41177: अतश्च¶
Padacheda: अतः | S | 6 | 1 |
च | S | 0 | 0 |
Sutrartha¶
‘अ’ इति तद्राजप्रत्ययस्य स्त्रीत्वे विवक्षिते लुक् भवति ।
Vasu English Summary¶
In forming the feminine of a word which ends in the masculine in the तद्राजा affix अ , the affix is लुक् elided.
Vasu English Translation¶
In forming the feminine of a word which ends in the masculine in the तद्राजा affix अ , the affix is लुक् elided. Thus m. शौरसेनः, f. शूरसेनी; m. माद्रः j. मद्री ॥ The word अतः of the sutra should not be construed by the rule of tadanata vidhi (1.1. 72). If so construed it will mean “a Tadraja affix ending in अ is elided”. There have been taught five Tadraja affixes, namely ‘an अ)’, ‘an (अ)’, ‘nyan (य)’, ‘nya (य)’ and ‘in (इ)’. Of these the first four all end in अ; therefore all these four affixes should be elided in the feminine. But this is not the meaning of the author; for had it been so, there would have been no necessity of the previous sutra, for then the present sutra would have covered the case of ‘Avanti’, ‘Kunti’ and ‘Kuru’. But the very fact of this sutra (4.1.176) indicates by ज्ञापक, that the tadanta vidhi does not apply here. Therefore, the feminine of आम्बष्ठ्यः is आम्बष्ठ्या, of सौवीर्यः is सौवीर्या ॥
Bhashya¶
1423 अतश्च (अलक्ष्यवारणपरभाष्यम्) इह कस्मान्न भवति -आम्बष्ठ्या, सौवीर्या? अत इत्युच्यते, नैषोऽकारः। तदन्तविधिना प्राप्नोति। अत उत्तरं पठति - (5331 तदन्ताग्रहणवार्तिकम्॥ 1 ॥) - अत इति तदन्ताग्रहणमवन्त्यादिभ्यो लुग्वचनात् - (भाष्यम्) अत इति तदन्तस्याग्रहणम्। किं कारणम्? अवन्त्यादिभ्यो लुग्वचनात्। यदयमवन्त्यादिभ्यो लुकं शास्ति, तज्ज्ञापयत्याचार्यः -नात्र तदन्तविधिर्भवतीति॥ (सूत्रांशपूरकभाष्यम्) पर्श्वादिभ्यो लुग्वक्तव्यः। पर्शूः,रक्षाः, असुरी॥ (5332 अन्यथासिद्धिसाधकवार्तिकम्॥ 2 ॥) - यौधेयादिप्रतिषेधो ज्ञापकः पर्श्वादिलुकः - (भाष्यम्) यदयं न प्राच्यभर्गादियौधेयादिभ्यः (4.1.178) इति प्रतिषेधं शास्ति, तज्ज्ञापयत्याचार्यः -भवति पर्श्वादिभ्यो लुगिति॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये चतुर्थस्याध्यायस्य प्रथमे पादे चतुर्थमाह्निकम्॥ पादश्च समाप्तः॥
Kashika¶
स्त्रियामित्येव। अकारप्रत्ययस्य तद्राजस्य स्त्रियामभिधेयायां लुग् भवति। तकारो विस्पष्टार्थः। शूरसेनी। मद्री। दरत्। अवन्त्यादिभ्यो लुग्वचनात् तदन्तविधिरत्र नास्ति, तेनेह न भवति — आम्बष्ठ्या। सौवीर्या॥
