41162: अपत्यं पौत्रप्रभृति गोत्रम्¶
Padacheda: अपत्यम् | S | 1 | 1 |
पौत्र-प्रभृति | S | 1 | 1 |
गोत्रम् | S | 1 | 1 |
Sutrartha¶
पौत्रप्रभृतीनि अपत्यानि गोत्रसंज्ञकानि भवन्ति ।
अनेन सूत्रेण अपत्याधिकारविशिष्टा ‘गोत्र’ इति संज्ञा पाठ्यते । पौत्रप्रभृतिः यद् अपत्यं, तद् ‘गोत्र’संज्ञं भवति - इति अस्य सूत्रस्य आशयः । ‘पौत्रप्रभृति’ इत्युक्ते पौत्रात् आरभ्य अग्रिमः वंशः - पौत्रः, प्रपौत्रः, प्रप्रपौत्रः - आदयः । उदाहरणमेकं पश्यामश्चेत् स्पष्टं भवेत् - पाण्डोः पुत्रः अर्जुनः । अर्जुनस्य पुत्रः अभिमन्युः । इत्युक्ते , अभिमन्युः पाण्डोः ‘पौत्रः’ । अतः अभिमन्युः पाण्डोः ‘गोत्रापत्यम्’ इत्यपि वक्तुं शक्यते (गोत्रसंज्ञकः यः, तस्य ‘गोत्रापत्यम्’ इति निर्देशः भवति) । अभिमन्योः पुत्रः परीक्षितः, सः पाण्डोः प्रपौत्रः, अतः सः अपि पाण्डोः गोत्रापत्यमेव । तथैव, परीक्षितस्य पुत्रः जनमेजयः अपि पाण्डोः गोत्रापत्यमेव । जनमेजयः तु अर्जुनस्य अभिमन्योः अपि गोत्रापत्यम् । ‘गोत्र’संज्ञायाः विषये केचन बिन्दवः ज्ञातव्यः । 1. यत् ‘साक्षात्’ अपत्यम्, तस्य गोत्रसंज्ञा न भवति । यथा, अर्जुनः पाण्डोः गोत्रापत्यम् न । तथैव, अभिमन्युः अर्जुनस्य गोत्रापत्यम् न । एतादृशं यत् ‘साक्षात्’ अपत्यम्, तस्य ‘अनन्तरापत्यम्’ इति काचन संज्ञा व्याख्यानेषु दीयते । अतः ‘अर्जुनः पाण्डोः अनन्तरापत्यम्’ इत्युच्यते । तथैव, अभिमन्युः अर्जुनस्य ‘अनन्तरापत्यम्’ । ‘यत् साक्षात् अपत्यमस्ति, तत् अनन्तरापत्यम्; यत् पौत्रादयमपत्यम् , तत् गोत्रापत्यम्’ इति अस्य आशयः । 2. स्वस्य ‘साक्षात् अपत्यस्य पुत्रादयः’ एव गोत्रसंज्ञकाः भवन्ति, स्वस्य बन्धोः भगिन्याः वा पुत्रादयः न । यथा, अभिमन्योः पुत्रः परीक्षितः सुभद्रायाः गोत्रापत्यमवश्यमस्ति, परन्तु कृष्णस्य गोत्रापत्यम् न, यतः सः कृष्णस्य स्वस्य पौत्रः नास्ति, अपितु कृष्णस्य भगिन्याः पौत्रः अस्ति । 3. कासुचन स्थितिषु ‘गोत्रापत्यम्’ इमां संज्ञां बाधित्वा ‘युवापत्यम्’ इति काचन संज्ञा विधीयते । अस्मिन् विषये जीवति तु वंशे युवा (4.1.163) इति अग्रिमसूत्रे विस्तारेण उक्तमस्ति ।यत्र एतादृशी ‘युवा’संज्ञा भवति तत्र ‘गोत्र’संज्ञायाः बाधः भवति । यथा, परीक्षिते जीविते सति जनमेजयः पाण्डोः ‘युवापत्यम्’ अस्ति इत्युच्यते । अस्याम् स्थितौ जनमेजयः पाण्डोः गोत्रापत्यम् नास्तीति स्मर्तव्यम् । ‘गोत्र’संज्ञायाः प्रयोगः एको गोत्रे (4.1.93) तथा गोत्राद्यून्यस्त्रियाम् (4.1.94) इत्यत्र कृतः अस्ति ।
