82100: अनुदात्तं प्रश्नान्ताभिपूजितयोः¶
Padacheda: अनुदात्तम् | S | 1 | 1 |
प्रश्नान्ताभिपूजितयोः | S | 7 | 2 |
Sutrartha¶
Vasu English Summary¶
The end vowel at the end of a question or of a praise is प्लुत, but unaccented.
Vasu English Translation¶
The end vowel at the end of a question or of a praise is प्लुत, but unaccented. That which is employed at the end of an interrogative sentence is called प्रश्नान्तः ॥ According to some, this rule does not ordain pluta, but only ordains the anudatta-ness of those syllables which become pluta by the previous rules (8.2.84) &c. The meaning of the sutra then is:- That pluta which comes at the end of an Interrogative sentence or a sentence denoting admiration, is anudatta.
Thus अगमा꣡३ : पूर्वा꣡३म् ग्रामा꣡३न् अग्निभूता॒३इ or अगम॑३: पूर्वा॑३न् ग्रामा॑३न् पटा॒३उ (i.e. अगमः पूर्वान् ग्रामान् अग्निभूते or पटो) ॥ The words अग्निभूते, and पटो being finals in a question, become anudatta as well as pluta. The other words अगमः &c become svarita and pluta by (8.2.105). See (7.2.10).
As regards अभिपूजिते we have शोभनः खल्वसि माणवका॒ ३ ॥ Here the final of माणवक becomes anudatta and pluta.
Kashika¶
अनुदात्तः प्लुतो भवति प्रश्नान्ते, अभिपूजिते च। अगम॑३ः पूर्वा॑३न् ग्रामा॑३न् अग्निभूता॒३ इ, पटा॒३उ। अग्निभूते, पटो इत्येतयोः प्रश्नान्ते वर्तमानयोरनुदात्तः प्लुतो भवति। अगम इत्येवमादीनां तु **अनन्त्यस्यापि प्रश्नाख्यानयोः**(८.२.१०५) इति स्वरितः प्लुतो भवति। अभिपूजिते — शोभनः खल्वसि माणवक॒३॥
Siddhanta Kaumudi¶
अनुदात्तः प्लुतः स्यात् । दूराद्धूतादिषु सिद्धस्य प्लुतस्यानुदात्तत्वमात्रमनेन विधीयते । अग्निभूत 3 इ । पट 3 उ । अग्निभूते पटो एतयोः प्रश्नान्ते टेरनुदात्तः प्लुतः । शोभनः खल्वसि माणवक3 ॥
Padamanjari¶
अनुदातं प्रश्नान्तभिपूजितयोः॥ प्रश्नवाक्ये यच्चरमं प्रयुज्यते स प्रश्नान्तः। क्वचित्पठ।ल्ते - नानेन प्लुतो विधीयते, किन्तु दूराद्धूतादिषु विहितस्य ठनन्त्यस्यापि प्रश्नाख्यानयोःऽ इति स्वरितप्लुतस्यानुदातत्वं गुणमात्रं विधीयत इति। तत्रैषा वचनव्यक्तिः - प्रश्नान्ते अभिपूजिते च यः प्लुतः सोऽनुदातो भवतीति। तत्राभिपूजिते’दूराद्धूते च’ इति प्लुत इति। इतरत्र तु ठनन्त्यस्यापि प्रश्नाख्यानयोःऽ इति। अगमः पूर्वान् ग्रामानित्येषां स्वरितः प्लुतः। अग्निभूते, पटो - इत्यन्यतरेण वाक्यपरिसमाप्तिर्भवति। तत्र यदा येन वाक्यपरिसमाप्तिस्तदा तस्यानेनानुदातः प्लुतः, स च पूर्वभागस्य; उतरभागस्य तूदाताविदुतौ भवतः॥
Nyaas¶
अगम3` इति। गमेर्लुङ्? पुवदिसूत्रेण (3.1.55) लृदित्त्वादङ्, सिप्। अग्निभूता3इ इति, पटा3उ इति। सम्बुद्धौ परतः ह्रस्वस्य गुणः (7.3.108) इति गुणः, एचोऽप्रगृह्रस्य (8.2.107) इत्यादिनाऽकारः, इदुतौ च। उदाहरणवाक्ये पूर्वपदानामेतेनैव प्लुतः, कृत इति गृहीत्वा यश्चोदयेत् -अथ कथमिहानन्त्यस्यापि प्लुतो भवति, यावता वाक्यस्य टेरित्यनुवर्तते इति? तं प्रत्याह -अग्निभूते, पटो इत्येतयोः इत्यादि॥
Prakriyasarvasvam¶
प्रश्नवाक्यस्यान्ते अभिपूजिते च प्लुतस्यानुदात्तत्वं स्यात् । अद्या ३ आगम ३ः । ‘अनन्त्यस्यापि प्रश्नाख्यानयोः’(८-२-१०५) इति प्रश्ने सर्वपदटीनां स्वरितः प्लुत उक्तः । तस्यान्त्यस्यानुदात्तत्वमुच्यते । तस्य स्वरितत्वमपि वेति वाच्यम् । अभिपूजिते-शोभनोऽसि विप्रा ३ । अत्र ‘दूराद्धूते च’ (८-२-८४) इति प्लुत इति हरः । तस्वानुदात्तत्वमात्रमनेनोच्यते । प्रश्नवाक्यस्यान्ते अभिपूजिते च प्लुतस्यानुच्चत्वं स्यात् । अद्याख्या आगमा (:) । ‘अनन्त्यस्यापि प्रश्नाख्यानयोः’ (८-२-१०५) इति प्रश्ने सर्वपदानां स्वरितः प्लुत उक्तः । तत्रान्त्यस्यानुच्चत्वमुच्यते । तस्य स्वरितत्वमपि वेति वाच्यम् । शोभनोऽसि कृष्णा३ । अत्र ‘दूराद्धूते च’ (८-२-८४) इति प्लुत इति हरः । तस्यानुच्चत्वमात्रमेवानेनोच्यते । ‘एचोऽप्रगृह्यस्य—’ (८-२-१०७) इति प्लुत- विकारे—आगमा हरा इ, आगमा विष्णा उ । भद्रोऽसि हरा इ । भद्रोऽसि विष्णा उ । अत्रान्त्ययोः स्वारानुच्चौ । अनयोरनुच्चतैव ।