41163: जीवति तु वंश्ये युवा

Padacheda: जीवति | S | 7 | 1 |

तु | S | 0 | 0 |

वंश्ये | S | 7 | 1 |

युवा | S | 1 | 1 |

Sutrartha

पौत्रप्रभृतेः यद् अपत्यम्, तस्य पित्रादौ जीवति सति गोत्रसंज्ञां बाधित्वा युवसंज्ञा भवति ।

अस्य सूत्रस्य शब्दशः अर्थं ज्ञातुमादौ पदपरिचयं पश्यामः । ‘वंश्य’ इत्युक्ते पितराः (पित्रादयः) । ‘जीवति वंश्ये’ इति सतिसप्तमी - ‘वंश्यः जीवितः अस्ति चेत्’ इत्यर्थः । अतः अस्य सूत्रस्य अर्थः जायते - ‘ पौत्रप्रभृतेः यत् अपत्यम्, तस्य पितरेषु कोऽपि जीवितः अस्ति चेत् तस्य ‘युवा’ संज्ञा भवति । इत्युक्ते, ‘प्रपौत्र/प्रप्रपौत्र/प्रप्रप्रपौत्र/…’ एतेषां सर्वेषाम् अपत्यं पौत्रप्रभृति गोत्रम् (4.1.162) इत्यनेन गोत्रसंज्ञायां प्राप्तायाम्; यदि तेषाम् पिताप्रभृतिः जीवितः अस्ति, तर्हि अनेन सूत्रेण गोत्रसंज्ञां बाधित्वा युवसंज्ञा विधीयते - इति अस्य आशयः । यथा - अर्जुनस्य अपत्यमभिमन्युः । अभिमन्योः अपत्यम् परीक्षितः । परीक्षितस्य अपत्यम् जनमेजयः । अतः अपत्यं पौत्रप्रभृति गोत्रम् (4.1.162) इत्यनेन जनमेजयः अर्जुनस्य ‘गोत्रापत्यम्’ अस्तीति वक्तुं शक्यते । परन्तु यदि अर्जुनः / अभिमन्युः / परीक्षितः - एतेषु कोऽपि जीवितः अस्ति, तर्हि जनमेजयः अर्जुनस्य ‘युवापत्यम्’ अस्ति इत्युच्यते । अत्र गोत्रसंज्ञां बाधित्वा युवसंज्ञाविधानम् भवति । युवसंज्ञायाः विषये केचन बिन्दवः स्मर्तव्याः - 1. ‘युव’संज्ञाविधानम् नित्यम् गोत्रसंज्ञां बाधित्वा एव भवति । इत्युक्ते, यदि अर्जुनः / अभिमन्युः / परीक्षितः - एतेषु कोऽपि जीवितः अस्ति, तर्हि जनमेजयः अर्जुनस्य ‘युवापत्यम्’ अस्ति इत्येव वक्तव्यम्, न हि ‘गोत्रापत्यम्’ इति । अस्मिन् सूत्रे ‘तु’ इति ग्रहणम् एतत् स्पष्टीकर्तुमेव कृतमस्ति । ‘वंश्ये जीवति पौत्रप्रभृतेः अपत्यम् (गोत्रं न, परन्तु तत्) तु युवा’ इति आशयः । 2. अनेन सूत्रेण ‘प्रपौत्रादीनाम्’ एव युवसंज्ञा भवितुमर्हति, ‘पौत्रस्य’ न । अतः, यद्यपि अर्जुनः जीवितः अस्ति तथापि परीक्षितः अर्जुनस्य युवापत्यम् न भवितुमर्हति, यतः परीक्षितः अर्जुनस्य ‘पौत्रः’ अस्ति, प्रपौत्रः न । 3. अस्मिन् सूत्रे अपत्यं पौत्रप्रभृति गोत्रम् इत्यस्मात् ‘पौत्रप्रभृति’ इति अनुवर्तते, तत् षष्ठ्या च विपरिणम्यते । अतः ‘पौत्रप्रभृतेः’ इति प्रयोगः सम्पूर्णसूत्रे क्रियते । ‘युवा’संज्ञायाः प्रयोगः गोत्राद्यून्यस्त्रियाम् (4.1.94) इत्यत्र कृतः अस्ति ।

Vasu English Summary

But when one in a line of descent beginning with a father (and reckoning upwards) is alive, the descendant of a grandson or still lower descendant is called युवन् only.

