41164: भ्रातरि च ज्यायसि¶
Padacheda: भ्रातरि | S | 7 | 1 |
च | S | 0 | 0 |
ज्यायसि | S | 7 | 1 |
Sutrartha¶
पौत्रप्रभृतेः यद् अपत्यम्, तस्य पित्रादयः जीविताः न सन्ति चेदपि, यदि ज्येष्ठः भ्राता जीवितः अस्ति, तर्हि तस्य गोत्रसंज्ञां बाधित्वा युवसंज्ञा भवति ।
अपत्यं पौत्रप्रभृति गोत्रम् (4.1.162) इत्यनेन पौत्रप्रभृतीनाम् गोत्रसंज्ञायां प्राप्तायाम्, पितप्रभृतिषु यदि कोऽपि जीवितः अस्ति तर्हि पौत्रादीनाम् यद् अपत्यम्, तस्य गोत्रसंज्ञां बाधित्वा जीवति तु वंश्ये युवा (4.1.163) इत्यनेन ‘युवा’संज्ञा भवति । परन्तु यद्यपि पितप्रभृतिषु कोऽपि जीवितः नास्ति, तथापि यदि ‘ज्येष्ठभ्राता’ जीवितः’ अस्ति, तर्हि कनिष्ठभ्रातुः युवासंज्ञा भवति - इति वर्तमानसूत्रस्य आशयः । यथा - शन्तनोः अपत्यम् विचित्रवीर्यः, विचित्रवीर्यस्य अपत्यम् पाण्डुः, पाण्डोः अपत्यम् च अर्जुनः । अतः अपत्यं पौत्रप्रभृति गोत्रम् (4.1.162) इत्यनेन अर्जुनस्य ‘शन्तनोः गोत्रापत्यम्’ इति संज्ञा भवितुमर्हति । परन्तु यदि अर्जुनस्य ज्येष्ठः भ्राता (धर्मः भीमः वा) जीवितः अस्ति, तर्हि अर्जुनः ‘शन्तनोः युवापत्यमस्ति’ इत्येव उच्यते, न हि गोत्रापत्यम् । अत्र केचन बिन्दवः ज्ञातव्याः - 1. यदि वंश्यः (=पित्रादयः) जीवितः अस्ति, तर्हि जीवति तु वंश्ये युवा (4.1.163) इत्यनेनैव ‘युवा’संज्ञा विधीयते, अतः तदर्थम् वर्तमानसूत्रस्य आवश्यकता न । ‘यदि सर्वे पित्रादयः मृताः सन्ति, तर्हि पौत्रादीनां यद् अपत्यम् तस्य युवासंज्ञा भवति वा?’ इति पृष्टे एव वर्तमानसूत्रस्य प्रयोगः भवितुमर्हति । एतदेव स्पष्टीकर्तुम् काशिकाकारः वदति - ‘अवंश्यार्थः अयमारम्भः’ ।’वंश्ये कोऽपि जीवितः नास्ति चेदेव अस्य सूत्रस्य प्रयोगः भवति’ इत्याशयः । 2. अनेन सूत्रेण ‘प्रपौत्रादीनाम्’ एव युवसंज्ञा भवितुमर्हति, ‘पौत्रस्य’ न । अतः, यद्यपि भीमः जीवितः अस्ति, तथापि अर्जुनः विचित्रवीर्यस्य युवापत्यम् न भवितुमर्हति, यतः अर्जुनः विचित्रवीर्यस्य ‘पौत्रः’ अस्ति, प्रपौत्रः न । 3. . अस्मिन् सूत्रे अपत्यं पौत्रप्रभृति गोत्रम् (4.1.162) इत्यस्मात् ‘पौत्रप्रभृति’ इति अनुवर्तते, तत् षष्ठ्या च विपरिणम्यते । अतः ‘पौत्रप्रभृतेः’ इति प्रयोगः सम्पूर्णसूत्रे क्रियते ।
Vasu English Summary¶
When an elder brother is alive, the younger brother gets the title of युवन् , being the descendant of a grandson etc.
