41175: कम्बोजाल्लुक्¶
Padacheda: कम्बोजात् | S | 5 | 1 |
लुक् | S | 1 | 1 |
Sutrartha¶
‘कम्बोज’शब्दात् विहितस्य तद्राजप्रत्ययस्य लुक् भवति ।
Vasu English Summary¶
After the word कम्बोज there is elision by लुक् of the तद्राजा affix.
Vasu English Translation¶
After the word कम्बोज there is elision by लुक् of the तद्राजा affix. Namely the affix अञ् which would have come after the word कम्बोज because it denotes a country as well as a Kshatriya tribe, is elided. Thus कम्बोजः ‘The king of Kamboja’. It should be stated rather ‘after Kamboja and the like’, because we find the affix elided after ‘Chola’ &c. Thus चोलः ‘the king of Cholas’. So also केरलः शकः यवनः ॥
Bhashya¶
कम्बोजाल्लुक् (1421) (लुगधिकरणम्) (5330 सूत्रपूरकवार्तिकम्॥ 1 ।) - कम्बोजादिभ्यो लुग्वचनं चोडाद्यर्थम् - (भाष्यम्) कम्बोजादिभ्यो लुग्वक्तव्यः। किं प्रयोजनम्? चोडाद्यर्थभ् -चोडः, कडेरः, केरलः॥ 4-1-4- आ. 115 (719 लुग्विधिसूत्रम्
Kashika¶
जनपदशब्दात् क्षत्रियाद्० (४.१.१६८) इत्यनेन विहितस्याञो लुगुच्यते। कम्बोजात् प्रत्ययस्य लुग् भवति। कम्बोजः॥ कम्बोजादिभ्यो लुग्वचनं चोलाद्यर्थम्॥ चोलः। केरलः। शकः। यवनः। तस्य राजनीत्येव — कम्बोजो राजा॥
Siddhanta Kaumudi¶
अस्मात्तद्राजस्य लुक्स्यात् । कम्बोजः । कम्बोजौ ॥<!कम्बोजादिभ्य इति वक्तव्यम् !> (वार्तिकम्) ॥ चोलः । शकः । द्व्यज्लक्षणस्यणो लुक् । केरलः । यवनः । अञो लुक् । कम्बोजाः समरे इति पाठः सुगमः । दीर्घपाठे तु कम्बोजोऽभिजनो येषामित्यर्थः । सिन्धुतक्षशिलादिभ्योऽणञौ-(SK1473) इत्यण् ॥
Laghu Siddhanta Kaumudi¶
अस्मात्तद्राजस्य लुक् । कम्बोजः । कम्बोजौ । कम्बोजादिभ्य इति वक्तव्यम् (वार्त्तिकम्) । चोलः । शकः । केरलः । यवनः ॥ इत्यपत्याधिकारः ॥ २ ॥
Balamanorama¶
कम्बोजाल्लुक् - कम्बोजाल्लुक् । ‘तद्राजा’ इत्यनुवृत्तं षष्ठआ विपरिणम्यते । कम्बोजात्परस्य तद्राजस्य लुक् स्यादित्यर्थः । अबहुत्वार्थं सूत्रम् ।तदाह-कम्बोजः कम्बोजाविति ।जनपदशब्दा॑दिति विहितस्य अञो लुक् । चोलः शक इति । चोलशकौ देशविशेषौ, राजविशेषौ च द्व्यज्लक्षणस्येति ।द्व्यञ्मगधे॑ति विहितस्येत्यर्थः । केरल इति । केरलयवनशब्दौ देशराजोभयवाचिनौ । अञो लुगिति ।जनपदशब्दादिति विहितस्ये॑ति शेषः । ननु ‘काम्बोज’ इति कथं, लुक्प्रसङ्गादित्यत आह — कम्बोजाः समरे इति । दीर्घपाठे त्विति । अचां मध्ये आदेरचो दीर्घभूतस्य पाठे त्वित्यर्थः । अभिजन इति । यत्र पूर्वैरुषितं सोऽभिजन इत्यग्रे वक्ष्यति । सिन्धुतक्षेति । सिन्ध्वादौ कम्बोजशब्दस्य पाठादिति भावः ।
Tattvabodhini¶
कम्बोजाल्लुक् - कम्बोजाल्लुक् ।तद्राजस्य बहुषु इति प्रकरण एवेदं न कृतं, द्व्येकार्थवाचकस्याऽञो लुगभावप्रसङ्गात् । यद्यपि लुगधिकारे पुनर्लुग्विधानसामर्थ्यातद्द्व्येकयोरप्यञो लुग्भविष्यत्येवेति वक्तुं शक्यं, तथाप्यतद्राजस्यापि लुक्प्रसङ्गशङ्कापत्तेर्लाघवाऽभावाच्च चचप्रकरणे न कृतमित्याहुः । न चात्र अपत्ये लक्षणयैवकम्बोजः कम्बोजौ॑इत्यादिरूपसिद्धौ किमनेन सूत्रेणेति शङ्क्यं,कम्बोज॑इत्यादिपाक्षिकाऽनिष्टवारणाय सूत्रस्यावश्यकत्वात् ।कम्बोजादिभ्य इति वक्तव्यम् । सिन्धुतक्षेति । कम्बोजशब्दस्य सिन्ध्वादित्वादण् । तस्य तु तद्राजत्वाऽभावल्लुङ्नेति भावः ।
Padamanjari¶
चोलः, शक इति ।’द्व्यञ्मगध’ इत्यस्याणः । केरल इत्यत्राञः ॥
Nyaas¶
चोलः,शकः इति। द्व्यञ्मगध (4.1.168) लक्षणस्याणो लुक्। केरल इत्यञः॥
Prakriyasarvasvam¶
अस्मादञो लुक् । कम्बोजपुत्रः कम्बोजः । एवं राजापि । ‘कम्बोजादिभ्यो लुग्वाच्यश्चोलाद्यर्थम्’ । चोलानां सुतश्चोलः । केरलः । मुरलः । शकः ॥
Vartika¶
कम्बोजादिभ्य इति वक्तव्यम् ।