41168: जनपदशब्दात् क्षत्रियादञ्

Padacheda: जनपद-शब्दात् | S | 5 | 1 |

क्षत्रियात् | S | 5 | 1 |

अञ् | S | 1 | 1 |

Sutrartha

क्षत्रियवाची यः शब्दः जनपदस्य नामरूपेण अपि प्रयुज्यते, तस्मात् ‘तस्य अपत्यम्’ अस्मिन् अर्थे अञ्-प्रत्ययः भवति ।

Vasu English Summary

The affix अञ् comes in the sense of descendant after a word which while denoting a country, expresses also a tribe of क्षत्रिय-s.

Vasu English Translation

The affix अञ् comes in the sense of descendant after a word which while denoting a country, expresses also a tribe of क्षत्रिय-s. Thus पाञ्चालः ‘the son of Panchala’, so also ऐक्ष्वाकः and वैदेहः are Kshatriyas who live in that country. Of course, when the word is only expressive of Kshatriya, but not of the name of a country, अञ् will not be used but अण्, the difference being in the accent. Thus द्रौह्यवः ‘the son of ‘Druhya’; पौरवः ‘the son of Puru.’ Why do we say when it expresses Kshatriyas? Observe ब्राह्मणस्य पञ्चालस्यापत्यं = पाञ्चालिः, (4.1.95) ‘the son of Panchala a Brahmana’; so also वैदेहिः ॥

Vart:- Let the same affix, which comes when the sense is that of the progeny, be added to a word denoting a country named after Kshatriyas, to denote the king thereof. Thus पंचालानाम् राजा = पाञ्चालः ‘the king of the Kshatriyas called Panchala or of the country of Panchalas’. So also वैदेहः, ‘the king of the Kshatriyas or of the country of Videha’.

The words Panchala &c. originally are names of Kshatriya tribes only, secondarily they have been applied to the country inhabited by those tribes, because the Taddhita affix denoting ‘the country inhabited by them’, is elided by (4.2.81). Thus the same word पञ्चाल comes to denote the Kshatriya tribe as well as the country called Panchala. It will make practically little difference to consider words like Panchala &c. as original (not derivative) name of countries as well as of Kshatriyas. In fact, Panini himself considers them in the same light in this sutra, and does not think them to be derivative words, in spite of his own sutra (4.2.81). Those words when denoting a country are always in the plural, as पञ्चालाः, in denoting the Kshatriya, they are in the singular.

Bhashya

जनपदशब्दात् क्षत्रियादञ्ञ् (1414) (अञ्ञोऽधिकरणम्) (5325 पूर्वपक्षवार्तिकम्॥ 1 ॥) - क्षत्रियादेकराजात्सङ्घप्रतिषेधार्थम् - (भाष्यम्) क्षत्रियादेकराजादिति वक्तव्यम्। किं प्रयोजनम्? सङ्घप्रतिषेधार्थम्। सङ्घान्मा भूत् -पञ्ञ्चालानामपत्यम्, विदेहानामपत्यमिति। तत्तर्हि वक्तव्यम्॥ (समाधानभाष्यम्) न वक्तव्यम्। न ह्यन्तरेण बहुषु लुकं पञ्ञ्चाला इत्येतद्भवति। यस्तस्मादुत्पद्यते युवप्रत्ययः स स्यात्। युवप्रत्ययश्चेत्तस्य लुक्, तस्मिंश्चालुग् भविष्यति॥ इदं तर्हि -क्षौद्रकाणामपत्यम्, मालवानामपत्यमिति। अत्रापि क्षौद्रक्यो मालव्य इति नैतत्तेषां दासे वा भवति कर्मकरे वा। किं तर्हि? तेषामेव कस्मिंश्चित्। यावता तेषामेव कस्मिंश्चित्, यस्तस्मादुत्पद्यते स युवप्रत्ययः स्यात्। युवप्रत्ययश्चेत्तस्य लुक्, तस्मिंश्चालुग्भविष्यति॥ (क्षत्रियपदाक्षेपभाष्यम्) अथ क्षत्रियग्रहणं किमर्थम्? इह मा भूत् -विदेहो नाम ब्राह्मणस्तस्यापत्यं वैदेहिः॥ (5326 क्षत्रियपदप्रयोजनवार्तिकम्॥ 2 ॥) - क्षत्रियग्रहणानर्थक्ये चोक्तम् - (भाष्यम्) किमुक्तम्? एकं तावदुक्तम् -बाह्वादिप्रभृतिषु येषां दर्शनं गोत्रभावे लौकिके ततोऽन्यत्र तेषां प्रतिषेध इति। अपरमुक्तम् -अनभिधानादिति॥ (5327 अतिदेशवार्तिकम्॥ 3 ॥) - क्षत्रियसमानशब्दाज्जनपदात्तस्य राजन्यपत्यवत् - (भाष्यम्) क्षत्रियसमानशब्दाज्जनपदात्तस्य राजन्यपत्यवत्प्रत्यया भवन्तीति वक्तव्यम्। पञ्ञ्चालानां राजा पाञ्ञ्चालः॥ पूरोरण् वक्तव्यः -पौरवः॥ पाण्डोडर्यण् वक्तव्यः -पाण्डयः॥