Siddhanta Kaumudi¶
तद्राजस्याकारस्य स्त्रियां लुक् स्यात् । शूरसेनी । मद्री । कथं माद्रीसुतौ इति । ह्रस्व एव पाठः इति हरदत्तः । भर्गादित्वं वा कल्प्यम् ॥
Balamanorama¶
अतश्च - अतश्च । तद्राजस्याकारस्येति । ‘अत’ इति तद्राजविशेषणम् । तद्राजात्मकस्य अकारस्येत्यर्थः । शूरसेनीति । अञो लुकि प्रत्ययलक्षणमाश्रित्य अपत्यप्रत्ययान्तत्वेन जातित्वान्ङीष् ।न लुमते॑ति निषेधस्तु न, ङीष्विधेरङ्गकार्यत्वाऽभावात् । एवं मद्री ।
Tattvabodhini¶
अतश्च - अतश्च । इद तद्राजेन अकारो विशेष्यते, न त्वकारेण तद्राजः । विशेषणेन तदन्तविधौ ञ्यङ्ण्यादीनामप्यदन्ततद्राजत्वादनेनैव लुकि सिद्धे अवन्तिकुन्तिकुरुभ्यो लुग्विधायकस्यस्त्रियामवन्ती॑ति सूत्रस्य वैयथ्र्यापत्तेः । न चेष्ट#आपतिः, कौसल्येति रूपाऽसिद्धिप्रसङ्गादतो व्याचष्टे ।
Padamanjari¶
तकारो विस्पष्टार्थं इति । असति हि तस्मिन् ठस्यऽ इति निर्देशः स्यात्, ततश्च सन्देहः स्यात् - किमयं वर्णनिर्देशः ? आहोस्विदिदम इति ? इदमश्च निर्देशेऽनन्तरस्येञो लुक् प्रसज्येत, तकारे सत्येष दोषो न भवति, तपरनिर्देशस्य भूयसा वर्णेष्वेव प्रसिद्धत्वात्’तपरस्तत्कालस्य ‘ इति संज्ञाकरणाच्च । कथं’माद्रीसुतौ पुष्पफले समृद्धे’ इति ? स्वच्छन्दवाच ऋषयः, मद्रीसुतावित्येव वा पाठ।ल्म् । अवन्त्यादिभ्यो लुग्वचनादिति । यद्यत्र तदन्तविधिः स्यादवन्त्यादिभ्यो लुग्वचनमनर्थकं स्याद्; अनेनैव सिद्धत्वात् । तदन्तविधौ त्वसति अकारमात्रस्य ग्रहणेन सिध्यतीत्यवन्त्यादिभ्यो लुग्वचनमर्थवद् भवति ॥
Nyaas¶
तकारो विस्पष्टार्थः इति। तकारे ह्रसति अस्य इति निर्देशेन भवितव्यम्, ततश्च समानत्वान्निर्देशस्य सन्देहः स्यात् - किमयवमवर्णस्य निर्देशः? आहोस्तवित् इदमः? इति। तकारे तु सत्येष दोषो न भवति; तपरस्य वणष्वेव प्रसिद्धत्वात्। दीर्घनिवृत्त्यर्थस्तु तकारो न भवति, दीर्घस्यासम्भवात्। सूरसेनी। मद्री इति। सूरसेनाशब्दाद्योऽञ्, म्दरशब्दाद्यो द्व्यज्लक्षणोऽण् - तयोर्लुकि कृते जातेरस्त्रीविषयादयोपधात् (4.1.63) इति ङीष्। दरत् इति। दरच्छब्दाद् द्व्यञ्मगधलक्षणस्याणो (4.1.168) लुक्।यदि अतः इति वर्णस्येदं ग्रहणम्, एवंसति वर्णग्रहमं तदन्तविधिं प्रयोजयतीतीहापि प्राप्नोति - आम्बषष्ठआ, सौवीर्या इति? अत आह - अवन्त्यादिभ्य लुक् इत्यादि। यद्यत्र तदन्तविधिः स्यादवन्त्यादिभ्यो लुग्वचनमनर्थकं स्यात्; अनेनैव सिद्धत्वात्। तदन्तविधावसत्यकारग्रहणमात्रेण न सिध्यतीत्यवन्त्यादिभ्यो लुग्वचनमनर्थवद्भवति॥
Prakriyasarvasvam¶
स्त्रीलिङ्गेऽकाररूपस्य तद्राजप्रत्ययस्य लुक् स्यात् । शूरसेनी । अत्राञो लुक् । मद्री । अत्र द्व्यचत्वादण् । माद्री तु चिन्त्या ॥