Vasu English Translation

But when one in a line of descent beginning with a father (and reckoning upwards) is alive, the descendant of a grandson or still lower descendant is called युवन् only. The word वंश means an uninterrupted series of family descent-or ‘a line’. One who occurs in such a line, like father &c, is called वंश्य ॥ When such a vansya is alive, then the descendant of a grandson &c is called Yuvan. The phrase पौत्रप्रभृतपत्य in the sutra should be construed as पौत्रप्रभृतेर् यद् अपत्यम्. ‘He who is the descendant of a grandson &c’ In the last sutra, however, this phrase पौत्रप्रभृत्यपत्यं was properly construed by putting the word पौत्रप्रभृति in the case of apposition with अपत्यम् meaning “a descendant being a grandson &c.” Thus the word Yuvan will be applied to a person who is at least fourth in the order of descent, from the propositus with reference to whom the derivative is made. Thus गर्गः being the head, we have गर्गः

  • अपत्यम् - गार्गिः (son or putra)

  • अपत्यम् - गार्ग्यः (Gotra)

  • अपत्यम् - गार्ग्यायणः (Yuvan)

(if Garga or Gargi &c be alive). The force of the word तु, in the sutra is that it will be called Yuvan only, and not Gotra as well.

Bhashya

जीवति तु वंश्ये युवा (1409) (युवसंज्ञाधिकरणम्) (5316 अनुवृत्तिसूचकवार्तिकम्॥ 1 ॥) - जीवति तु वंश्ये युवेति पौत्रप्रभृत्यपेक्षं च - (भाष्यम्) जीवति तु वंश्ये युवेति पौत्रप्रभृत्यपेक्षं चेति वक्तव्यम्॥ तत्तर्हि वक्तव्यम्। न वक्तव्यम्, पौत्रप्रभृतीति वर्तते। एवं तर्हि अन्वाचष्टे पौत्रप्रभृतीति वर्तत इति। किमेतस्यान्वाख्याने प्रयोजनम्? (5317 अनुवृत्तिफलप्रदर्शकवार्तिकम्॥ 