82081: एत ईद्बहुवचने

Padacheda: एतः | S | 6 | 1 |

ईत् | S | 1 | 1 |

बहुवचने | S | 7 | 1 |

Sutrartha


Vasu English Summary

For the ए coming after the द् of अदस् , there is substituted ई , and द् is changed to म् when plurality is to be expressed.

Vasu English Translation

For the ए coming after the द् of अदस् , there is substituted ई , and द् is changed to म् when plurality is to be expressed. Thus अमी for अदे (or अते) अमीभिः for अदेभिः, अमीभ्यः for अदेभ्यः, अमीषाम् for अदेषाम्, अमीषु for अदेषु ॥ द is changed to त in अते &c.

The word बहुवचने in the sutra does not mean the technical बहुवचन; for that would have made the sutra have this sense “when the affixes of the Plural number follow”. In that case, we could not get the form अमी where no plural affix follows. Hence we have translated it, by saying when plurality is to be denoted.

Bhashya

एत इर्द्बहुवचने ॥ःइर्त्वं बहुवचनान्तस्य॥ इर्त्वं बहुवचनान्तस्येति वक्तव्यम्। बहुवचन इतीयत्युच्यमाने इहैव स्यात् -अमीभिः अमीषु। इह न स्यात्-अमी अत्र, अमी आसते इति(5)॥ तत्तर्हि वक्तव्यम्?॥ न वक्तव्यम्।नेदं पारिभाषिकस्य बहुवचनस्य ग्रहणं ॥किं तर्हि?॥ अन्वर्थग्रहणमेतत्। बहूनामर्थानां वचनं बहुवचनं, बहुवचन इति॥ झ्र्एत इर्द्बहुट।

Kashika

अदसो दकारादुत्तरस्य एकारस्य ईकारादेशो भवति, दकारस्य च मकारः, बहुवचने बहूनामर्थानामुक्तौ। अमी। अमीभिः। अमीभ्यः। अमीषाम्। अमीषु। बहुवचन इत्यर्थनिर्देशोऽयम्, पारिभाषिकस्य हि बहुवचनस्य ग्रहणेऽमी इत्यत्र न स्यात्॥

Siddhanta Kaumudi

अदसो दात्परस्यैत ईत्स्याद्दस्य च मो बह्वर्थोक्तौ । अमी । पूर्वत्रासिद्धम् (SK12)इति विभक्तिकार्यं प्राक् पश्चादुत्वमत्वे । अमुम् । अमू । अमून् । मुत्वे कृते घिसंज्ञायां नाभावः ॥

Laghu Siddhanta Kaumudi

अदसो दात्परस्यैत ईद्दस्य च मो बह्वर्थोक्तौ। अमी। पूर्वत्रासिद्धमिति विभक्तिकार्यं प्राक् पश्चादुत्वमत्वे। अमुम्। अमू। अमून्। मुत्वे कृते घिसंज्ञायां नाभावः॥

Balamanorama

एत ईद्बहुवचने - तत्र दकारादेकारस्य ऊत्त्वे प्राप्ते एत ईत् ।अदसोऽसेर्दादु दो मः॑ इत्यस्मात्अदसो दा॑दिति ‘दो मः’ इति चानुवर्तते । तदाह-अदस इत्यादिना । बह्वर्थोक्ताविति । सूत्रे बहुवचनशब्दो यौगिकः । पारिभाषिकस्य ग्रहणे तु अमीभिरित्यादिसिद्धावपि अमी इति न सिध्येत्, ‘अदे’ इत्येकारस्य बहुवचनतया तत्परकत्वाऽभावादिति भावः । ननु औजसादिषु त्यदाद्यत्वे पररूपे च उत्त्वमत्वयोः कृतयोरमुऔ अमुअः इत्यादि स्यात् । मुत्वस्याऽसिद्धत्वान्नयणित्याशङ्क्य आह — पूर्वत्रेति । विभक्तिकार्यमिति । त्यदाद्यत्वादिकमित्यर्थः । यदि तु पूर्वत्रासिद्ध मित्यत्रकार्याप्रवृत्तेरावश्यकतया परत्वात्रैपादिके मुत्वे कृते सति उत्वस्थानिनोऽकारस्यापहारे सति, पश्चान्मुत्वेऽभावप्रतियोगित्वारोपेऽपिदेवदत्तस्य हन्तरि हते सति देवदत्तस्य न पुनरुन्मज्जन॑मिति न्यायेन स्थानिभूतस्य दकारादकारस्याऽभावाद्वृद्धिगुणादि न स्यात् । शास्त्राऽसिद्धत्वपक्षे तु यद्यत्रैपादिकं शास्त्रं प्रवृत्त्युन्मुखं तत्तच्छास्त्र एवाऽभावारोपसम्भवात्पूर्वशास्त्रप्रतिबन्धकस्य परशास्त्रस्य उच्छेदबुद्दौ सत्यांविप्रतिषेधे परं कार्य॑मिति न प्रवर्तते । तदुक्तंपूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्ये॑ति । ततश्च स्थानिनोऽकारस्य निवृत्त्यभावाद्वृद्धिगुणादिप्रवृत्तिर्निर्बाधा । एतच्चपूर्वत्रासिद्ध॑मित्यत्र ‘अचः परस्मिन्’ इत्यत्र ‘षत्वतुकोरसिद्धः’ इत्यत्र च भाष्ये स्पष्टम् । प्रपञ्चितं च शब्देन्दुशेखरे शब्दरत्ने च इत्यास्तां तावत् । अमुमिति । अदस् अम् इति स्थिते त्यदाद्यत्वं, पररूपम्, अमि पूर्वः, उत्वमत्वे इति भावः । अमू इति । द्वितीयाद्विवचनं प्रथमाद्विववचनवत् । अमूनिति । शसि, त्यदाद्यत्वं, पररूपं, पूर्वसवर्णदीर्घः, नत्वम्, उत्वमत्वे इति भावः । तृतीयैकवचने अदस् आ इति स्थिते त्यदाद्यत्वं, पररूपम्, उत्वमत्वे च सिद्धवत्कृत्याह — नाभाव इति ।शेषो घ्यसखी॑ति घिसंज्ञायाम्आङो नाऽस्त्रिया॑मिति नाभाव इत्यर्थः । ननुपूर्वत्रासिद्ध॑मिति विभक्तिकार्यं प्राक्पश्चादुत्वमुत्वे इति प्रागुक्तम् । सम्प्रति तु मुत्वे कृते घिसंज्ञायां नाभाव इत्युच्यते । तदिदं पूर्वाऽपरविरुद्धमिति चेत्सत्यम् । यद्विभक्तिकार्यं प्रति मुत्वं निमित्तं न भवति, तदेव विभक्तिकार्यं प्राक् भवति, न त्वन्यदिति विवक्षितम् । इह च नाभावं प्रति मुत्वं निमित्तमिति प्रथमं मुत्वप्रवृत्तेरविरोधः, ‘न मु ने’ इत्यारम्भसामर्थ्यादित्यलम् ।

