82089: प्रणवष्टेः

Padacheda: प्रणवः | S | 1 | 1 |

टेः | S | 6 | 1 |

Sutrartha


Vasu English Summary

In a sacrificial work ओ3म् is substituted for the final vowel with the consonant, if any, that may follow it, in a sentence.

Vasu English Translation

In a sacrificial work ओ3म् is substituted for the final vowel with the consonant, if any, that may follow it, in a sentence. The word यज्ञकर्मणि is understood here also. The word प्रणव means ओम् ॥ It is the name given to this syllable. This ओम् is substituted for the final letter (टि) of that word which stands either at the end of a Pada of a sacred hymns or at the end of a hemistich of such Rik. Thus for अ॒पां रेतां॑सि जिन्वति (Rig. VIII.44.16), we may have अपां रेतांसि जिन्वतो꣡ ३म् ॥ So also for दे॒वाञ् जिगा॑ति सु॒म्नयुः (Rig. III.27.1), we may have देवाञ् जिगाति सुम्नयो꣡ ३म् ॥

The word टि is repeated in this aphorism in spite of its anuvritti from (8.2.82), to indicate that ओम् replaces the whole last syllable, with its vowel and consonant. Had टि not been repeated, then by the rule of अलोऽन्त्यस्य the final letter only of the टि portion of a sentence would have been replaced. Thus in सुम्नयुः, the visarjaniya alone would have been replaced.

When not employed in connection with sacrificial works, there is no such substitution. Thus in simple reading of the Vedas, we should always recite अपां रेतांसि जिन्वति ॥

Bhashya

प्रणवष्टेः प्रणव इत्युच्यते कः प्रणवो नाम?॥ पादस्य वाऽर्द्धर्चस्य वाऽन्त्यमक्षरमुपसंहृत्य तदाद्यक्षरशेषस्य स्थाने त्रिमात्रमोङ्कारं त्रिमात्रमोकारं(1) वा विदधति तं प्रणव(2) इत्याचक्षते॥ अथ टिग्रहणं किमर्थम्?॥ टिग्रहणं सर्वादेशार्थम्॥ झ्र्टिग्रहणं(2) क्रियते॥ किं प्रयोजनम्?॥ सर्वादेशार्थम्ट। यदा ओकारस्तदा सर्वादेशो यथा स्यात्। यदाझ्र्हि(3)ट ॐकारस्तदाऽनेकाल्शित्सर्वस्येति सर्वादेशो भविष्यति॥ झ्र्प्रणवष्टेःट

Kashika

यज्ञकर्मणीति वर्तते। यज्ञकर्मणि टेः प्रणव आदेशो भवति। क एष प्रणवो नाम? पादस्य वार्द्धर्चस्य वान्त्यमक्षरमुपसंगृह्य तदाद्यक्षरशेषस्य स्थाने त्रिमात्रमोकारमोङ्कारं वा विदधति, तं प्रणवमित्याचक्षते। अ॒पां रेतां॑सि जिन्वतो३म् (ऋ० ८.४४.१६)। दे॒वान् जि॑गाति सुम्न॒यो३म् (ऋ० ३.२७.१)। टिग्रहणं सर्वादेशार्थम्। ओकारः सर्वादेशो यथा स्यात्, व्यञ्जनान्तेऽन्त्यस्य मा भूदिति। यज्ञकर्मणीत्येव — अ॒पां रेतां॑सि जिन्वति (ऋ० ८.४४.१६)॥

Siddhanta Kaumudi

यज्ञकर्मणि टेरोमित्यादेशः स्यात् । अपां रेतांसि जिवन्तो3म् (अ॒पां रेतां॑सि जिवन्तो3म्) । टेः किम् । हलन्ते अन्त्यस्य माभूत् ॥