2 ॥) - तच्च दैवदत्त्यर्थम् - (भाष्यम्) देवदत्तस्यापत्यं दैवदत्तिरिति, अनन्तरं यदपत्यं तत्र युवसंज्ञा मा भूदिति। (अनुवृत्तौ दोषनिरासभाष्यम्) देवदत्तस्य तर्हि पौत्रे युवसंज्ञा प्राप्नोति, एतदपि पौत्रप्रभृति भवति। न पौत्रप्रभृतीत्यनेनापत्यमभिसंबध्यते -पौत्रप्रभृति यदपत्यमिति। किं तर्हि? वंश्योऽभिसंबध्यते -पौत्रप्रभृति वंश्ये जीवति यदपत्यमिति। एवमपि देवदत्तस्य द्वौ पुत्रौ, तयोः कनीयसि युवसंज्ञा प्राप्नोति -भ्रातरि च ज्यायसि (4.1.164) इति। एवं तर्ह्यपत्यमेवाभिसंबध्यते न तु पौत्रप्रभृतिसमानाधिकरणमपत्यम्। नैवं विज्ञायते -पौत्रप्रभृति यदपत्यमिति। कथं तर्हि? पौत्रप्रभृतेर्यदपत्यमिति॥ (5318 युवसंज्ञाविधिवार्तिकम्॥ 3 ॥) - वृद्धस्य च पूजायाम् - (भाष्यम्) वृद्धस्य च पूजायां युवसंज्ञा वक्तव्या। तत्र भवन्तो गार्ग्यायणाः, तत्रभवन्तो वात्स्यायनाः। का पुनरिह पूजा? युवत्वं लोके इर्प्सितं पूजेत्युपचर्यते। तत्रभवन्तश्च युवत्वेनोपचर्यमाणाः पूजिता भवन्ति॥ (5319 पूर्ववार्तिकप्रत्याख्याने वार्तिकम्॥ 4 ॥) - आपत्यो वा गोत्रम् - (भाष्यम्) अथवा -आपत्यो गोत्रसंज्ञो भवतीति वक्तव्यम्॥ (5320 प्रत्याख्यानोपयोगिवार्तिकम्॥ 5 ॥) - परमप्रकृतेश्चापत्यः - (भाष्यम्) परमप्रकृतेश्चापत्यो भवतीति वक्तव्यम्। (5321 प्रत्याख्यानोपयोगिवार्तिकम्॥ 6 ॥) - आपत्याज्जीवद्वंश्यात्स्वार्थे द्वितीयो युवसंज्ञः - (भाष्यम्) आपत्याज्जीवद्वंश्यात्स्वार्थे द्वितीयः प्रत्ययः स च युवसंज्ञो भवतीति वक्तव्यम्॥ (5322 प्रत्याख्यानोपयोगिवार्तिकम्॥ 6 ॥) - स चास्त्रियाम् - (भाष्यम्) स चास्त्रियां भवतीति वक्तव्यम्॥ (5323 लाघवबोधकवार्तिकम्॥ 7 ॥) - एको गोत्रग्रहणानर्थक्यं च - (भाष्यम्) एवं च कृत्वा एको गोत्रग्रहणमनर्थकं भवति॥ (5324 प्रत्याख्यानेनेष्टसाधकं वार्तिकम्॥ 8 ॥) - बहुवचनलोपिषु च सिद्धम् - (भाष्यम्) बहुवचनलोपिषु च सिद्धं भवति। तत्र बिदानामपत्यं माणवक इति विगृह्य बिदशब्दाद् द्व्येकयोरुत्पत्तिर्भविष्यति -बैदः, बैदौ॥ बैदस्यापत्यानि बहवो माणवका इति विगृह्य बिदशब्दाद्वहुषूत्पत्तिर्भविष्यति -बिदा इति॥

Kashika

अभिजनप्रबन्धो वंशः। तत्र भवो वंश्यः पित्रादिः। तस्मिन् जीवति सति पौत्रप्रभृत्यपत्यं युवसंज्ञं भवति। पौत्रप्रभृतीति च न सामानाधिकरण्येनापत्यं विशेषयति। किं तर्हि? षष्ठ्या विपरिणम्यते पौत्रप्रभृतेर्यदपत्यमिति। तेन चतुर्थादारभ्य युवसंज्ञा विधीयते। गार्ग्यायणः। वात्स्यायनः। तुशब्दोऽवधारणार्थः — युवैव न गोत्रमिति॥

