82098: पूर्वं तु भाषायाम्¶
Padacheda: पूर्वम् | S | 1 | 1 |
तु | S | 0 | 0 |
भाषायाम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
In the common speech, the end vowel of the first alternative is only प्लुत।
Vasu English Translation¶
In the common speech, the end vowel of the first alternative is only प्लुत। This makes a niyama or restriction. The previous sutra, is thus confined to Vedic literature, and not to the vernacular. तु here has the force of ‘only’. Thus अहि र्तू꣡ ३ रज्जुर्नु ‘Is it a snake or a rope’? लोष्टो तू꣡ ३ कपोतोनु ‘Is it a clod of earth or a pigeon ?’
The priority, of course, depends upon employment. The order of words depends upon one’s choice.
Kashika¶
भाषायां विषये विचार्यमाणानां पूर्वमेव प्लवते। अहिर्नु३ रज्जुर्नु। लोष्टो नु३ कपोतो नु। प्रयोगापेक्षं पूर्वत्वम्। इह भाषाग्रहणात् पूर्वयोगश्छन्दसि विज्ञायते॥
Siddhanta Kaumudi¶
विचार्यमाणानां पूर्वमेव प्लवते । अहिर्नु3 रज्जुर्नु । प्रयोगापेक्षं पूर्वत्वम् । भाषाग्रहणात्पूर्वयोगश्छन्दसीति ज्ञायते ॥
Padamanjari¶
पूर्वं तु भाषायाम्॥ पूर्वेणैव सिद्धे नियमार्थमेतत्, तुशब्दस्त्विष्टतोऽवधारणार्थः, यर्थेवं विज्ञायेत - पूर्वमेव भाषायामिति, मैवं विज्ञायि -पूर्वं भाषायामेवेति। पूर्वत्वं च प्रयोगापेक्षम्। उदाहरणे नुशब्दो वितर्केअ। लोष्टःउमृत्पिण्डः॥
Nyaas¶
पूर्वेणैव सिद्धे नियमार्थमेतत्। तुशब्दस्त्विष्टतोऽवधारणार्थः। असति हि तस्मिन्? विपरीतोऽपि नियमो विज्ञायेत -भाषायामेव पूर्वमिति। पूर्वत्वं च प्रयोगापेक्षम्। अहिर्नु3, रज्जुर्नु3 -इत्येतयोर्वाक्यायोर्यत्? पूर्वं प्रयुज्यते तस्यैव टेः प्लुतो भवति। इह तु भावाग्रहणात्? पूर्वयोगाश्छन्दसीति विज्ञायते॥
Prakriyasarvasvam¶
लोके विचार्यमाणानां पूर्वभागः प्लवते । रज्जुर्नु ३ अहिर्नु ।