Padamanjari

क एष प्रणवो नामेति । इह शास्त्रेऽपरिभाषितत्वात्प्रश्नः । पादस्येति । शास्त्रान्तरप्रसिद्ध आश्रीयते, देवतावत्, अक्षरमच्, अन्त्यमचं गृहीत्वेत्यर्थः । तदाद्यक्षरशेषस्येति । अक्षरं च शेषश्च हल् अक्षरशेषम्, तदन्त्यमक्षरमादिर्यस्य ततदादि, तदादि च तदक्षरशेषं त तदाद्यक्षरशेषं तस्य टेरिति । त्रिमात्रमिति । केचिन्मकारेण सह त्रिमात्रमिच्छन्ति, अन्ये भागमेव । तत्र आआकारविधिः सामिधेन्यादिषु प्रसिद्धः -स्वरादिमृगन्तमोकारं त्रिमात्रं मकारान्तं कृत्वोतरस्य अर्धे अवस्येदिति; आआकाराविधिस्तु निनर्देअ स्वरादिरन्त ओङ्कारश्चतुर्न्निनर्द इति । आथर्वणिकास्तु सर्वत्र चानयोविकल्पमिच्छन्ति, तेषामेव चेदं सूत्रं पठितम् । जिन्वतो3मिति ।’जिविः प्रीणानार्थः’ , लट्, तिप् । टेरिति वर्तमान इत्यादि । असति टिग्रहणे ठलोऽन्त्यस्यऽ इति वचनाट्टेर्योऽन्त्याल् तस्योकारः स्यात् । व्यभिचाराभावाद्धि प्रणवः प्लुतत्वेन विशेष्यते । संज्ञया विधाने चाच्परिभाषा प्रवर्तते, न वस्तुतस्त्रिमात्रविधाने । तस्माद्धल एव प्राप्नोति । अथाच्परिभाषोपस्थानार्थमेव प्लुतत्वेन प्रणवो विशेष्येत ? तथापि टेर्योऽच् तस्यैव स्यात्, न तु सर्वस्य टेः । आआकारस्त्वझल्समुदायत्वात् प्लुतो न भवतीति सर्वस्य टेः सिध्यति;’वाक्यस्य टेः’ इत्यधिकारात् ? सत्यम्; टिस्था निकस्यैव त्वोङ्कारस्य प्रणवसंज्ञत्वात् कथमन्त्यस्याचो वा प्रसङ्ग इति चिन्त्यम् ॥

Nyaas

क एष प्रणवो नाम इति। इह शास्त्रे प्रणवस्यापरिभाषितत्वाल्लोके चाप्रसिद्धत्वात्? प्रश्नः। पादस्य वा [पादस्य चेल्यादिना -प्रांउ।पाठः] इत्यादिना शास्त्रान्तरपरिमाषया प्रणवस्वरूपं दर्शयति। वान्त्यमक्षरम् इति। स्वरोऽत्राक्षरशब्देन विवक्षितः। अन्त्यत्वं पुनस्तस्येतरस्वरापेक्षयः। उपसंगृह्र इति। गृहीत्वेत्यर्थः। तदन्त्यमक्षरमादौ यस्याक्षरशेषस्य तत्? तदादि। अक्षरञ्च शेषञ्चेति [इति -नास्ति प्रांउ।पाठे] समाहारे द्वन्द्वः। अक्षरं स्वरः, तस्य शेषः व्यञ्जनम्, तदाचि च तदक्षरशेषञ्च, तदक्षरशेषं यत्रान्त्यात्? स्वरात्? परं व्यञ्जनं नास्ति तत्र स एव। तदादि तस्य बहुव्रीहेरन्यपदार्थः। व्यपदेशिवद्भावेन तत्रापि तदादिव्यपदेशो भवति। यत्रान्त्यात्? स्वरात्? परं व्यञ्जनमस्ति तत्र सह स्वरेण व्यञ्जनमन्यपदार्थः; तद्गुणसंविज्ञानस्य बहुव्रीहेरिहाश्रितत्वात्। योऽयमनेन ग्रन्थेन टिसंज्ञक एवोक्तो भवति तद्व्यक्षरशेषस्य ल्थाने यत्? त्रिमात्रनोकारम्, ओङ्कारं वा विदवाति तत्? प्रणवं कथयन्ति। जिन्वतो3म् इति। जयतेः परस्य लट्, तस्य शत्रादेशः, व्यत्ययेन श्नुप्रत्ययः, यणादेशः; जिन्वन्निति स्थितेऽन्शब्दस्यान्त्याक्षरादेः प्रणवः। सुम्नयो3म् इति। सुम्नशब्दात्? क्यच्, क्याच्छब्दसि (3.2.170) इति उप्रत्ययः, देवसुम्नयोर्यजुषि काठके (7.4.38) इति आभावः, सुम्नाअयुस्? इति स्थिते उसित्यस्यान्त्याक्षरादेः प्रणवः।ननु च टिस्थानिकयोरेव त्रिमात्रयोरोकारौकारयोः प्रणव इति परिभाषा कृता। तत्रान्तरेणापि टिग्रहणं टेरेव भविष्यति, तत्? किं टिग्रहणेन? इत्यत आह -टिग्रहणम् इत्यादि। असत्यत्र टिग्रहणे व्यञ्जनान्तेष्वलोऽन्त्यपरिभाषयाऽ (1.1.51) न्त्यस्यैव स्यात्। अतष्टिग्रहणं क्रियते -सर्वस्यैव टेर्यथा स्यादिति। अन्त्यस्य मा भूत् इति। ओङ्कारस्यानेकाल्त्वात्? सर्वादेशो भविष्यतीत्योकारार्थं टिग्रहणम्॥

Prakriyasarvasvam

यज्ञे पुरोनुवाक्यादीनामन्त्यस्य टेः प्लुतरूपः प्रणव आदेशः स्यात् । अपां- रेतांसि जिन्वतो ३ म् । अयं च प्रणवः कौषीतकानां क्वचिदोकारः अन्येषामोंकारः ।