41161: मनोर्जातावञ्यतौ षुक् च¶
Padacheda: मनोः | S | 5 | 1 |
जातौ | S | 7 | 1 |
अञ्-यतौ | S | 1 | 2 |
षुक् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
‘मनु’शब्दात् जातिनिर्देशे कर्तव्ये ‘अञ्’ तथा ‘यत्’ प्रत्ययौ भवतः, तथा ‘मनु’शब्दस्य षुक्-आगमः अपि भवति ।
Vasu English Summary¶
The affixes अञ् and यत् come after the word मनु and the augment षुक् is added when these affixes follow provided that the whole word so formed denotes a जाति (class name).
Vasu English Translation¶
The affixes अञ् and यत् come after the word मनु and the augment षुक् is added when these affixes follow provided that the whole word so formed denotes a जाति (class name). Karika
अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्द्धन्यस्तेन सिद्ध्यति माणवः ॥
Thus मनु + षुक् + अञ् = मानुषः “a man or man-kind”. So also मनुष्यः formed with यत् ॥ These affixes here have not the force of Patronymics, hence they are not dropped in the plural, as मानुषाः “men”. When the descendant is to be expressed, we have the affix अण् as मनु + अण् = मानवः ‘son of Manu’, as in मानवी प्रजा ॥ So also the word माणव, there न is changed into ण and denotes the descendant of Manu, with the sense of contempt as well as dullness implied.
Bhashya¶
मनोर्जातावञ्ञ्यतौ षुक् च (1407) (अञ्ञ्यतोरधिकरणम्) (माणवशब्दसिध्यर्थं भाष्यवार्तिकम्) अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः। नकारस्य च मूर्धन्य - स्तेन सिध्यति माणवः॥ (षुकः पूर्वान्तत्वे आक्षेपभाष्यम्) यदि षुक् पूर्वान्तः क्रियते -मानुषाः, बहुषु लोपः प्राप्नोति। मानुषाणां संघः संघाङ्कलक्षणेष्वञ्ञ्यञ्ञिञ्ञामण् (4.2.127) इत्यण् प्राप्नोति॥ (परादित्वे आक्षेपभाष्यम्) अस्तु तर्हि परादिः। यदि परादिः क्रियते -मानुषी, अञ्ञन्तादितीकारो न प्राप्नोति॥ (पूर्वान्तत्वस्थापकभाष्यम्) अस्तु तर्हि पूर्वान्त एव। कथं मानुषाः, मानुषाणां संघ इति? उभयत्र लौकिकस्य गोत्रस्य ग्रहणम्, न चैतल्लौकिकं गोत्रम्। किं तर्हि? जातिः॥ इह तर्हि मानुष्यकमिति हलस्तद्धितस्य इति यलोपः प्राप्नोति। परादावप्येष दोषः। यद्वि तद्धलस्तद्धितस्येति हल्ग्रहणं न तदङ्गविशेषणं शक्यं विज्ञातुम्। इह हि दोषः स्यात् -वृकाट्टेण्यण् (5.3.115) वार्केणीति । तस्मादुभाभ्यामेव तद्वक्तव्यम् -प्रकृत्याऽकेराजन्यमनुष्ययुवान इति।
Kashika¶
मनुशब्दादञ् यत् इत्येतौ प्रत्ययौ भवतः, तत्सन्नियोगेन षुगागमः, समुदायेन चेज् जातिर्गम्यते। मानुषः, मनुष्यः। जातिशब्दावेतौ। अपत्यार्थोऽत्र नास्त्येव। तथा च मानुषा इति बहुषु न लुग् भवति। अपत्यविवक्षायां त्वणैव भवितव्यम्। मानवी प्रजा।
अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः।
नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः॥
Siddhanta Kaumudi¶
समुदायार्थो जातिः । मानुषः - मनुष्यः ॥
Balamanorama¶
मनोर्जातावञ्यतौ षुक् च - मनोर्जातौ । मनुशब्दादञ् यत् एतौ प्रत्ययौ स्तः, तयाः परयोर्मनुशब्दस्य षुगागमश्च, प्रकृतिप्रत्ययसमुदायेन जातौ गम्यायामित्यर्थः । तदाह — समुदायार्थो जातिरिति । नात्राऽपत्यग्रहणं संबध्यत इति भावः । अन्यथा ‘मानुषा’ इत्यत्रयञञोश्चे॑ति लुक्स्यादिति बोध्यम् ।
Tattvabodhini¶
मनोर्जातावञ्यतौ षुक् च - मानुषः । मनुष्य इति । जातिशब्दावेतौ ।अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः॑ । णत्वविधानार्थमिदम्, अमः सिद्धत्वात् । अनधीतवेदत्वान्मूढत्वं, विहिताननुष्ठानाच्च कुत्सितत्वम् । इदं च वचनब्राआहृणमाणवे॑ति णत्वनिपातनाल्लब्धमित्याहुः ।
Padamanjari¶
तथा चेति । अपत्यार्थे तु सति’यञञोश्च’ इति बहुषु लुक् प्रसज्येत; लौकिकस्य गोत्रस्य तत्र ग्रहणात् । अपत्ये कुत्सित इति । णत्वविधानार्थमिदम्, अणः सिद्धत्वात् । न च’न दण्डमाणवान्तेवासिषु’ इति णत्वसिद्धिः, अर्थविशेषस्यानिश्चायाद् । अनधीतवेदत्वान्मूढत्वम् । विहिताकरणात्प्रतिषिद्धसेवनाच्च कुत्सितत्वम् ॥
Nyaas¶
तथा च इत्यादि। यस्मादपत्यार्थोऽत्र नास्ति, एवञ्च कृत्वा मानुषा इति बहुषु लुग्न भवति। अपत्यार्थे तु सति यञञोश्च (2.4.64) इति बहुषु लुक् प्रसज्येत।अपत्ये कुत्सिते इत्यादि। मूर्धन्योपसंख्यानपरोऽयं श्लोकः। अण्प्रत्ययोऽपत्यविवक्षायाम् तस्यापत्यम् (4.1.92) इत्येनैव सिध्यति। ननु च मूर्धन्योऽपि च बहुलग्रहणानुवृत्त्या सिध्यत्येव? एवं तर्हि बहुलग्रहणानुवृत्तेर्लभ्य एवार्थः श्लोकेन कथ्यते। स चापि मूर्धन्यो विशिष्ट एव विषये मूढादावपत्ये भवति, न सर्वत्र। अनधीतवेदत्वदज्ञो मूढः। मूढत्वादेव प्रतिषिद्धाचरणाद्वा कुत्सितो यः स ब्राआहृणजातीयो माणव उच्यते॥
Prakriyasarvasvam¶
अस्मादपत्ये जातौ वाच्यायामञ्यतौ स्तः, षुगागमश्च । मानुषः मनुष्यः । अपत्यमात्रे त्वणि मानवः । पौत्रादौ गर्गादित्वात्मानव्यः । जातौ तु मानवा इति सम्बन्धमात्रेऽण् । <karika> कुत्सितेऽञेऽपि चापत्ये मनोरण् नस्य णस्तथा । कुत्सिते माणवो जाल्मस्तथाज्ञे माणवः शिशुः ॥ २०७ ॥ </karika>
Sutra Prayogas¶
मानुषानभिलष्यन्ती (भट्टिकाव्यम्): मनोज तावन्यतौ पुक् च इति तानभिलष्यन्ती कामयन्ती रन्तुमिच्छन्ती।