Kashika

जनपदशब्दो यः क्षत्रियवाची, तस्मादपत्येऽञ् प्रत्ययो भवति। पाञ्चालः। ऐक्ष्वाकः। वैदेहः। जनपदशब्दादिति किम्? द्रुह्योरपत्यं द्रौह्यवः। पौरवः। क्षत्रियादिति किम्? ब्राह्मणस्य पञ्चालस्यापत्यं पाञ्चालिः। वैदेहिः॥ क्षत्रियसमानशब्दाज्जनपदशब्दात्तस्य राजन्यपत्यवत्॥ पञ्चालानां राजा पाञ्चालः। वैदेहः। मागधः॥

Siddhanta Kaumudi

जनपदक्षत्रिययोर्वाचकादञ् स्यादपत्ये । दाण्डिनायन-(SK1145) इति सूत्रे निपातनाट्टिलोपः । ऐक्ष्वाकः । ऐक्ष्वाकौ ॥<!क्षत्रियसमानशब्दाज्जनपदात्तस्य राजन्यपत्यवत् !> (वार्तिकम्) ॥ तद्राजमाचक्षामस्तद्राज इत्यन्वर्थसंज्ञासामर्थ्यात् ॥ पञ्चालानां राजा पाञ्चालः ।<!पूरोरण्वक्तव्यः !> (वार्तिकम्) ॥ पौरवः ।<!पाण्डोर्ड्यण् !> (वार्तिकम्) ॥ पाण्ड्यः ॥

Laghu Siddhanta Kaumudi

जनपदक्षत्त्रियवाचकाच्छब्दादञ् स्यादपत्ये। पाञ्चालः। क्षत्त्रियसमान शब्दाज्जनपदात्तस्य राजन्यपत्यवत् (वार्त्तिकम्) । पञ्चालानां राजा पाञ्चालः। पूरोरण् वक्तव्यः (वार्त्तिकम्)। पौरवः। पाण्डोर्ड्यण् (वार्त्तिकम्)। पाण्ड्यः॥

Padamanjari

जनपदशब्दोयः क्षत्रियवाचीति । नन्वेते पञ्चालादयः शब्दाः क्षत्रियशब्दा एव, तत्सम्बन्धातु’तस्य निवासः’ इति तद्धिते कृते’जनपदे लुप्’ इति च लुपि जनपदे वर्तन्ते, तत्कथमवरकालया जनपदशब्दतया नित्यक्षत्रियशब्दता लक्ष्यते ? कः पुनराह - क्षत्रियसम्बन्धादेव ते जनपदे वर्तन्त इति, सूत्रकारस्तावत्’लुब्योगाप्रख्यानात्’ इति वदन् क्षत्रियेष्विव जनपदेऽपि स्वाभाविका पञ्चालादिशब्दस्य प्रवृत्तिरित्याह - पाञ्चाल इति । यदपि पञ्चालादयः शब्दा जनपदे बहुवचनान्ताः, क्षत्रिये त्वेकवचनान्ताः, तथापि प्रातिपदिकस्य विशेषणं जनपदत्वम्, न सुबन्तस्येत्येकवचनान्तादपि प्रत्ययो भवत्येव । ऐक्ष्वाक इति । इक्ष्वाकुशब्दस्य दाण्डिनायनादिसूत्रे टिलोपो निपातितः । द्रौह्यव इति । क्षत्रियवचन एवायं न जनपदशब्दः । ब्राह्मणस्य पञ्चालस्येति । बाह्वादिप्रभृतिषु येषां दर्शनमित्युक्तत्वात्कथमत्र प्रसङ्ग इति चिन्त्यम् । क्षत्रियसमानशब्दादिति । समानः शब्दो यस्य यमानशब्दः, क्षत्रियेण यस्य समानशब्दस्तस्माज्जनपदशब्दात् तस्येति षष्ठीसमर्थाद्राजन्यभिधेयेऽपत्यवत्प्रत्ययो भवति । अवृद्धादपीति प्राप्तस्य वुञोऽपवादः । क्वचितु वृतावेवाय ग्रन्थः पठ।ल्ते । मागध इति ।’द्व्यञ्मगध’ इत्यण् ॥