Vasu English Summary¶
A descendant being a grandson or a still lower offspring is called गोत्र।
Vasu English Translation¶
A descendant being a grandson or a still lower offspring is called गोत्र। When an offspring, with reference to a person, is the son’s son of that person or lower than that, it is called Gotra. Thus the son of ‘Garga’ will be गार्गिः, and the son or grandsons &c of गार्गिः with reference to Garga will be गार्ग्यः ॥ Similarly वात्स्यः ॥
Why do we say ‘a grandson or a still lower descendant’? The immediate descendants or the son will not be called Gotra. Thus कौञ्जिः, गार्गिः ॥
Bhashya¶
अपत्यं पौत्रप्रभृति गोत्रम् (1408) (गोत्रसंज्ञाधिकरणम्) (5314 सूत्रस्य न्यूनताक्षेपे वार्तिकम्॥ 1 ॥) - पौत्रप्रभृतेर्गोत्रसंज्ञायां यस्यापत्यं तस्य पौत्रप्रभृतिसंज्ञाकरणम् - (भाष्यम्) पौत्रप्रभृतेर्गोत्रसंज्ञायां यस्यापत्यविवक्षा तस्य पौत्रप्रभृतेर्गौत्रसंज्ञा भवतीति वक्तव्यम्। गर्गोऽपि हि कंचित्प्रति पौत्रः, कुशिकोऽपि, तत्र मा भूदिति॥ (वार्तिकान्यथासिद्धिपरं भाष्यम्) तत्तर्हि वक्तव्यम्। न वक्तव्यम्। समर्थानां प्रथमाद्वा (4.1.82) इति वर्तते। समर्थानां प्रथमस्य यदपत्यं पौत्रप्रभृतीति विज्ञायते॥ (5315 सिद्धान्तवार्तिकम्॥ 2 ॥) - जीवद्वंश्यञ्ञ्च कुत्सितम् - (भाष्यम्) जीवद्वंश्यं च कुत्सितं गोत्रसंज्ञं भवतीति वक्तव्यम्। गार्ग्यस्त्वमसि जाल्म, वात्स्यस्त्वमसि जाल्म इति। का पुनरिह कुत्सा? पितृतो लोके व्यपदेशवताऽस्वतन्त्रेण भवितव्यम्। य इदानीं पितृमान स्वतन्त्रो भवति स उच्यते गार्ग्यस्त्वमसि जाल्म, वात्स्यस्त्वमसि जाल्म। न त्वं पितृतो व्यपदेशमर्हसीति॥
Kashika¶
पौत्रप्रभृति यदपत्यं तद् गोत्रसंज्ञं भवति। संबन्धिशब्दत्वादपत्यशब्दस्य यस्य यदपत्यं तदपेक्षया पौत्रप्रभृतेर्गोत्रसंज्ञा विधीयते। गर्गस्यापत्यं पौत्रप्रभृति गार्ग्यः। वात्स्यः। अपत्यमिति व्यपदेशाय पौत्रप्रभृतेः। पौत्रप्रभृतीति किम् ? अन्यस्य मा भूत् — कौञ्जिः। गार्गिः। गोत्रप्रदेशाः — एको गोत्रे (४.१.९३) इत्येवमादयः॥
