41176: स्त्रियामवन्तिकुन्तिकुरुभ्यश्च¶
Padacheda: स्त्रियाम् | S | 7 | 1 |
अवन्ति-कुन्ति-कुरुभ्यः | S | 5 | 3 |
च | S | 0 | 0 |
Sutrartha¶
‘अवन्ति’, ‘कुन्ति’ तथा ‘कुरु’ शब्देभ्यः प्रयुक्तः यः तद्राजसंज्ञकप्रत्ययः, तस्य स्त्रीत्वे विवक्षिते लुक् भवति ।
Vasu English Summary¶
In denoting a feminine name, the तद्राजा is elided after the words 1. अवन्ति 2. कुन्ति and 3. कुरु ।
Vasu English Translation¶
In denoting a feminine name, the तद्राजा is elided after the words 1. अवन्ति 2. कुन्ति and 3. कुरु । That is to say the affix ‘nyan’. (4.1.171) after the word ‘Avanti’ and ‘Kunti’, and the affix ‘nya’ after the word ‘Kuru’ are elided when the word to be formed is the name of a female. Thus अवन्ती, कुन्ती and कुरु ‘a daughter or princess of Avanti, Kunti of Kuru’. The word कुरु takes ऊङ् in the feminine by (4.1.66). Why do we say ‘in denoting the feminine’? Observe आवन्त्यः, कौरव्यः and कौन्त्यः ॥
Kashika¶
अवन्तिकुन्तिकुरुशब्देभ्य उत्पन्नस्य तद्राजस्य स्त्रियामभिधेयायां लुग् भवति। अवन्तिकुन्तिभ्यां ञ्यङः, कुरोर्ण्यस्य। अवन्ती। कुन्ती। कुरूः। स्त्रियामिति किम्? आवन्त्यः। कौन्त्यः। कौरव्यः॥
Siddhanta Kaumudi¶
तद्राजस्य लुक्स्यात् । अवन्ती । कुन्ती । कुरूः ॥
Balamanorama¶
स्त्रियामवन्तिकुन्तिकुरुभ्यश्च - स्त्रियामवन्ति । अवन्ती कुन्तीति । अवन्तेः कुन्तेश्चापत्यं स्त्री राज्ञी वेति विग्रहः ।वृद्धेत्कोसले ति ञ्यङोऽनेन लुकिइतो मनुष्यजाते॑रिति ङीष् । कुरूरिति । ‘कुरुनादिभ्यः’ इति ण्यस्य लुक् ।
Tattvabodhini¶
स्त्रियामवन्तिकुन्तिकुरुभ्यश्च - अवन्ती । कुन्तीति ।वृद्धे॑दिति ञ्यङो लुकिइतो मनुष्यजाते॑रिति ङी, । कुरुरिति । ण्यस्य लुक्ऊङुतः॑इत्यूङ् ।
Padamanjari¶
अवन्ती, कुन्तीति । लुकि कृते ठितो मनुष्यजातेःऽ इति ङीष । कुरूरिति । ठूणुतःऽ ॥
Nyaas¶
अवन्ती। कुन्ती इति। तद्धितलुकि कृते इतो मनुष्यजातेः (4.1.65) इति ङीष्। कुरूः इति। ऊङ् (4.1.66) इत्यूङ्॥
Prakriyasarvasvam¶
एभ्यस्तद्राजप्रत्ययस्य स्त्रीलिङ्गे लुक् स्यात् । अवन्तीनां पुत्री अवन्ती । कुन्ती । कुरुः ॥ <karika>इतो मनुष्यजातेरित्युदितो ङीषिहाचयोः । कुरोरूङ्ङुत इत्यूङ् स्यादपत्यत्वेन जातिता ॥ २०८ ॥</karika>