Nyaas

जनपदवृत्तिशब्दः पञ्चालादिर्जनपद इत्युक्तः,क्षत्रियवृत्तिः क्षत्रिय इत्यभिधानेऽभिधेयोपचारात्, साहचर्याद्वा। ननु पञ्चालादयः शब्दाः, ते तस्य निवासः (4.2.69) इति तद्धिते कृते तस्य जनपदे लुप् (4.2.81) इति लुपि च जनपदे वर्तन्ते, तत् कथमवरकालया जनपदशब्दतया नित्याः क्षत्रियशब्दा विशेष्यन्ते? कथं पुनः क्षत्त्रियसम्बन्धादेते जनपदे वर्तन्त इत्येतदभिधातुमर्हति विद्वान्। सूत्रकारेण हि तदशि,यं संज्ञाप्रमाणत्वाल्लुव्योगाप्रख्यानात् (1.2.53,54) इतियुक्तवद्भावं लुपञ्च प्रत्यादिशता जनपदे क्षत्त्रियेष्विव स्वत एव पञ्चालादिशब्दस्य वृत्तिरुक्ता। यथा शब्दा नित्यास्तथा पञ्चालादिरपि जनपद इति कुतो जनपदवचनानताया अवरकालता !`पाञ्चालः` इत्यादि। पञ्चालादयः शब्दा देशे सन्तः क्षत्त्रियवाचिनोऽपि भवन्ति स्वभावत एव, तेभ्योऽपत्यार्थेऽञ्। ऐक्ष्वाकः इति। इक्ष्वाकुशब्दस्य दाण्डिनायनहस्तिनायन (6.4.174) इत्यादौ सूत्रे उकारलोपो निपातितः।द्रौह्रवः इति। द्रह्रुशब्दः क्षत्त्रियवचन एव, न जनपदशब्दः, तेनाणेव भवति। पाञ्चालिर्वैदेहिः इति। इह पञ्चालविदेहशब्दौ भवतो जनपदशब्दौ, न तु क्षत्त्रियवचनौ। अपि तु ब्राआहृणवचनो, तेनेञेव भवति। क्षत्त्रियसमानशब्दात् इत्यादि। क्षत्त्रियवचन एव शब्द उपचारेण क्षत्त्रिय इत्युक्तः जनपदशब्दो जनपद इति। क्षत्त्रियेण समानः शब्दो यस्य स तथोक्तः। तस्मात् क्षत्त्रियसमानशब्दादस्येति षष्ठीसमर्थाद्राजन्यभिधेयेऽपत्यवत् प्रत्ययोत्पत्तिरिति वक्तव्यम्। अवृद्धादपि बहुवचनविषयात् (4.2.125) (इति) प्राप्तस्य वुञोऽपवादः। यथा पञ्चालस्यापत्यमित्यत्र भवति पाञ्चालः, तथा पञ्चालानां राजा पाञ्चाल इत्यत्रापि भवति।मागधः इति। मगधशब्दादपत्ये द्व्यञ्मगधकलिङ्गसूरमसादण् (4.1.170) इत्यादिनाण् भवति, तथा तस् यराजेत्यत्रापि॥

Prakriyasarvasvam

जनपदवाचकात् क्षत्रियनाम्नोऽपत्येऽञ् स्यात् । पञ्चाला इति जनपदो राजानश्चोच्यन्ते । तदपत्यं पाञ्चालः । वैदेहः । इक्ष्वाकुशब्दात् अञि ओर्गुणे प्राप्ते, दाण्डिनायनाद्युक्त्या टिलोपः । ऐक्ष्वाकः ॥ केकयशब्दादञि—

Sutra Prayogas

  • मैथिल-यज्ञ-भूमिम् (भट्टिकाव्यम्): जनपदशब्दात् क्षत्रियादञ् इत्यत्र तस्य राजन्यपत्यवदित्यतिदेशादञ्।