82099: प्रतिश्रवणे च

Padacheda: प्रतिश्रवणे | S | 7 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The end syllable of the sentence which expresses assent or promise or listening to, is प्लुत।

Vasu English Translation

The end syllable of the sentence which expresses assent or promise or listening to, is प्लुत। The word प्रतिश्रवण means “agreement, assent or promise”: It also means “listening to”. All these senses are to be taken here, as there is nothing in the sutra to restrict its scope. Thus it has three senses, 1. to promise something to a petitioner, 2. to acknowledge the truth of some proposition, 3. to listen to another’s words. Thus गां मे देहि भोः, 1. हन्त ते ददामि꣡ ३ ॥ 2. नित्यः शब्दो भवितुमर्हति꣡ ३ ॥ 3. देवदत्त भोः, किमात्या꣡ ३ ॥

Kashika

प्रतिश्रवणमभ्युपगमः, प्रतिज्ञानम्, श्रवणाभिमुख्यं च। तत्राविशेषात् सर्वस्य ग्रहणम्। प्रतिश्रवणे यद् वाक्यं वर्तते तस्य टेः प्लुतो भवति। देवदत्त भोः, किमा॒त्थ३। गां मे देहि भोः, अहं ते द॒दा॒मि३। नित्यः शब्दो भवितुम॒र्ह॒ति३॥

Siddhanta Kaumudi

वाक्यस्य टे प्लुतोऽभ्युपगमे प्रतिज्ञाने श्रवणाभिमुख्ये च । गां मे देहि भोः । हन्त ते ददामि3 । नित्यः शब्दो भवितुमर्हति 3 । दत्त किमात्थ3 ॥

Padamanjari

प्रतिश्रवणे च॥ प्रतिश्रवणमभ्युपगम इति। अङ्गीकारः। प्रतिज्ञानमिति। प्राथितस्य देयत्वेन संवादः। अत्रोभयत्रापि गतिसमासः, अर्थध्वयेऽपि प्रतिपूर्वः शृणोतिः प्रसिद्धः। श्रवणाभिमुख्यं चेति। अत्र’लक्षणेनाभिप्रती आभिमुख्ये’ इत्यव्ययीभावः। उदाहरणानि तु व्युत्क्रमेण दतानि। किमात्थ6 इति। किं ब्रूषे - इत्येतत्पृच्छति। अत्र च श्रवणाभिमुख्यं गम्यते। हन्त ते ददामि 6इति। अत्रि प्रार्थितस्य संवादो गम्यते। देवदत भोरित्यामन्त्रितम्। स यदर्थमामन्त्रितस्तच्छवणार्थं किमात्थ इति। गां मे देहि भोः, नित्यः शब्दो भनितुमर्हति, तस्मिन् तृतीये तूदाहरणे स्वाभ्युपगमो गम्यते॥

Nyaas

प्रतिश्रुतिः प्रतिश्रवणम्। प्रतिपूर्वाच्छृणोतेर्भावे ल्युट्, कुगति (2.2.18) इत्यादिना तत्पुरुषः। प्रतिपूर्वस्य शणोतिर्यदा परानुग्रहो विवक्ष्यते, तदाभ्युपगमे वर्तते। अथ त्वविवक्षा परानुग्रहस्य, तदा प्रतिज्ञाने। यदा श्रितिः -श्रवणमिति भावसाधनेन श्रवणशब्देन प्रतिशब्दस्य लक्षणेनाभिप्रती आभिमुख्ये (2.1.14) इत्यव्ययीभावः क्रियते, तदा श्रवणाभिमुख्ये श्रवणं प्रति प्रवृत्त इत्यर्थः। तदिह विशेषानभिधानात्? सर्वस्मिन्? प्रतिश्रवणे वाक्यस्य टेः प्लुतो भवति। देवदत्त भोः किमात्थ3 इति। एतच्छ्रवणाभिमुख्य उदाहरणम्। देवतत्त भोः इत्यामन्त्रितम्। तप्र श्रवणार्थमेवमाह -किमात्थ3 इति। एकत्र श्रवणमुद्दिश्य प्रवृत्तत्वादभिमुखं भवति। अभ्युपगमे तूदाहरणम् -गां मे देहि भोः, अहं ते ददामि3 इति। प्रतिज्ञाने -नित्यः शब्दो भवितुमर्मति इति। चकारो भाषायामित्यनुकर्षणार्थः॥

Prakriyasarvasvam

<karika>प्रार्थितस्यानुवादश्च स्वस्याभ्युपगमस्तथा । श्रवणाभिमुखत्वं च प्रतिश्रवणमिष्यते ॥ ३९ ॥</karika> <karika>एष्वर्थेषु वाक्यटेः प्लुतः स्यात् । इष्टं ददामि ३ इत्याह नित्य आत्मा ३ इति ब्रुवे । सखे किमात्थ ३ इत्याह श्रवणाभिमुखोऽपरः ॥ ४० ॥</karika>