41169: साल्वेयगान्धारिभ्यां च

Padacheda: साल्वेय-गान्धारिभ्याम् | S | 5 | 2 |

च | S | 0 | 0 |

Sutrartha

‘साल्वेय’ तथा ‘गान्धार’ एतौ क्षत्रियवाचिनौ शब्दौ यदि जनपदस्य नामरूपेण अपि प्रयुज्येते, तर्हि ताभ्याम् ‘तस्य अपत्यम्’ अस्मिन् अर्थे अञ्-प्रत्ययः भवति ।

Vasu English Summary

The affix अञ् comes in the sense of descendant after the words 1. साल्वेय and 2. गान्धारि ।

Vasu English Translation

The affix अञ् comes in the sense of descendant after the words 1. साल्वेय and 2. गान्धारि । Both these are names of countries and denote also Kshatriyas as well. Therefore, by sutra (4.1.171) they having a Vriddhi in the first syllable, would have taken the affix ‘nyan’, the present sutra enjoins ‘an’ instead. Thus साल्वेयः ‘the son of Salveya, or the king of Salveya’, गान्धारः ‘the son of Gandhari or the king of Gandhari?’ The vartika under Sutra (4.1.168) given above applies here also, i.e. the affix denotes also ‘the king there of’

Kashika

साल्वेयगान्धारिशब्दाभ्यामपत्येऽञ् प्रत्ययो भवति। जनपदशब्दावेतौ क्षत्रियाभि — धायिनौ ताभ्यामञपवादे वृद्धादिति ञ्यङि प्राप्ते पुनरञ् विधीयते। साल्वेयः। गान्धारः। तस्य राजनीत्येव — साल्वेयो राजा। गान्धारो राजा॥

Siddhanta Kaumudi

आभ्यामपत्येऽञ् । वृद्धेत्-(SK1189) इति ञ्यङोऽपवादः । साल्वेयः । गान्धारः । तस्य राजन्यप्येवम् ॥

Balamanorama

साल्वेयगान्धारिभ्यां च - साल्वेय । ननु साल्वेयगान्धारिशब्दावव्युत्पन्नौ देशक्षत्रियोभयवाचिनौ, ताभ्यां जनपदशब्दादिञि सिद्धे किमर्थमिदमित्यत आह — ञ्यङोऽपवाद इति ।

Tattvabodhini

साल्वेयगान्धारिभ्यां च - बृद्धेत् । तपरकरणं किम् । कौमारः । कुमारीशब्दो हि जनपदक्षत्रियवचनः ।

Prakriyasarvasvam

अञ् स्यात् । साल्वेयः । गान्धारः । अपत्यं च राजा चैवम् ॥