Sutras 81 - 100¶
- 82081: एत ईद्बहुवचने
- 82082: वाक्यस्य टेः प्लुत उदात्तः
- 82083: प्रत्यभिवादेऽशूद्रे
- 82084: दूराद्धूते च
- 82085: हैहेप्रयोगे हैहयोः
- 82086: गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्
- 82087: ओमभ्यादाने
- 82088: ये यज्ञकर्मणि
- 82089: प्रणवष्टेः
- 82090: याज्याऽन्तः
- 82091: ब्रूहिप्रेष्यश्रौषड्वौषडावहानामादेः
- 82092: अग्नीत्प्रेषणे परस्य च
- 82093: विभाषा पृष्टप्रतिवचने हेः
- 82094: निगृह्यानुयोगे च
- 82095: आम्रेडितं भर्त्सने
- 82096: अङ्गयुक्तं तिङ् आकाङ्क्षम्
- 82097: विचार्यमाणानाम्
- 82098: पूर्वं तु भाषायाम्
- 82099: प्रतिश्रवणे च
- 82100: अनुदात्तं प्रश्नान्ताभिपूजितयोः