Siddhanta Kaumudi¶
अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंज्ञं स्यात् ॥
Laghu Siddhanta Kaumudi¶
अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंज्ञं स्यात् ॥
Balamanorama¶
अपत्यं पौत्रप्रभृति गोत्रम् - अपत्यम् । अपत्याधिकारात्सिद्धे पुनरपत्यग्रहणं व्यर्थमित्यत आह — अपत्यत्वेन विवक्षितमिति । एवंच पौत्रत्वादिना विवक्षितानां पौत्रादीनां न गोत्रसंज्ञेति भावः ।सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ॑ इति कोशतो गोत्रशब्दस्य सन्ततिवाचकत्वात्पुत्रस्यापि गोत्रत्वे प्राप्ते प्रौत्रादिग्रहणादिह शास्त्रे पुत्रस्य न गोत्रत्वम् । ननुआत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी । आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे॑ इत्यादिकोशादपत्यशब्दस्य पुत्र एव रूढत्वात्कथमम्अपत्यं पौत्रप्रभृती॑ति सामानाधिकरण्यमिति चेत्, मैवम् — अपत्यशब्दो हि नात्मजपर्यायः किंतु पुत्रपौत्रादिसंततिपर्यायः,न पतन्ति नकरे पितरो येन तदपत्य॑मितिपङ्क्तिविंशती॑ति सूत्रे भाष्ये व्युत्पादितत्वात् । तथा च पौत्रादयोऽपि पितामहादीनां नरकादुद्धर्तार इति तेषामप्यपत्यत्वमस्त्येवेति ‘एको गोत्रे’ इति सूत्रभाष्ये स्पष्टम् । एतच्च महाभारतादौ जरत्कार्वाद्युपाख्यानेषु प्रसिद्धमेव । कोशस्तु सूत्रभाष्यादिविरुद्धत्वादुपेक्ष्य एव । न चैवमपि गर्गस्य पुत्रोऽपि अङ्गिरसः पौत्रत्वाद्गोत्रं स्यादिति वाच्यं, यस्य यः पौत्रादिस्तस्य तद्गोत्रमिति व्याख्यानादित्यलम् ।
Tattvabodhini¶
अपत्यं पौत्रप्रभृति गोत्रम् - अपत्यवाचकादिति ।तस्यापत्य॑मित्यादिना विहितः प्रत्ययो यथा षष्ठन्तोपग्वादिशब्ददभ्युपगम्यते, तथा अपत्यवाचिकदेवदत्तादिशब्दात्प्रत्ययो भवत्विति शङ्का स्यात्, तद्वारणार्थं प्रथमाद्ग्रहणमावश्यकमिति भावः । ननुउपगोरपत्य॑मिति विग्रहवाक्येऽपत्यवाचकस्याऽप्राथम्येऽपिअपत्यमुपगो॑रिति वाक्ये प्राथम्यात्स्यादेवापत्यवाचकात्प्रत्यय इति चेत् । मैवम् । लक्षणापेक्षं प्राथम्यं नियतत्वादत्राश्रीयते, न तु विग्रहापेक्षमनियतम् । अन्यथाप्रथमादि॑त्येतन्निरर्थकंस्यादिति । षष्ठर्थे मामूदिति । अयमर्थः -यथा इन्द्रो देवता अस्य हविष इति ऐन्द्र॑हविरिति प्रथंमान्तात्प्रत्ययो भवति तथा उपगुरपत्यमस्य देवदत्तस्यऔपगवो देवदत्तः॑देवदत्तोऽपत्यमस्योपगोःदैवदत्तिरुपगु॑रिति माभूदिति । एतच्च कैयटे स्पष्टम्॥ नन्वपवादत्वात्तद्धितः समासं नित्यं बाधेत । न च तद्धितस्य वैकल्पिकत्वात्पक्षे सोऽपि भविष्यतीति वाच्यं,यत्रोत्सर्गापवादौ महाविभाषाया विकल्प्येते, तत्रापवादेन मुक्ते उत्सर्गो न प्रवर्तते, इतिपारेमध्ये॑इत्यत्र वाग्रहणेन ज्ञापितत्वादित्याशङ्क्याह — अन्यतरस्याङ्ग्रहणानुवृत्तोरिति । जातित्वादिति ।गोत्रं च चरणैः सहेत्येनेने॑ति शेषः । प्राचा तुअणन्तत्वान्ङी॑भित्युक्तम् । तव्द्याख्यातृभिश्चटिड्ढाणञि॑त्यनेने॑त्युक्तम् । तदुभयमपिगोत्राद्यून्यस्त्रियाम्इति सूत्रस्थभाष्यनुरोधेनगोत्रं च चरणै॑रित्यत्र कृत्रिमं गोत्रमेव गृह्रते, न त्वपत्यमात्रमित्याशयेन प्रवृत्तमिति बोध्यमित्याहुः । सूत्रस्थान्महोत्सर्गान्कमेणोदाहरति -आआपत इत्यादि । औत्स इति ।उत्सः प्ररुआवणं वारि प्रवाहो निर्झरो झरः॑इत्यमरः । तस्य टचापत्येन योगस्तुगङ्गेयो भीष्मः॑इतिवति । अपत्यं पौत्रं । नन्वपत्यग्रहणं व्यर्थं, पौत्रादेरपत्यात्वाऽव्यभिचारादित्यत आह — अपत्यत्वेन विवक्षितमिति । विवक्षितमिति किं । वस्तुतः पौत्रप्रभृत्येव यदा शेषत्वेन विवक्ष्यतेगर्गस्येद॑मिति, तदा मा भूदित्याहुः । अन्ये तु — वस्तुतः पौत्रादीनामेव तत्त्वेन विवक्षायां संज्ञा मा भूत्, अपत्यत्वेन विवक्षायामेव यथा स्यादित्येवमर्थं तत् । तेनऔपगव॑इत्यादावप्यणर्थस्य गोत्रसंज्ञा सिद्द्यति । नह्रणः पौत्रत्वादिकं शक्यतावच्चेदकं, किं त्वपत्यत्वमेव । अन्यथा गोत्राधिकारस्थायञाद्यर्थस्यैव गोत्रसंज्ञा स्यादिति । नन्वपत्याधिकारे गोत्रयुवसंज्ञाकरणसामर्थ्यादपत्यमिति लभ्यत एवेति तेनैवोक्तप्रयोजनसिद्धौ किमनेना[त्रा]पत्यग्रहणेनेति चेत् । अत्राहुः — — ॒ते तद्राजाः॑इत्यत्र तच्छब्देनजनपदशब्दात्क्षत्रियादञि॑त्यदिना विहिता येऽञादयस्त एव गृह्यन्ते न तु ततः प्राक्तनप्रत्ययाः, गोत्रयुवसंज्ञाकाण्डेन विच्छिन्नत्वादिति वक्ष्यते । तथा चापत्याधिकारपठनसामर्थ्यस्योपक्षयादपत्यस्याऽसंबन्धशङ्कानिराकरणाय पुनरपत्यग्रहणमिह कृतमिति । पौत्रप्रभृतीति किम् । अनन्तरापत्ये मा भूत् -कोञ्जि; । गार्गिः । न चैवमप्यङ्गिरसः पौत्रे गर्गस्यानन्तरे अतिप्रसङ्ग इति वाच्यं,यस्य पौत्रादि तं प्रत्येव गोत्रसंज्ञे॑ति स्वीकारात् । एवं च गार्गि प्रत्यनन्तरापत्यत्वेन विवक्षायामपि गर्गं प्रति गोत्रत्वं निष्प्रत्यूहमिति स्यादेव गर्गाद्यञिति दिक् ।
