82097: विचार्यमाणानाम्

Padacheda: विचार्यमाणानाम् | S | 6 | 3 |

Sutrartha


Vasu English Summary

The end syllable of those sentences is प्लुत which denote acts of reflection (or balancing between two alternatives).

Vasu English Translation

The end syllable of those sentences is प्लुत which denote acts of reflection (or balancing between two alternatives). To determine a thing by weighing all arguments pro and con is called vichara or judgment. Thus होतव्यं दीक्षितस्य गृहा ३ इ न होतव्या꣡३म् “should one perform sacrifice in the house of an initiated person”. Similarly तिष्ठेद्यूपा३इ, अनुप्रहरेद्यूपा३इ ॥ Here also it is being reflected upon whether यूपे तिष्ठेत् or यूपे अनुप्रहरेत् ॥ i. e. should the stake remain upright or should it be put flat by the yajamana. किं यूपस्तिष्ठेत्, किं वा यूपं यजमानः शाययेत् ॥

Kashika

प्रमाणेन वस्तुपरीक्षणं विचारः, तस्य विषये विचार्यमाणानां वाक्यानां टेः प्लुतो भवति। हो॒त॒व्यं॑ दीक्षि॒तस्य॑ गृ॒हा३इ (तै०सं० ६.१.४.५)। होतव्यं न होतव्यमिति विचार्यते। तिष्ठेद्यूपा३इ। अनुप्रहरेद्यूपा३इ। यूपे तिष्ठेत्, यूपेऽनुप्रहरेदिति विचार्यते॥

Siddhanta Kaumudi

वाक्यानां टेः प्लुतः । होतव्यं दीक्षितस्य गृहा3इ । न होतव्य3मिति । होतव्यं न होतव्यमिति विचार्यते । प्रमाणैर्वस्तुतत्त्वपरीक्षणं विचारः ॥

Padamanjari

कोटिद्वयस्य विज्ञानं विचार इति कथ्यते । विचार्यमाणस्तज्ज्ञानविषयीभूत उच्यते ॥ इह तु विचार्यमाणार्थविषयत्वाद्वाक्यानि विचार्यमाणानि । गृह3इ इति । गृहेशब्दस्य पूर्ववत् प्लुतविकारः । अनुप्रहरेदिति । अनुप्रहारः उ शायनम्, व्यत्ययेन कर्मणि कर्तृप्रत्ययः, शाययेतेत्यर्थः । अथ वानुप्रहरेदित्यत्र यूपं यजमान इत्यस्याध्याहारः, किं यूपं यजमानः शाययेदिति विचारार्थः ॥

Nyaas

प्रमाणेन वस्तुपरीक्षणं विचारः। तेन विषयीक्रियमाणानि विचार्यमाणानि। बहुवचननिर्देशो येषामर्थगत एव विचारो न स्वरूपगतः, तेषामपि यथा स्यादित्येवमर्थः; इतरथा हि येषां स्वरूपगतो विचारस्तेषामेव स्यात्। न हि मुख्ये वाक्ये विचार्यमाणे सत्यर्थद्वारकं गौणं यस्य विचार्यमाणत्वं तस्य ग्रहणं युक्तम्। `गृहा3इ इति। गृह इत्यत्र एकारः, तस्य एचोऽप्रगृह्रस्य (8.2.107) इत्यादिना पूर्वार्थस्याकारः, उत्तरार्धस्य त्विकारः। तस्याकारस्यानेन प्लुते भवति॥

Prakriyasarvasvam

विचार्यमाणार्थानां छन्दसि टेः प्लुतः स्यात् । सणकारं श्रवाणौ ३. अणकारां ३ इति ।