Siddhanta Kaumudi

वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसंज्ञमेव न गोत्रसंज्ञम् ॥

Laghu Siddhanta Kaumudi

वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसंज्ञमेव स्यात्॥

Balamanorama

जीवति तु वंश्ये युवा - जीवति । वंशः — उत्पादकपित्रादिपरम्परा । तत्र भवो वंश्यः । दिगादित्वाद्यत् । तदाह — वंश्ये पित्रादौ जीवतीति । जीवतीति सप्तम्यन्तम् । पौत्रादेरिति । पूर्वसूत्रात्पौत्रप्रभृति इत्यनुवृत्तं षष्ठआ विपरिणम्यत इति भावः । यदपत्यमिति ।तस्यापत्य॑मित्यतस्तदनुवृत्तेरिति भावः । तुरवधारणे युवेत्यनन्तरं द्रष्टव्यः । तदाह — युवसंज्ञमेनेति । तेन एकसंज्ञाधिकारबहिर्भावेऽपि गोत्रसंज्ञाया अपि अस्मिन्न समावेश इति भावः । युवसञ्ज्ञया सहगोत्रसंज्ञायाः समावेशे तु शालङ्का इति पैलीया इति च न स्यात् । शलङ्कुः कश्चित्, तस्य गोत्रापत्यं शालङ्किः । इञ् । पैलादिगणे शालङ्कीति पाठात्प्रकृतेः शलङ्कादेशश्च । शालङ्केरपत्यं युवापि शालङ्किरेव ।यञिञोस्चे॑ति फक् ।पैलादिभ्यश्चे॑ति तस्य लुक् । शालङ्केर्यूनछात्रा इत्यर्थेइञश्चे॑त्यणि ‘शालङ्का’ इति रूपम् । तथा पीलाया गोत्रापत्यं पैलः । ‘पीलाया वा’ इत्यण् । पैलस्यापत्यं युवापि पैल एव । ‘अणो द्व्यचः’ इति फिञ् ।पैलादिभ्यश्चे॑ति तस्य लुक् । पैलस्य यूनश्छात्र इत्यर्थे वृद्धाच्छः । ‘पैलीया’ इति रूपम् । युवगोत्रसंज्ञयोः समावेशे तु ‘गोत्रेऽलुगचि’ इति फक्फिञोरलुक्प्रसज्येतेत्यलम् ।

Tattvabodhini

जीवति तु वंश्ये युवा - जीवति तु वंश्ये । पितृपितामहाद्युत्पादकप्रबन्धो वंशः । तत्र भवो वंश्यः । दिगादित्वाद्यत् ।पौत्रप्रभृती॑त्यनुवृत्तं षष्ठआ विपरिणम्यते, व्याख्यानात्,गोत्राद्यून्यस्त्रिया॑मिति लिङ्गाच्चेत्याह -पौत्रादेरिति । तुशब्दोभिन्नक मो युवेत्यस्मात्परो बोध्यः । स च एवकारार्थ इति व्याचष्टे ।