Tattvabodhini

एत ईद्बहुवचने - एत ईद्बहुवचने । परिभाषिकस्य बहुवचनस्य ग्रहणेअमीभि रित्यादिसिद्धावपि जसुअमी ति न सिध्येत् । न ह्यत्र एकारस्य बहुवचनपरताऽस्र्ति । अतो व्याचष्टे — बह्वार्थोक्ताविति । विभक्तिकार्य प्रागिति ।त्यदादीनामः॑इत्यादिसपादसप्ताध्यायीं प्रतिअदसोऽसे॑रिति त्रैपादिकसास्त्रस्याऽसिद्धत्वात्, अकृते विभक्तिकार्ये सान्तत्वादुत्वमत्वयोरप्रवृत्तेश्चेति भावः । यदि तुपूर्वत्रासिद्ध॑मित्यत्र कार्याऽसिद्धत्वमिष्येत, तर्हिअमू॒॑अमु॑मित्यादि न सिद्ध्येत् । त्यदाद्यत्वे कृते पररूपात्प्रागेवोत्वमत्वयोः कृतयोः पश्चान्मुत्वकार्यस्याऽसिद्धतयाअतो गुणे॑इति पररूपेअमौ॑इत्यादि रूपसिद्धिपर्सङ्गात् । किंच चर्म वस्तेचर्मवः॑, सुष्टु वस्तेसुवः॑ । अत्र परत्वात्स्कोरिति सलोपे तस्याऽसिद्धत्वा४द्धल्ह्रादिलोपे उक्तरूपं न सिध्यतीति कार्यऽसिद्धि पक्षो हेय एव । अत्र वदन्ति — ॒सपादसप्ताध्याय्यां विहितं कार्यं प्रति त्रिपाद्यां विहितमसिद्ध॑मिति प्रक्रियाग्रन्थोक्तकार्याऽसिद्धिपक्षेमनोरथः॑अमु॑मित्यादि न सिद्ध्येदिति केचुत् । तन्न । प्रक्तियाग्रन्थोक्तेर्हि कार्य प्रति — कार्ये कर्तव्ये, असिद्धं — पूर्वमेव न जातमित्यर्थः । शस्त्राऽसिद्धत्वेऽप्येवमेव फलितोऽर्थः । तदुक्तं कैयटेन -॒यच्छास्त्रमुच्चारितं तस्याऽसिद्धत्वमशक्यं कर्तुमित्यसिद्धवचनादतिदेश आश्रीयते॑इति । तथा चातिदशेन कार्याऽप्रवर्तकत्वरूपोऽसिद्धधर्मः शास्त्रेऽतिदिश्यमानः कार्याऽसिद्धत्व एव फलति । एवं चमनोरथ॑इत्यत्र उत्वे कर्यव्ये रेफलोपस्य पूर्वमेवाऽप्रवृत्तौ रोरुत्वस्याऽपर्तीघातान्मनोरथसिद्धिरप्त्यूहा । तथाअमु॑मित्यादिसिद्धिरिति कार्याऽसिद्धपक्षे न काप्यनुपपत्तिरिति ।