Padamanjari¶
तद्गोत्रसंज्ञं भवतीति । अपत्यमात्रस्य लोके गोत्रत्वादपत्यविशेषे गोत्रशब्दस्य नियमात्परिभाषेयं युक्ता, न संज्ञेति चेत् ? न; लिङ्गवती परिभाषा भवति, यथा - ठिको गुणवृद्धीऽ इति, विध्यन्तरशेषभूता वा, यथा -‘विप्रतिषेधे परं कार्यम्’ इति, न चेयं तथा; किञ्च वृद्ध्यादयोऽपि सर्वार्थप्रत्यायनयोग्याः संज्ञिविशेषे शक्त्यवच्छेदेन नियम्यन्ते । अथ च ताः संज्ञास्तथेयमपि भविष्यति । उक्तं च - व्यवहाराय नियमः संज्ञानां संज्ञिनि क्वचित् । नित्य एव तु सम्बन्धो डित्थादिषु गवादिवत् ॥ वृद्ध्यादीनां च शास्त्रेऽस्मिन् शक्त्यवच्छेदलक्षणः । अकृत्रिमो हि सम्बन्धो विशेषणविशेष्यवत् ॥ इति । यदि पौत्रप्रभृतेरपत्यस्य गोत्रसंज्ञा क्रियते, गर्गस्यापि प्राप्नोति, सोऽपि कञ्चित्प्रति पौत्रो भवत्येव, तत्र को दोषः ?’गोत्राद्यौउन्यस्त्रियाम्’ इति यूनि प्रत्ययप्रसङ्गः, गार्ग्यादेव तु यूनीष्यते ? नैष दोषः; इहापत्यग्रहणं न कर्तव्यम्, पौत्रस्यापत्यत्वातत्प्रभृतेरपत्यस्यैव ग्रहणं सिद्धम्, तत् क्रियते - अपत्यरूपेण प्रतिभासामानस्य यथा स्यात्, वस्तुतोऽपत्यस्य मा भूदित्येवमर्थम् । अतोऽपत्यरूपेण प्रतिभासमानस्य गर्गस्य न भविष्यति । ननु चासत्यप्यपत्यग्रहणे पौत्रप्रभृतिरूपेण प्रतिभासमानस्य संज्ञाया विज्ञानातेन रूपेणाप्रतिभासमानस्य मर्गस्य न भविष्यतीति किमपत्यग्रहणेन ! यद्येवम्, औपगवस्यापि न स्यात्, सोऽपि ह्यपत्यरूपेण प्रतिभासते, न तु पौत्रप्रभृतिरूपेण, अपत्यमात्रे प्रत्ययविधानाद् गार्ग्यादेरेव तु स्याद् - यत्र गोत्र एव प्रत्ययः । कुतश्चायमर्थो लभ्यते - पौत्रप्रभृतिरूपेण प्रतिभासमानस्येति ? तद्ग्रहणसामर्थ्यादिति चेत्, सर्वस्यापि यत्किञ्चित्प्रतिवस्तुतः पौत्रप्रभृतित्वाव्यभिचारात् पौत्रप्रभृतिग्रहणं न कर्तव्यं भवति । तद्ग्रहणसामर्थ्यादयमर्थो लभ्यत इति ? तन्न; संज्ञिनिर्देशार्थत्वादचेतनव्यावृत्यर्थत्वाच्च ।’