41174: ते तद्राजाः¶
Padacheda: ते | S | 1 | 3 |
तद्राजाः | S | 1 | 3 |
Sutrartha¶
क्षत्रियवाचीनि यानि जनपदनामानि, तेभ्यः ‘तस्य अपत्यम्’ अस्मिन् अर्थे प्रयुक्ताः प्रत्ययाः ‘तद्राज’संज्ञकाः भवन्ति ।
Vasu English Summary¶
These (viz. the affixes अञ् – जनपदशब्दात् क्षत्रियादञ् (4.1.168) etc.) are called तद्राजा ‘the king thereof’ affixes.
Vasu English Translation¶
These (viz. the affixes अञ् – जनपदशब्दात् क्षत्रियादञ् (4.1.168) etc.) are called तद्राजा ‘the king thereof’ affixes. The affixes treated of in these six sutras (4.1.168) to (4.1.173) are called Tadraja. The pronoun ते refers to these only and not to all the affixes treated or before S. (4.1.168); for they have the special designation of Gotra and Yuvan see (2.4.62). The illustrations of these have already been given under each of the above six aphorisms.
Kashika¶
जनपदशब्दात् क्षत्रियादञ् (४.१.१६८) इत्येवमादयः प्रत्ययाः सर्वनाम्ना प्रत्यवमृश्यन्ते न तु पूर्वे, गोत्रयुवसंज्ञाकाण्डेन व्यवहितत्वात्। तेऽञादयस्तद्राजसंज्ञा भवन्ति। तथा चैवोदाहृतम्। तद्राजप्रदेशाः — तद्राजस्य बहुषु तेनैवास्त्रियाम् (२.४.६२) इत्येवमादयः॥
Siddhanta Kaumudi¶
अञादय एतत्संज्ञाः स्युः ॥
Laghu Siddhanta Kaumudi¶
अञादयस्तद्राजसंज्ञाः स्युः॥
Balamanorama¶
ते तद्राजाः - ते तद्राजाः । ते इत्यनेन जनपदशब्दादित्याद्यारभ्य विहिता अञादयः परामृश्यन्ते । तदाह — अञादय इति ।
Tattvabodhini¶
ते तद्राजाः - ते तद्राजाः । अञादय इति । ततः प्राचीनास्तु त्तच्छब्देन न परामृश्यन्ते, गोत्रयुवसंज्ञाकाण्डेन विच्छेजात् । एतदर्थमेव तत्काण्डं मध्ये कृतमाचार्येणेत्याहुः । वस्तुतस्तुतद्राजे॑त्यधिकृत्यजनपदशब्दात्क्षत्रियाद॑ञित्यादिसूत्राणामारम्भे गोत्रयुवसंज्ञाकाण्डस्य मध्ये पाठाऽभावेऽपि न क्षतिरित्यन्ये ।
Padamanjari¶
तथा चैवोदाहृतमिति । तत्र’तद्राजस्य बहुषु तेनैवास्त्रियाम्’ मित्यत्र कार्याश्रयमुदाहृतम्, इह तु प्रकरणे रूपाश्रयम् ॥
Nyaas¶
गोत्रयुवसंज्ञाकाण्डेन व्यवहितत्वात् इति।गोत्रयुवसंज्ञाप्रकरणं हि यदन्तरा व्यवधायं कृतं तस्यैतदेव प्रयोजनम्। तेन ये व्यवहिताः पूर्वेऽणादयस्तेषां ते तद्राजाः इत्यत्र सर्वनाम्ना प्रत्यवमर्शो मा भूदिति। तथा चैवोदाहृतम् (इति)। तद्राजस्य बहुषु तेनैवास्त्रियाम् (2.4.62) इत्यत्र कार्याश्रयमुदाहृतम्। इह तु प्रकरणे रूपाश्रयम्॥
Prakriyasarvasvam¶
एतेऽञादयस्तद्राजाख्याः । तेन ‘तद्राजस्य बहुषु—’ (२-४-६२) इत्यञादेर्लुक् । वैदेहः वैदेहौ विदेहाः । आङ्गः आङ्गौ अङ्गाः । एवं सौवीराः । अवन्तयः । कुन्तयः । कुरवः निषधाः । ‘कौरव्याः पशव’ इति वेणीसंहारोक्ति- र्ब्राह्मणत्वारोपात् । तत्र ण्यस्यातद्राजत्वात् अस्त्रियामित्युक्तेः स्त्रीलिङ्गे बहुत्वेऽपि लुग् न । वैदेह्यः स्त्रियः । अपत्यार्थैरेव सह द्वन्द्वेन कृते बहुत्वेऽप्यं लुक् स्यात् । यादवः कौरव्यो मागधश्च यदुकुरुमगधाः ॥