Padamanjari

अभिजनप्रबन्धो वंश इति । अभिजनाःउपित्रादयः, अभिजायन्ते येभ्यः पुत्रादय इति कृत्वा । प्रबन्धःउसन्तानः । तत्र भवो वंश्य इति । दिगादित्वाद्यत् । पौत्रप्रभृत्यपत्यमिति षष्ठीसमासः, यद्यत्रापि पूर्ववत्’पौत्रप्रभृति’ इत्येतत्सामानाधिकरण्येनापत्यं विशेषयेत्, तृतीयस्यापि जीवद्वंश्यस्य युवसंज्ञा स्यात्; तत्र को दोषः ? युवसंज्ञया गोत्रसंज्ञाया बाधितत्वाद्गर्गादिभ्यो यञ् स्यात्, न कश्चिदपत्यप्रत्ययः । किं कारणम् ? गोत्रादेव यूनीति नियमात्, नानन्तरान्न मूलप्रकृतेः । तस्माद्वाक्येनैवाभिधानं प्राप्नोति - गर्गस्यापत्यं गार्गेरपत्यमिति । एतेनोपगोस्तृतीयो जीवद्वंश्यो व्याख्यातः, तस्माद्वैयधिकरण्येन विशेषणमित्याह - पौत्रप्रभृतीति । षष्ठी विपरिणम्य इति । अत्र च व्याख्यानमेव शरणम् । तुशब्दोऽवधारणार्थ इति । अनेकार्थत्वान्निपातानां भिन्नक्रमो युवशब्दानन्तरं द्रष्टव्य इत्याह - युवैव भवति, न गोत्रमिति । असत्यवधारणे एकसंज्ञाधिकारादन्यत्र संज्ञायां समावेशाभ्युपगमात्कृत्यप्रत्ययसंज्ञानामिव गोत्रयुवसंज्ञयोः समावेशः स्यात् । अस्तु, को दोषः ? यस्कस्यापत्यं गोत्रम्’शिवादिभ्यो’ ण्ऽ तदन्ताद्यौउनि ठणो द्व्यचःऽ इति फिञ्, वृद्धौ, यस्येति लोपे कृते यास्कायनिरिति । बहुषु’यस्कादिभ्यो गोत्रे’ इति फिञो लुक् प्रसज्येत; एकदेशविकृतस्यानन्यत्वात् । यस्कादिभ्योऽनन्तरस्य गोत्रप्रत्ययस्थ लुगुच्यते, न चात्रानन्तरः फिञ् । शिवाद्यणो यस्येति लोपः, तस्य पूर्वस्मादपि विधौ स्थानिवद्भावाद्यस्कादिभ्योऽनन्तरस्य विहितस्येति वा विज्ञास्यते । इह च कण्वस्यापत्यं काण्व्यः, तस्यापत्यं युवा काण्व्यायनः, तस्यच्छात्त्राः काण्वायनीया इति,’कण्वादिभ्यो गोत्रे’ इत्यण् न भवति, कण्वादिभ्यः परो योऽनन्तरो यो वा तेभ्यो गोत्रे विहितस्तदन्तादित्याश्रयणात् । इह च औपगवस्यापत्यमौपगविरिति’गोत्राद्यौउनि’ इति प्रतिपदविधानात्, ठेको गोत्रेऽ इति नियमो बाधिष्यते । यदि बाध्यते, औपगवेर्यूनोऽपत्यमिति चतुर्थस्य यूनो गोत्रत्वात्पञ्चमे यूनि फक् प्राप्नोति ? नैष दोषः; पञ्चमे यूनि विवक्षिते उत्पन्नस्येञः यूनि’लुक्’ इति लुकि कृते औपगवशब्दादणन्तात्पुनरपीञेव भविष्यति । इह तर्हि दाक्षेरपत्यं दाक्षायणस्यापत्यमित्यर्थविवक्षायाम्’फक्फिञोरन्यतरस्याम्’ इति फको लुगभावपक्षे तदन्तादिञ् प्राप्नोति ? किञ्च औपगवेरपत्यमित्यत्रापि लुप्तेऽपीञि प्रत्ययलक्षणेन फक्प्राप्नोति ? एवं तर्हि’गोत्राद्यौउनि’ इत्यत्र एकग्रहणनुवर्तिष्यते, तेनानेकः प्रत्ययो न भविष्यति । यस्तर्हि’गोत्रे’ लुगचिऽ इत्युलक् सोऽत्रीणां यूनां छात्र इत्यादौ प्राप्नोति, यूनोऽपि गोत्रत्वात् ? प्राप्नोतु, तं बाधित्वा परत्वाद्यौउनि लुग्भविष्यति ? नैवं शक्यम्, फक्फिञोर्हि दोषः स्यात् - शालङ्केरपत्यं शालङ्किः, पैलादिषु पाठादिञ् शलङ्कादेशश्च, ततः शालङ्केरपत्यं युवा’यञिञोश्च’ इति फक्,’पैलादिभ्यश्च’ इति लुक्, ततः शालङ्केर्यूनश्छात्रा इति प्राग्दीव्यतीयार्थविवक्षायाम्’गोत्रे’ लुगचिऽ इति पैलादिषु लुकः प्रतिषेधे सति’यूनिलुक्’ इति लुकि नित्ये प्राप्ते’फक्फिञोरन्यतरस्याम्’ इति पक्षे फकः श्रवणप्रसङ्गः । असत्यां तु यूनो गोत्रसंज्ञायाम्’गोत्रे’ लुगचिऽ इत्यस्याप्रवृतौ पैलादिषु लुग्भवत्येव ।’फक्फिञोरन्यतरस्याम्’ इत्ययं तु विकल्पोः यूनि’लुक्’ इत्यस्यानन्तरस्य, न तु पैलादिषु लुको व्यवहितस्यान्तरङ्गस्य, तत ठिञश्चऽ इत्यण् - शालङ्का इति भवति । तथा पीलाया अपत्यम्,’पीलाया वा’ इत्याण्, पैलः, तस्यापत्यं युवा, ठणो द्व्यचःऽ इति फिञ्, तस्य’पैलादिभ्यश्च’ इति लुक्, ततः पैलस्य यूनश्छात्त्राः पैलीया इति ॥

