिनाण्, तस्य अतश्च 4.1.77) इति लुक्। पर्(ाआदियौधेयादिभ्योऽणञौ` (5.3.117) इत्यनेनापि यः स्वार्थिकोऽण्, तस्यापि लुक्। एवं रक्षाः इति। असूरशब्दाज्जनपदशब्दादित्यादिनाञ्, तदन्तात् पूर्ववत् स्वार्थिकोऽण् तोयर्लुक्। तथा च इत्यादिना ज्ञापकमेव भाष्यकारयतेन द्रढयति॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्जिकायांचतुर्थाध्याये प्रथमः पादः।