गोत्रम्’ इत्येतावति ह्युक्ते कस्य संज्ञा स्यात्, रथादीनां च वस्तुतोऽपि पौत्रप्रभृतित्वं नास्ति । अतो वस्तुतः पौत्रप्रभृतेर्गर्गस्य मा भूत्, अपत्यरूपेण प्रतिभासमानस्य यथा स्यादित्येवमर्थं त्वपत्यग्रहणं कर्तव्यम् । सम्बन्धिशब्दत्वाच्च पौत्रप्रभृत्यपत्यशब्दयोर्यं प्रति पौत्रप्रभृतित्वमपत्यत्वं च तमेव प्रति गोत्रसंज्ञा विज्ञायते । तेनाङ्गिरसः पौत्रे गर्गस्यानन्तरे न भवति’गर्गादिभ्यो यञ्’ । तदेतत्सर्वमुक्तम् । सम्बन्धिशब्दत्वादित्यादि । यस्य यदपत्यमिति । प्रतिभासत इति भावः । तदयमत्र सूत्रार्थः - वस्तुतः पौत्रप्रभृतिरपत्यरूपेणं प्रतिभासमानोऽर्थो यं प्रत्यपत्यरूपेण प्रतिभासते यं च प्रति वस्तुतः पौत्रप्रभृतिः, तं प्रति गोत्रसंज्ञ इति । अपत्यमिति व्यपदेशायेति । संज्ञिन इति शेषः । अपत्यरूपेण प्रतिभासमानस्य संज्ञिनो व्यपदेशो यथा स्यादित्येवमर्थमित्यर्थः । इह कस्मान्न भवति - गर्गापत्यस्य तृतीयादेरपत्यमिति, अत्र हि गर्गापत्यशब्देन गर्गं प्रत्यपत्यरूपेण प्रतिभासमानस्य वस्तुतः पौत्रप्रभृतेर्गर्गं प्रति गोत्रसंज्ञायां सत्यां गर्गस्य चतुर्थे जीवद्वंश्ये’गोत्राद्यौउनि’ इति गर्गापत्यशब्दात्प्रत्ययः प्राप्नोति ? नैष दोषः; संज्ञाप्रकरण एवास्मिन्कर्तव्येऽपत्यप्रत्ययेषु विधीयमानेषु मध्ये संज्ञाकरणं प्रत्ययवाच्यस्यापत्यस्य परिग्रहार्थम् । यदिदं’तस्यापत्यम्’ इत्यारभ्य प्रत्ययार्थत्वेन निर्दिष्टमपत्यं तद्गोत्रसंज्ञमिति, तेनापत्यशब्देन प्रतिभासमानस्यापत्यस्य संज्ञा न भविष्यति । ननु च’ते तद्राजाः’ इत्यत्र तच्छब्देनाजादीनामेव परिग्रहो यथा स्यात्पूर्वेषां मा भूदिति मध्ये संज्ञाकरणं स्यात् । यद्येतावत्प्रयोजनं स्याद्, ठञादयस्तद्राजाःऽ इत्येव ब्रूयात्, तस्मादुक्तमेव साक्षात्प्रयोजनमस्मिन् प्रकरणे संज्ञाकरणस्य । स्थिते त्वेवमुक्तमपि प्रयोजनं भवत्येव, अत एव तत्र वक्ष्यति - गोत्रयुवसंज्ञा काण्डेन व्यवहितत्वादिति ॥
Nyaas¶
प्रभृतिशब्द आदिशब्दस्यार्थे। पौत्रः प्रभृतिर्यस्येति बहुव्रीहिः। यदि पौत्रप्रभृति यदपत्यं तद्गोत्रसंज्ञं भवति, गर्गस्यापि गोत्रसंज्ञा प्राप्नोति, सोऽपि कञ्चित् प्रति पौत्रो भवत्येव। सत्याञ्च गोत्रसंज्ञायां गोत्रशब्दादनन्तरापत्ये प्रत्ययो न प्राप्नोतीति चोद्यमाशङ्क्याह - सम्बन्धिशब्दत्वात् इत्यादि। गोत्रसंज्ञा ह्रपत्यस् पोत्रप्रभृतेर्विधीयते। ते च यस्चापत्यमिति सम्बन्धिशब्दोऽसौ नियोगतोऽपत्यवन्तमपेक्षत। तेन तस्य यदपत्यं