82092: अग्नीत्प्रेषणे परस्य च¶
Padacheda: अग्नीत्प्रेषणे | S | 7 | 1 |
परस्य | S | 6 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
In an order given to अग्नीध्र priest, the first syllable as well as the succeeding syllable is प्लुत.
Vasu English Translation¶
In an order given to अग्नीध्र priest, the first syllable as well as the succeeding syllable is प्लुत. In a Yajna, the principal priests (rtvij) are four Adhvaryu, Udgata, Hota, Brahma. Every one of these has three subordinate priests (rtvij) under them: as shown below.
Adhvaryu: - (Yajur) - Pratiprasthata - Nestha (6.4.11) - Unneta.
Udgata - (Saman) - Prastota - Pratiharta - Subrahmanya.
Hota (Rig) VI.4.11. - Maitra - varuna - Achchhavak - Pota (6.4.11).
Brahma (Atharvan) - Brahmanachhansi - Agnidhra - Gravastuta (3.2.177).
The duty of Agnidhra is to kindle the sacrificial fire. In a summons or call (प्रेषण) made by the Adhvaryu, who is the Director of ceremonies, to the Agnidhra to perform the functions of Agnidh, both syllable become pluta.
The word अग्नीत् प्रेषण is a compound = अग्नीधः प्रेषणम् “a call or summon relating to Agnidh duty.”
Thus आ ३ श्रा ३ वय, ओ ३ श्रा ३ वय ॥ The pluta takes place only in these examples; therefore, not here, as अग्नीदग्नीन् विहर; यर्हि स्तृणीहि ॥ Some, therefore, read the anuvritti of the word विभाषा from the next sutra, into this, and would have it an optional rule, of fixed jurisdiction (vyavasthita vibhasha). Others say “all pluta rules are optional” (सर्व एव प्लुतः साहसमनिच्छता विभाषा विज्ञेयः) In उद्धर ३ उद्धर, अभिहर ३ अभिहर, there is Vedic diversity.
The words ‘relating to sacrificial work’ (यज्ञकर्मणि) are understood here also. Therefore not in ओ श्रावय ॥
Bhashya¶
अग्नीत्प्रेषणे परस्य च ॥ अग्नीत्प्रेषण इत्यतिप्रसङ्गः॥ अग्नीत्प्रेषणे इत्यतिप्रसङ्गो भवति। इहापि प्राप्नोति-अग्नीदग्नीन्विहर। ॥ सिद्धं त्वोश्रावये परस्य(1) चेति वचनात्॥ सिद्धमेतत्॥ कथम्? झ्र्ठओश्रावये परस्य चेति वचनात्ट। ओश्रावये परस्येति वक्तव्यम्। ओ3श्रा3वय॥ अपर आह-ओश्रावयाश्राव(1)ययोरिति वक्तव्यम्। ओ3श्रा3वय॥ आ3श्रा3वय। ॥ बहुलमन्यत्र(2)॥ बहुलमन्यत्रेति(3) वक्तव्यम्। उद्धरा(4) 3 उद्धर। आहरा(4) 3 आहर॥ तत्तर्हि वक्तव्यम्?॥ न वक्तव्यम्। योगविभागः करिष्यते-अग्नीत्प्रेषणे परस्य च विभाषा। ततः पृष्टप्रतिवचने हेः। विभाषेत्येव। अपर आह-॥ सर्व(1) एव प्लुतः साहसमनिच्छता विभाषा वक्तव्यः॥. झ्र्अग्नीत्प्रेषणेट॥