Vasu English Translation¶
When an elder brother is alive, the younger brother gets the title of युवन् , being the descendant of a grandson etc. Even when a वंश्य like father &c is not alive (and a brother is not vansya), the younger brother gets the designation of yuvan, when the elder brother is alive; thus:
गर्गः (dead) -> गार्गिः (dead) -> गार्ग्यः (dead) -> गार्ग्यः, गार्ग्यायणः
The word वंश्यः is confined to ancestors like father &c, so a brother can never be a vansya, because he is not the source from which the other brother arises. This sutra applies to cases when Vansya is not meant. Thus Gargyayna is the name of the younger brother with reference to the elder brother, Gargya; similarly Vatsyayana, Dakhsayana, and Plakshayana.
Kashika¶
भ्रातरि ज्यायसि जीवति कनीयान् भ्राता युवसंज्ञो भवति पौत्रप्रभृतेरपत्यम्। गार्ग्यस्य द्वौ पुत्रौ, तयोः कनीयान् मृते पित्रादौ वंश्ये भ्रातरि ज्यायसि जीवति युवसंज्ञो भवति। अवंश्यार्थोऽयमारम्भः। पूर्वजाः पित्रादयो वंश्या इत्युच्यन्ते। भ्राता तु न वंश्यः, अकारणत्वात्। गार्ग्ये जीवति गार्ग्यायणोऽस्य कनीयान् भ्राता। वात्स्यायनः। दाक्षायणः। प्लाक्षायणः॥
Siddhanta Kaumudi¶
ज्येष्ठे भ्रातरि जीवति कनीयान् चतुर्थादिर्युवा स्यात् ॥
Balamanorama¶
भ्रातरि च ज्यायसि - भ्रातरि च ज्यायसि । जीवतीत्यनुवर्तते । तदाह — ज्येष्ठे भ्रातरि जीवति कनीयानिति । अनुज इत्यर्थः ।पौत्रप्रभृती॑त्यनुवृत्तं षष्ठआविपरिणम्यते । अपत्यमित्यधिकृतम् । पौत्रादेरपत्यमित्यर्थः । फलितमाह — चतुर्थादिरिति । मृतेष्वपि पित्रादिषु ज्येष्ठे भ्रातरि जीवति युवसंज्ञार्थमिदम् ।
Padamanjari¶
कनीयान् भ्रातेति । भ्रातृज्यायः - शब्दयोः सम्बन्धिशब्दत्वादयमर्थो लभ्यते । अकारणत्वादिति । यः साक्षात्परम्परया वा कारणं भवति, स लोके’वंश्य’ इत्युच्यते । गार्ग्ये जीवतीति । ज्यायसि भ्रातरि जीवतीत्यर्थः । एवं वात्स्यायनादावपि द्रष्टव्यम् ॥
Nyaas¶
भ्रातृशब्दस् सम्बन्धिशब्दत्वाद्यदपेक्षं भ्रातृत्वं मेव भ्रातरं संज्ञित्वेनोपक्षिपति। ज्यायानिति प्रशस्यतरोवृद्धतरश्चाभिधीयते। तस्य च ज्यायस्त्वं गुणैर्वयसा वा। युवानं प्रतियोगिनमपेक्ष्य भवतीति स एव ज्यायसीत्यनेन प्रतियोगी प्रत्युपस्थाप्यते। तेन भ्रातुरेव कनीयसः संज्ञा विज्ञास्यत इति मत्वाह - कनीयान् भ्रातः यवसंज्ञो भवति इति। पूर्वजाः इत्यादिना अवंश्यार्थतामारम्भस्य समर्थयते। अकारणत्वात् इत्यनेनापि भ्रातुरवंश्यत्वम्। यो हि साक्षात् पारम्पर्येण वा कारणं स वंश्यः, न च भ्राता कारणम्, तस्मादसौ वंश्यो न भवतीति॥ गार्ग्ये जीवति भ्रातरि जीवतीत्यर्थः। एवं वात्स्ये जीवति वात्स्यायनोऽस्य कनीयान् भ्राता, दाक्षौ जीवति दाक्षायणोऽस्य कनीयान् भ्राता वेदितव्यः॥
Prakriyasarvasvam¶
ज्येष्ठभ्रातरि जीवति कनीयान् युवसंज्ञः । पित्रादौ मृतेऽपि अग्रजे जीवति अनुजो गार्ग्यायणः स्यात् ॥