82093: विभाषा पृष्टप्रतिवचने हेः¶
Padacheda: विभाषा | S | 1 | 1 |
पृष्टप्रतिवचने | S | 7 | 1 |
हेः | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
हि at the end of an answer to a question may optionally be प्लुत।
Vasu English Translation¶
हि at the end of an answer to a question may optionally be प्लुत। Thus Question : अकार्षीः कटं देवदत्त ? Answer:- अकार्षं ही꣡ ३ or अकार्षं हि ॥ Question : अलावीः केदारं देवदत्त ? Answer : अलाविषं꣡ ही ३ or हि ॥
Why do we say “in answer to a question”? Observe कटं करिष्यति हि ॥
Why do we say हेः “of हि”? Observe करोमि ननु ॥
Kashika¶
पृष्टप्रतिवचने विभाषा हेः प्लुतो भवति। अकार्षीः कटं देवदत्त? अकार्षं हि३, अकार्षं हि। अलावीः केदारं देवदत्त ? अलाविषं हि३, अलाविषं हि। पृष्टप्रतिवचन इति किम् ? कटं करिष्यति हि। हेरिति किम् ? करोमि ननु॥
Siddhanta Kaumudi¶
प्लुतः अकार्षीः कटम् । अकार्षं हि3 । अकार्षं हि । पृष्टेति किम् कटं करिष्यति हि । हेः किम् । कटं करोति ननु ॥
Padamanjari¶
प्रतिवचनशब्दोऽयं विरुद्धेऽपि शब्दे वर्तते, प्रतिशब्दस्य विरोधे प्रसिद्धेः - प्रतिमल्लः, प्रतिकुञ्जर इति; वचनं वचनं प्रतीति प्रतिवचनमिति वीप्सायामव्ययीभावेऽप्यस्ति; समाधानेऽप्यस्ति - अनेनाभिहितस्य मया प्रतिवचनं विहितमिति; पृष्टप्रतिवचनेऽपि वर्तते; तत्रासति पृष्टग्रहणे विवक्षितं प्रतिवचनं न गम्येत । उदाहणे हिशब्दोऽवधारणे ॥
Nyaas¶
पृष्टप्रतिवचनम् इति। पृष्टस्य प्रतिवचनम्ाख्यानं पृष्टप्रतिवचनम्। प्रतिवचनशब्दोऽयं विरुद्धेऽपि वचने प्रवर्तते -विरुद्धं वचनं प्रतिवचनमिति, प्रतिशब्दो ह्यत्र विरोधं द्योतयति, यथा -प्रतिमल्लः, प्रतिगज इति; वीप्सायामपि वर्तते -वचनं वचनं प्रतीति प्रतिवचनम्, यथार्थे यदव्ययम् (2.1.6) इति दीप्सायामव्ययोभावः; समाधानेऽपि वर्तते -यदनेनाभिहितं तस्य मया प्रतिवचनं विहिनमिति, समाधिर्विहित इति गम्यते; तत्र प्रतिवचने इत्युच्यमाने सर्वत्र प्रसज्येत। तस्मात्? प्रतिवचनविशेषार्थं पृष्टग्रहणम्। पृष्टस्य यत्? प्रतिवचनम्र्थाख्यानं तत्रैव यथा स्यात्, अन्यत्र मा भूदिति॥
Prakriyasarvasvam¶
पृष्टाख्यानद्योतकस्य हिशब्दस्य वा प्लुतः स्यात् । किमस्त्यद्भुतम् । अस्ति हि ३ इदं शृणु । प्लुताभावे सन्धिः । अस्ति हीदं शृणु ।