तदपेक्षया गोत्रसंज्ञा विधीयते। न च यस्य गर्गः पोत्रस्तस्यासौ गर्गोऽप्तयमिति शक्यते व्यपदेष्टुम् ; अपत्यत्वस्य तत्राप्रतिभासनात्। अप्रतिभासनं पुस्तस्तस्य द्वतोऽविवक्षितत्वात्। यदपि हि तत्रापत्यत्वं तदप्यविवक्षितस्वरूपेण नाख्यातम्, ततोऽपत्यस्य पोत्रप्रभृतेर्विधीयते। अतः स्वरूपेण प्रतिभासमानो न भवति गर्गस्य गोत्रसंज्ञायाः प्रसङ्गः।गर्गस्य पौत्रप्रभृति इति। गर्गसम्बन्धि पौत्राद्यपत्यं गाग्र्य इति गोत्रसंज्ञायां सत्यां गोत्रे कुञ्जादिभ्यश्च्फञ् (4.1.98) इत्यतो गोत्र इत्यनुवर्तमाने गर्गादिभ्यो यञ् (4.1.105) इतिगोत्रेऽपत्ये यञ् भवति। अपत्यमिति व्यपदेशोऽयम् इति। संज्ञिन इति शेषः। तच्चोत्तरसूत्र इत्यभिप्रायः। इह तु पौत्रस्यापत्यत्वाव्यभिचारात् तदपत्यमेव प्रत्ययान्तैः विज्ञायत इति नार्थः संज्ञिव्यपेदशार्थेनापत्यग्रहणेन। उत्तरसूत्रे तु पौत्रप्रभृत्येतत् षष्ठन्तं विपरिणम्य पौत्रप्रभृतेः सम्बन्धिनोऽपत्यस्य युवसंज्ञेष्यते, सा चापत्यग्रहणमन्तरेण न लभ्यते। अन्यदपि ह्रपत्यात् पौत्रप्रभृतेः सम्बन्ध्यस्ति, तत्र न ज्ञायते - कस्येयं संज्ञेति? अतस्तत्र संज्ञिनो व्यपदेशाय युक्तमपत्यग्रहणमित्येके।इह तु संज्ञिव्यपेदशार्थं युक्तमपत्यग्रहणं पश्यामः। असति ह्रपत्यग्रहणे सम्ब्नधिशब्दत्वादपत्यशब्दस्येत्यादि यदुक्तं चोद्यनिरासाय तदघटमानं स्यात्। ततश्च गर्गस्यापि गोत्रसंज्ञा स्यादेव। तस्मादिहापि संज्ञिव्यपेशायापत्यग्रहणं कर्तव्यमेव, अपत्यरूपेण प्रतिभासमानस्य संज्ञा यथा स्यात्।अन्यस्य मा भूत् इति। ननु च तस्मादेव तत्प्रकृतमपत्यग्रहणं तदेव संज्ञिव्यदेशाय भविष्यति, तत् किमपरेणापत्यग्रहणेन? नैतदस्ति; तद्धि प्रत्ययार्थतया प्कृतं कथं संज्ञिनो व्यपदेशाय स्यात्; स्यादेतत् यद्यपि तत्प्रत्ययार्थे कृतं तथापि तस्येहानुवृत्तस् तत्प्रयोजनं नास्तीत्यतः संज्ञिव्यपदेशाय विज्ञास्यत इति?एतच्च नास्ति; उत्तरार्थं ह्रधिकाराणामनुवृत्तिर्दृश्यते,व्याख्यानञ्चैवं कर्तव्यं स्यात्, व्याख्यानाच्च वचनमेव लघुतरमित्यपत्यग्रहणं कर्तव्यम्। कौञ्जि-, गार्गिःर इति। अनन्तरस्य गोत्रसंज्ञाया अभावात् गोत्रे कुञ्जादिभ्यश्च्फञ् (4.1.98) , गर्गादिभ्यो यञ् (4.1.105) इति यश्च गोत्रे विधीयमानो न स भवति॥
Vartika¶
यूनश्च कुत्सायां गोत्रसंज्ञेति वाच्यम् ।