Padamanjari

अर्थनिर्दशोऽयमिति । व्याप्तेर्न्यायात् । किं पुनः कारणमेवं व्याख्यायते ? इत्यत आह - पारिभाषिके इति । तदा हि’तस्मिन्निति निर्दिष्टे पूर्वस्य’ इति परिभाषोपस्थानाद्वहुवचने परत एकारस्येत्वेन भवितव्यम्, न चात्र बहुवचनं परम् ॥

Nyaas

बहुवचन इत्यर्थविर्देशोऽयम् इति। अन्वर्थनिर्देश इत्यर्थः। एतदुक्तं भवति -नेदं पारिभाषिकस्य बहुवचनस्य ग्रहणम्, किं तर्हि? अन्वर्थस्य ग्रहणम् -बहुनामर्थानामुक्तिः बहुवचनमिति। किं कारणमेवं व्याख्यातम्? इत्याह -पारिभाषिकस्य हि इत्यादि। यदि पारिभाषिकस्य बहुवचनस्येदं ग्रहणं स्यात्, अमी इत्यत्र न स्यात्। न ह्यत्रैकारात्? परं पारिभाषिकं बहुवचनमस्ति। अन्वर्थग्रहणे त्वत्रापि बहुनामर्यानामभिधानमस्तीति सिध्यति। अन्वर्थग्रहणं तु व्याप्तिन्यायाल्लभ्यते -एव इति एकारस्य स्थानिवत्त्वं यथा विज्ञायेत। एः इत्युच्यमाने, इकारस्यापि स्थानित्वमाशङ्क्येत। किञ्च स्यात्? अद्रआदेशे कृते तदवयव स्येकारस्य यणादेशो बाधितः स्यात्। ईदिति तकारो मुखसुखार्थः॥

Praudhamanorama

पारिभाषिकस्य बहुवचनस्य ग्रहणे अमीभिरित्यादिसिद्धावपि जसि अमी इति न सिद्ध्येत्। न ह्यत्र एकारस्य बहुवचनपरताऽस्त्यतो व्याचष्टे—

Prakriyasarvasvam

असान्तस्यादसो बहुत्वे दात्परस्यैत ईत् स्यात् । दस्य च मः । अमी । सम्बुद्धौ—हे असौ । असकौ । असुकः । एवम् अदम् अदौ । अदानिति जाते पुनरुत्वमत्वे । अमुम् । अमू । अमून् । अद आ, उत्वमत्वे कृते धित्वान्नाभावः । अमुना । मुत्वस्यासिद्धत्वान्नुत्वाभावे प्राप्ते-

Sudha

एत ईद्बहुवचने इति । **अदसोऽसेर्दादु दो मः**(8.2.80) इत्यस्मात् अदसो दादिति, दो मः इति चानुवर्तते । तदाह - अदसो दात्परस्येत्यादिना । अमी । अदस + जस् अत्र **त्यदादीनामः**(7.2.102) इत्यकारान्तादेशे **अतो गुणे**(6.1.97) इति पररूपे अद+जस् इति स्थिते **जसः शी**(7.1.17) इति जसः स्थाने श्यादेशे शकारस्येत्संज्ञायां लोपे च **आद्गुणः**(6.1.87) इति गुणे ‘अदे’ इति जाते **एत ईद्बहुवचने**(8.2.81) इति एकारस्य ईकारे दस्य च मत्वे ‘अमी’ इति रूपम् । विभक्तिकार्यमिति । त्यदाद्यत्वादिकमित्यर्थः । अमुम् । अदस् + अम् इत्यत्र **त्यदादीनामः**(7.2.102) इत्यकारान्तादेशे **अतो गुणे**(6.1.97) इति पररूपत्वे च कृते ‘अमि पूर्वः’ इति पूर्वरूपकादेशे ‘अदम्’ इति जाते **अदसोऽसेर्दादु दो मः**(8.2.80) इति दात्परस्य अस्य उत्वे दस्य मत्वे च ‘अमुम्’ इति रूपम् । अमू । अदस् + औ इति स्थिते **त्यदादीनामः**(7.2.102) इति अकारान्तादेशे **अतो गुणे**(6.1.97) इति पररूपत्वे च कृते **वृद्धिरेचि**(6.1.88) इति वृद्धौ सत्याम् ‘अदौ’ इति जाते **अदसोऽसेर्दादु दो मः**(8.2.80) इति औकारस्य ऊत्वे दस्य मत्वे च ‘अमू’ इति रूपम् । अमून् । अदस् + शस् इते स्थिते त्यदाद्यत्वे, पररूपत्वे च कृते शकारस्येत्संज्ञायां लोपे च **प्रथमयोः पूर्वसवर्णः**(6.1.102) इति पूर्वसवर्णदीर्घादेशे **तस्माच्छसो नः पुंसि**(6.1.103) इति सस्य नत्वे ‘अदान्’ इति भूते **अदसोऽसेर्दादु दो मः**(8.2.80) इति आकारस्य ऊत्वे दस्य च मत्वे ‘अमून्’ इति रूपम् ।