82095: आम्रेडितं भर्त्सने¶
Padacheda: आम्रेडितम् | S | 1 | 1 |
भर्त्सने | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The end syllable of an आम्रेडित Vocative Case is प्लुत when threat is expressed.
Vasu English Translation¶
The end syllable of an आम्रेडित Vocative Case is प्लुत when threat is expressed. A Vocative is reiterated when threat is meant (8.1.8). Its final syllable becomes pluta. Thus चौर꣡ चौरा꣡३ घातिष्यामि त्वा ॥ So also वृषल वृषला꣡३ बन्धयिष्यामि त्वा, दस्य दस्यो३ &c.
Though the anuvritti of the sutra (8.2.82), is current here, yet the final of the sentence is not pluta, but of the amredita.
Vart:- It should be rather stated that any one of the repeated words may be pluta by alternation. Thus चौरा꣡३ चौर or चौर꣡ चौरा꣡३ ॥ The word amredita is employed in the sutra as illustrative of the doubling, for threat is expressed by both words, so pluta may be of both words in turn: and not of the second word only, though that is called technically amredita.
Bhashya¶
आम्रेडितं र्भत्सने ॥ र्भत्सने पर्यायेण॥ र्भत्सने पर्यायेणेति वक्तव्यम्। चौरा(2) 3 चौर। चौर चौरा(2) 3। कुशीला 3 कुशील। कुशील(3) कुशीला3॥
Kashika¶
वाक्यादेरामन्त्रितस्य० (८.१.८) इति भर्त्सने द्विर्वचनमुक्तम्, तस्याम्रेडितं प्लवते। चौर॑चौ॒र३, वृष॑लवृष॒ल३, दस्यो॑द॒स्यो३ घातयिष्यामि त्वा, बन्धयिष्यामि त्वा॥ भर्त्सने पर्यायेणेति वक्तव्यम्॥ चौ॒र३चौ॑र, चौर॑चौ॒र३। तदर्थमाम्रेडितग्रहणं द्विरुक्तोपलक्षणार्थं वर्णयन्ति॥
Siddhanta Kaumudi¶
दस्यो3दस्यो3घातयिष्यामि त्वाम् । आम्रेडितग्रहणं द्विरुक्तोपलक्षणम् । चौर3 चौर3 ॥
Padamanjari¶
उदाहरणेषु’वाक्यादेरामन्त्रितस्य’ इत्यादिना द्विर्वचनम् ।’वाक्यस्य टेः’ इत्यधिकारेऽप्यत्रानन्त्यस्य भवति; वाक्यादेरेव पदस्य भर्त्सने द्विर्वचनविधानात् । तदर्थमिति । पर्यायेण पूर्वोतरयोर्भागयोः प्लुतो यथा स्यादित्येवमर्थम् । द्विरुक्तोपलक्षणार्थमिति । द्विरुक्तसमुदाये भागद्वयोपलक्षणार्थमित्यर्थः । एतच्चाम्रेडितमात्रस्य भर्त्सने वृत्यसम्भवाल्लभ्यते, पर्यायस्य तु ठेकैकस्यऽ इत्यनुवृतेर्लाभः ॥
Nyaas¶
चौर चौर3 इति। वाक्यादेरामन्त्रितस्य (8.1.8) इत्यादिना भत्र्सने द्विर्वचनम्। यद्यपि वाक्यग्रहणमेतदन्त्यस्य पदस्य प्लुतनिवृत्त्यर्थम्, तथापीह वचनसामर्थ्यादनन्त्यस्यापि भवति। न हि वाक्यान्ते भत्र्सन आम्रेडितं सम्भवति, वाक्यादेरेव पदस्य भत्र्सने द्विर्वचनविधानात्। तदर्थम् इति। पर्यायेण पूर्वोत्तरयोः पदयोर्यथा स्यादित्येवमर्थम्; द्विरुक्तोपलक्षणार्थञ्च। आम्रेडितस्य भत्र्सनग्रहणाद्विज्ञायते -तद्द्विरुक्तस्य हि यत्? परं तदाम्रेडितम्। न च तावता भत्र्सने प्रवृत्तिः सम्भवति; भत्र्सनस्य द्विरुक्तिद्योत्यत्वात्। तस्माद्द्विरुक्तोपलक्षणार्थमाम्रेडितग्रहणं विज्ञायते। तद्द्विरुक्तिश्च पूर्वोत्तरविषयेऽपीति द्वयोरपि प्लुतो भवति। स च पर्यायेण भवति, न यौगपद्येन; भत्र्सनद्योतनफलत्वात्? प्लुतेः। अन्यतरप्लुत्यैव च तद्भत्र्सनस्य द्योतितत्वात्॥
Prakriyasarvasvam¶
वधायुक्त्या भयोत्पादनं भर्त्सनम् । तत्राम्रेडितमेव प्लवते । अहिताहित ३ अर्दये त्वाम् ।<!भर्त्सने पर्यायेण् प्लुतो वाच्यः!> (वा० ८-२-९५) । तेन पूर्वस्य च स्यात् । अहित ३ अहित अर्दये त्वाम । प्लुतस्य वावचनात् प्लुतं विनाप्येषु द्वित्वमस्ति ।
Vartika¶
भर्त्सने पर्यायेणेति वक्तव्यम् ।