82094: निगृह्यानुयोगे च

Padacheda: निगृह्य | S | 0 | 0 |

अनुयोगे | S | 7 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The end syllable of that sentence is optionally प्लुत when it asserts something which has been refuted and is used by the victor by way of censure.

Vasu English Translation

The end syllable of that sentence is optionally प्लुत when it asserts something which has been refuted and is used by the victor by way of censure. The word निग्रहः means the refutation of another’s opinion. निग्रह्य is a gerund, and means ‘having refuted’. अनुयोगः is the expression of the same proposition which has been refuted. When a person has demonstrated the untenableness of another’s assertion, and then employs the said assertion by way of taunt, reproach or reprimand, then the final syllable of such a sentence becomes pluta. The sutra literally means “Having refuted (it) when asserting (the same by way of censure).”

Thus an opponent asserts that “The word is not eternal.” (अनित्यः शब्दः). Proving by arguments the untenableness of this position, and after refuting it, the victor says by way of reprimand:- अनित्यः शब्द इत्यात्था꣡ ३ अनित्य शब्द इत्यात्थ ॥ ‘This is then your assertion - that the word is not eternal’. Similarly अद्य श्राद्धमित्यात्था꣡ ३ or अद्य श्राद्धमित्यात्थ ॥ अद्यामावास्येत्यात्था꣡ ३ or अद्यामावास्येत्यात्थ ॥

In some texts of Kasika, according to Padamanjari, only the last example is given.

Kashika

स्वमतात् प्रच्यावनं निग्रहः। अनुयोगस्तस्य मतस्याविष्करणम्। तत्र निगृह्यानुयोगे यद् वाक्यं वर्तते तस्य टेः प्लुतो भवति विभाषा। अनित्यः शब्द इति केनचित् प्रतिज्ञातम्, तमुपालिप्सुरुपपत्तिभिर्निगृह्य साभ्यसूयमनुयुङ्क्ते — अनित्यः शब्द इत्यात्थ३, अनित्यः शब्द इत्यात्थ। अद्य श्राद्धमित्यात्थ३, अद्य श्राद्धमित्यात्थ। अद्यामावास्येत्यात्थ३, अद्यामावास्येत्यात्थ। अद्यामावास्येत्येवं वादी युक्त्या प्रच्याव्य स्वमतादेवमनुयुज्यते॥

Siddhanta Kaumudi

अत्र यद्वाक्यं तस्य टेः प्लुतो वा । अद्यामावास्येत्यात्थ3 । अमावास्येत्येवंवादिनं युक्त्या स्वमतात्प्रच्याव्य एवमनुयुज्यते ॥

Padamanjari

निगृह्यएति । ल्यबन्तमेतत् । स्वमतादिति । स्वपक्षात् । प्रच्यावनमुअपनयः । तस्यैवेति । यस्मादसौ प्रच्यावितस्तस्यैव स्वपक्षस्याविष्करणमुशब्देन प्रकाशनम् -एवं किल त्व निरुपपतिकमात्थेति । सूत्रार्थमुदाहरणे दर्शयन्नेवोदाहरति - अनित्यः शब्द इति केनचित्प्रतिज्ञातमिति । तमेवं वादिनमुपालिप्सुरुपालब्धुकामो निगृह्य स्वमतात्प्रच्याव्य साभ्यसूयं सामर्षमनुयुङ्क्ते आविष्कृतस्वमतकरोति । क्वचित्वयं ग्रन्थो न पठ।ल्ते, अन्ते तु पठ।ल्ते । अद्यामावास्या इत्येवंवादी प्रच्याव्य स्वमतादेवमनुयुज्यत इति ॥

Nyaas

निगृह्र इति। ल्यबन्तमेतत्। स्वतात् इति। स्वावगमात्। प्राच्यावनम्`[`प्रच्याचनम् -प्रांउ।पाठः] इति। अपनयनम्। आविष्करणम् इति। प्रकाशनम्। श्राद्धम् इति। कर्मविशेषः। एवमनुयुज्यते इति। एवमादिष्कृतस्वमतः क्रियत इत्यर्थः। चकारो विभाषेत्यस्यानुकर्षणार्थः। तेनोत्तरविधिर्नित्यो भवति॥

Prakriyasarvasvam

<karika>युक्तिं१ निरस्य सामर्ष प्रश्ने वा वाक्यटेः प्लुतः । वेदः कृतक इत्यात्थ२ ३ अत्र युक्तिर्हता तव ॥ ३८ ॥</karika>