41171: वृद्धेत्कोसलाजादाञ्ञ्यङ्¶
Padacheda: वृद्ध-इत्-कोसल-अजादात् | S | 5 | 1 |
ञ्यङ् | S | 1 | 1 |
Sutrartha¶
‘कोसल’, ‘अजाद’ एतौ क्षत्रियवाचिनौ शब्दौ , वृद्धसंज्ञकाः क्षत्रियवाचिनः शब्दाः, तथा च इकारान्ताः क्षत्रियवाचिनः शब्दाः यदि जनपदस्य नामरूपेण अपि प्रयुज्यन्ते, तर्हि तेभ्यः ‘तस्य अपत्यम्’ अस्मिन् अर्थे ञ्यङ्-प्रत्ययः भवति ।
Vasu English Summary¶
The affix ञ्यङ् comes in the sense of descendant after a word having वृद्धि in the first syllable and after a word ending in short इ and after the words 1. कोसल and 2. अजाद when they are the names of countries and क्षत्रिय-s.
Vasu English Translation¶
The affix ञ्यङ् comes in the sense of descendant after a word having वृद्धि in the first syllable and after a word ending in short इ and after the words 1. कोसल and 2. अजाद when they are the names of countries and क्षत्रिय-s. This debars अञ् ॥ Thus, to give example of Vriddha words, आम्बष्ठ्यः सौवीर्यः ‘the sons or kings of Ambashtha and Sauvira’. Similarly to take words ending in short इ, we have आवन्त्यः and कौन्त्यः ‘the son or kings of Avanti and Kunti’. These are words ending in short इ ॥ So also कौसल्यः and आजाद्यः, which are neither Vriddhas nor end in short इ ॥
Vart:- The affix ‘dyan’ comes after the word ‘Pandu’ when it is the name of a country as well as Kshatriya tribe. Thus पांड्यः, otherwise it will be पांडवः ॥ See (4.1.74).
Kashika¶
जनपदशब्दात् क्षत्रियादित्येव। वृद्धात् प्रातिपदिकादिकारान्ताच्च कोसलाजाद — शब्दाभ्यां चापत्ये ञ्यङ् प्रत्ययो भवति। अञोऽपवादः। वृद्धात्तावत् — आम्बष्ठ्यः। सौवीर्यः। इकारान्तात् — आवन्त्यः। कौन्त्यः। कोसलाजादयोरवृद्धार्थं वचनम्। कौसल्यः। आजाद्यः। तपरकरणं किम्? कुमारी नाम जनपदसमानशब्दः क्षत्रियः, तस्यापत्यं कौमारः॥ पाण्डोर्जनपदशब्दात् क्षत्रियाड् ड्यण् वक्तव्यः॥ पाण्ड्यः॥ अन्यस्मात् पाण्डव एव। तस्य राजनीत्येव — आम्बष्ठ्यो राजा। आवन्त्यः। कौन्त्यः। कौसल्यः। आजाद्यः॥
Siddhanta Kaumudi¶
वृद्धात् । आम्बष्ठ्यः । सौवीर्यः । इत् । आवन्त्यः । कौसल्यः । अजादस्यापत्यमाजाद्यः ॥
Padamanjari¶
ड।ल्ण्वक्तव्य इति । डकारष्टिलोषार्थः, णकारो वृद्धिनिमितस्येति पुंवद्भाव प्रतिषेधार्थः । अन्यस्मादिति । गुणवचनाद्यौधिष्ठिरपितृवचनाच्च । पुरीरण्वक्तव्यः पौरव इति क्वचित्पठ।ल्ते, तत्र पुरुशब्दस्याजनपदशब्दत्वात्प्राग्दीव्यतीयेऽणि सिद्धे तद्राजसंज्ञार्थं वचनम् । जनपदवाचित्वे’द्व्यञ्मगध’ इत्येव सिद्धम् ॥
Nyaas¶
वृद्धग्रहणेनेह वृद्धिर्यस्याचामादिस्तद् वृद्धम् (1.1.73) इति गृह्रते, तस्यैव हि जनपदशब्दता क्षत्त्रियवाचित्वं च सम्भवति, न शास्त्रान्तरपरिभाषितस्य। आम्बष्ठ्यः सौवीर्यः इति। आम्बष्ठसौवीरशब्दाभ्यां ञ्यङ। आवन्त्यः, कौन्त्यः इति। अवन्तिकुन्तिशब्दाभ्यां ञ्यङ। कौमारः इत्यत्राञ् भवति। डण् वक्तव्यः इति। क्षत्त्रियञ्यङोऽपवाद इति, डकारष्टिलोपार्थ इति। स च वान्यस्मिन् सपिण्डे (4.1.165) इत्यतो मण्डूकप्लुतिन्यायेन वेत्यनुवृत्तेर्लभ्यते। तथैवमतिप्रसङ्गो भवति? व्यवस्थितविभाषात्वात् स न भविष्यति। अन्यस्मात् पाण्डवः इति। यः पाण्डुशब्दः क्षत्त्रिये वर्तते,तस्मादौत्सर्गिकेऽणि कृते पाण्डव इति भवति॥
Prakriyasarvasvam¶
वृद्धेभ्य इदन्तात् कोसलाजादशब्दाभ्यां च ञ्यङ् स्यात् । वृद्धात्, सौवीरपुत्रः सौवीर्यः । इदन्तात्, चैद्यः । आवन्त्यः । कौन्त्यः । कौसल्यः । आजाद्यः । ‘अप्रसिद्धात् पाण्डोः ड्यण् वाच्यः’ । पाण्डूनां सुतस्तेषां राजा च पाण्ड्यः ॥
Sutra Prayogas¶
कौसल्या (रघुवंशम्): वृद्धेत्कोसलाजादाञ्ञ्यङ् इति ञ्यङ्।
चैद्यं (शिशुपालवधम्): वृद्धेत्कोसलाजादाञ्ञ्यङ् इति ञ्यङ्प्रत्ययः।
कौसल्ययाऽसावि (भट्टिकाव्यम्): वृद्धेत्कोसलाजादाञ्ञ्यङ् इति कोसलय राज्ञोऽपत्यम्।