Kashika¶
अग्नीधः प्रेषणमग्नीत्प्रेषणम्। तत्रादेः प्लुतो भवति परस्य च। आ३ श्रा॑३व॒य (तै०सं० १.६.११.२)। ओ३श्रा३व॑य। अत्रैवायं प्लुत इष्यते। तेनेह न भवति — अग्नी॑द॒ग्नीन् विह॑र ब॒र्हिः स्तृ॑णाहि (तै०सं० ६.३.१.२) इति। तदर्थं केचिद् वक्ष्यमाणं विभाषेत्यभिसंबध्नन्ति। सा च व्यवस्थितविभाषेति। अपर आह — **सर्व एव प्लुतः साहसमनिच्छता विभाषा विज्ञेयः**(महाभाष्य ३.४२०) इति। इह तु उद्धर३उद्धर, अभिहर३अभिहर इति छान्दसः प्लुतव्यत्ययः। यज्ञकर्मणीत्येव — ओ श्रावय॥
Siddhanta Kaumudi¶
अग्नीधः प्रेषणे आदेः प्लुतस्तस्मात्परस्य च । ओ3श्रा3वय ॥
Padamanjari¶
अत्रैवायं प्लुत इष्यत इति । ओस्वधेत्याश्रवणमित्यत्र तु तत्स्थानापन्नात्वाद्भवति । आ3स्वधेति । तथा चाश्वलायनः -ठ्नित्याः प्लुतयःऽ इति । उद्धर3 उद्धरेति । चापले द्विर्वचनम् ॥
Nyaas¶
अग्निमिन्त्रे इत्यस्मिन्नर्थेऽग्नीट्ृत्विग्विशेषः, तस्य प्रेषणं नियोजनमग्नीत्प्रेषणमित्यर्थः। आदेः सन्निहितत्वात्? तदपेक्षयैव परोऽपि ज्ञायत इत्याह -तस्मादेवादेः इत्यादि। अत्रैव इति। अनन्तरोक्त उदाहरणद्वय एवकारेण यद्व्यवच्छिन्नं तद्दर्शयितुमाह -अग्नीदग्नीन्? विहर बर्हिस्तृणीहि इति। कथं पुनरेतल्लभ्यते? इत्याह -तदर्थम् इत्यादि। यथा च सर्वत्र प्लुतो विभाषा शक्यो विज्ञातुम्, तथा गुरोरनृतोऽनन्त्यस्य (8.2.86) इत्यादौ सूत्रे प्रतिपादितम्। यदि तर्हि सर्वत्र प्लुतो विभाषा विज्ञायेत, उत्तरत्र विभाषाग्रहणमनर्थम्? न; प्रपञ्चार्थत्वात्। अथेह कथं प्लुतः -उद्धर3 उद्धर, अभिहर3 अभिहर इति; स्वाध्यायकाले ह्रयंप्लुतः, नाग्नीत्प्रेषणे, न चायमादेः, नापि आदेः परस्य (1.1.54) , किं तर्हि? ततोऽन्यस्यैव? इत्यत आह-देः सन्निहितत्वात्? तदपेक्षयैव परोरपि ज्ञायत इत्याह -तस्मादेवादेः इत्यादि। अत्रैव इति। अनन्तरोक्त उदाहरणद्वय एवकारेण यद्व्यवच्छिन्नं तद्दर्शयितुमाह -अग्नीदग्नीन्? विहर बर्हिस्तृणीहि इति। कथं पुनरेतल्लभ्यते? इत्याह -तदर्थम् इत्यादि। यथा च सर्वत्र प्लुतो विभाषा विज्ञायेत, उत्तरत्र विभाषाग्रहणमनर्थकम्? न; प्रपञ्चार्थत्वात्। अथेह कथं प्लुतः -उद्धर3 उद्धर, अभिहर3 अभिरह इति; स्वाध्यायकाले ह्रयं प्लुतः, नाग्नीत्प्रेषणे, न चायमादेः, नापि आदेः परस्य (1.1.54) , किं तर्हि? ततोऽन्यस्यैव? इत्यत आह -इह तु इत्यादि। विस्पष्टार्थम्॥
Prakriyasarvasvam¶
ओ श्रावयेत्याग्नीध्रं प्रति प्रेषणे आदेः ततः परस्य च प्लुतः स्यात् । ओ ३ श्रा ३ वय ।