Nyaas

अभिजनप्रबन्धः इति। अभजनाः = पितामहादयः, प्रबन्धः = सन्तानः, तत्र भवो वंश्य इति दिगादित्वाद्यत्। पौत्रप्रभृत्यपत्यम् इति। षष्ठीसमासः। पौत्रप्रभृतीति च इत्यादि। यदि पौत्रप्रभृतीत्येतत् सामानाधिकरण्येनापत्यं विशेषयेत् पौत्रप्रभृति यदपत्यमिति तदारभ्य युवसंज्ञा स्यात्, तच्चानिष्टम्। तस्मान्नैतत् सामानाधिकरण्येनापत्यस्य विशेषणम् किं तर्हि? अर्थाद्विभवनक्तविपरिणामे कृते षष्ठन्ततामापन्नं वैयधिकरण्येन पौत्रप्रभृर्यदपत्यमिति, तथा सति यदिष्टं सम्पद्यते तद्दर्शयितुमाह - तेन इत्यादि। यत एवं विभक्तिविपरिणामे कृते पौत्रप्रभृतीत्यनेन षष्ठन्तेनापत्यं विशेष्यते तेन चतुर्थादारभ्य युवसंज्ञा विधीयते, तस्य च विभक्तपरिणामस्यापत्यं हेतुः। अपत्यशब्दो हि सम्बन्धिशब्दत्वनाद्धेत्वाद्यपेक्षते,तत्र षष्ठआ हेतुर्भवति। सन्निहितत्वाच्च। पौत्रप्रभृति तस्येत्येतदेवापेक्षते, ततस्तत्रैव षष्ठीं प्रकल्पयति।यदि तह्र्रपत्यग्रहमसामर्थ्यात् पौत्रप्रभृतेः षष्ठीविपरिणामो भवति, पूर्वसूत्रेऽपि कस्मान्न भवति? तत्र प्रथमाया अनवकाशत्वात्। पूर्वसूत्रे ह्रकृतार्था प्रथमा, ततो न शक्यते तस्याः षष्ठीं विपरिणमयितुम्। इह तु कृतार्था शक्यते षष्ठीभावेन विपरिणमयितुम्। गाग्र्यायणः इति। इह युवसंज्ञायां सत्यां गोत्राद्यून्यस्त्रियाम् (4.1.94) इति गोत्रप्रत्ययान्ताद्यूनि प्रत्ययो भवति। तु शब्दोऽवधारणार्थः इति। कः पुनः संज्ञासमावेशे दोषः कथ्यते? शालङ्केरपत्यं युवा यञिञोश्च (4.1.101) इति फक्, पैलस्यापत्यं युवा अणो द्व्यचः (4.1.156) इत फिञ्,तयोः पैलादिभ्यश्च (2.4.59) इति लुगुच्यते - शालङ्किर्युवा, पैलो युवेति। यदि च गोत्रयुवसंज्ञयोः समावेशः स्यात् तदा शालङ्केर्यूनश्छात्रा इत्यर्थविवक्षायां प्राग्दीव्यतीयेऽजादौ प्रत्यये विषयभूते गोत्रादयः गोत्रेऽलुगचि (4.1.89) इत्यलुक् स्यात्। ततस्तस्माद्यूनो गोत्रसंज्ञा मा भूदित्यवधारणार्थस्तुशब्दः क्रियते॥

Prakriyasarvasvam

sutra_text: जीवति तु वंश्ये युवा वंश्ये पित्रादौ जीवति पौत्रादेरपत्यं चतुर्थादि युवसंज्ञं न गोत्रसंज्ञम् ॥

Vartika

वृद्धस्य च पूजायाम् ।